१०. उतेनसुत्तवण्णना
७०. दसमे रञ्ञो उतेनस्साति उतेनस्स नाम रञ्ञो, यो ‘‘वज्जिराजा’’तिपि वुच्चति. उय्यानगतस्साति उय्यानकीळनत्थं उय्यानं गतस्स. अनादरे हि इदं सामिवचनं, ‘‘अन्तेपुर’’न्ति पन पदं अपेक्खित्वा सम्बन्धेपेतं सामिवचनं होति. कालङ्कतानीति अग्गिदड्ढानि हुत्वा मतानि होन्ति. सामावतीपमुखानीति एत्थ का पनायं सामावती, कथञ्च दड्ढाति? वुच्चते, भद्दवतियं सेट्ठिनो धीता घोसकसेट्ठिना धीतुट्ठाने ठपिता पञ्चसतइत्थिपरिवारा रञ्ञो उतेनस्स अग्गमहेसी मेत्ताविहारबहुला अरियसाविका सामावती नाम. अयमेत्थ सङ्खेपो, वित्थारतो पन आदितो पट्ठाय सामावतिया उप्पत्तिकथा धम्मपदवत्थुम्हि (ध. प. अट्ठ. १.२० सामावतीवत्थु) वुत्तनयेन वेदितब्बा. मागण्डियस्स नाम ब्राह्मणस्स धीता अत्तनो मातापितूनं –
‘‘दिस्वान तण्हं अरतिं रगञ्च,
नाहोसि छन्दो अपि मेथुनस्मिं;
किमेविदं मुत्तकरीसपुण्णं,
पादापि नं सम्फुसितुं न इच्छे’’ति. (सु. नि. ८४१) –
भगवता देसितं इमं गाथं सुत्वा सत्थरि बद्धाघाता मागण्डिया अपरभागे रञ्ञा उतेनेन महेसिट्ठाने ठपिता भगवतो कोसम्बिं उपगतभावं, सामावतीपमुखानञ्च पञ्चन्नं इत्थिसतानं उपासिकाभावं ञत्वा ‘‘आगतो नाम समणो गोतमो इमं नगरं, दानिस्स कत्तब्बं जानिस्सामि, इमापि तस्स उपट्ठायिका, इमासम्पि सामावतीपमुखानञ्च कत्तब्बं जानिस्सामी’’ति अनेकपरियायेहि तथागतस्स तासञ्च अनत्थं कातुं वायमित्वापि असक्कोन्ती पुनेकदिवसं रञ्ञा सद्धिं उय्यानकीळं गच्छन्ती चूळपितु सासनं पहिणि ‘‘सामावतिया पासादं गन्त्वा दुस्सकोट्ठागारतेलकोट्ठागारानि विवरापेत्वा दुस्सानि तेलचाटीसु तेमेत्वा थम्भे वेठेत्वा ता सब्बा एकतो कत्वा द्वारं पिदहित्वा बहि यन्तं दत्वा दण्डदीपिकाहि गेहे अग्गिं ददमानो ओतरित्वा गच्छतू’’ति.
तं सुत्वा सो पासादं अभिरुय्ह कोट्ठागारानि विवरित्वा वत्थानि तेलचाटीसु तेमेत्वा थम्भे वेठेतुं आरभि. अथ नं सामावतीपमुखा इत्थियो ‘‘किं एतं चूळपिता’’ति वदन्तियो उपसङ्कमिंसु. ‘‘अम्मा, राजा दळ्हिकम्मत्थाय इमे थम्भे तेलपिलोतिकाहि बन्धापेति, राजगेहे नाम सुयुत्तदुयुत्तं दुज्जानं, मा मे सन्तिके होथा’’ति वत्वा ता आगता गब्भेसु पवेसेत्वा द्वारानि पिदहित्वा बहि यन्तकं दत्वा आदितो पट्ठाय अग्गिं देन्तो ओतरि. सामावती तासं ओवादं अदासि, ‘‘अम्मा, अनमतग्गे संसारे विचरन्तीनं एवमेव अग्गिना झामत्तभावानं बुद्धञाणेनपि परिच्छेदो न सुकरो, अप्पमत्ता होथा’’ति. ता सत्थु सन्तिके धम्मं सुत्वा अधिगतफलाय विञ्ञातसासनाय खुज्जुत्तराय अरियसाविकाय सेक्खपटिसम्भिदापत्ताय सत्थारा देसितनियामेनेव धम्मं देसेन्तिया सन्तिके सोतापत्तिफलस्स अधिगता अन्तरन्तरा कम्मट्ठानमनसिकारेन युत्तप्पयुत्ता गेहे झायन्ते वेदनापरिग्गहकम्मट्ठानं मनसि करोन्तियो काचि दुतियफलं, काचि ततियफलं पापुणित्वा कालमकंसु. अथ भिक्खू कोसम्बियं पिण्डाय चरन्ता तं पवत्तिं ञत्वा पच्छाभत्तं भगवतो आरोचेत्वा तासं अभिसम्परायं पुच्छिंसु. भगवा च तासं अरियफलाधिगमं भिक्खूनं अभासि. तेन वुत्तं – ‘‘तेन खो पन समयेन रञ्ञो उतेनस्स…पे… अनिप्फला कालङ्कता’’ति.
तत्थ अनिप्फलाति न निप्फला, सम्पत्तसामञ्ञफला एव कालङ्कता. ता पन फलानि पटिलभन्तियो सामावतिया –
‘‘आरम्भथ निक्कमथ, युञ्जथ बुद्धसासने;
धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो.
‘‘यो इमस्मिं धम्मविनये, अप्पमत्तो विहस्सति;
पहाय जातिसंसारं, दुक्खस्सन्तं करिस्सती’’ति. (सं. नि. १.१८५; नेत्ति. २९) –
गाथाहि ओवदियमाना वेदनापरिग्गहकम्मट्ठानं मनसि करोन्तियो विपस्सित्वा दुतियततियफलानि पटिलभिंसु. खुज्जुत्तरा पन आयुसेसस्स अत्थिताय, पुब्बे तादिसस्स कम्मस्स अकतत्ता च ततो पासादतो बहि अहोसि. ‘‘दसयोजनन्तरे पक्कामी’’ति च वदन्ति. अथ भिक्खू धम्मसभायं कथं समुट्ठापेसुं, ‘‘आवुसो, अननुच्छविकं वत अरियसाविकानं एवरूपं मरण’’न्ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, यदिपि तासं इमस्मिं अत्तभावे अयुत्तं, पुब्बे कतकम्मस्स पन युत्तमेव ताहि लद्ध’’न्ति वत्वा तेहि याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते अट्ठ पच्चेकबुद्धा रञ्ञो निवेसने निबद्धं भुञ्जन्ति. पञ्चसता इत्थियो ते उपट्ठहन्ति. तेसु सत्त जना हिमवन्तं गच्छन्ति, एको नदीतीरसमीपे एकस्मिं तिणगहने समापत्तिया निसीदति. अथेकदिवसं राजा पच्चेकबुद्धेसु गतेसु ताहि इत्थीहि सद्धिं उदककीळं कीळितुकामो तत्थ गतो. ता इत्थियो दिवसभागं उदके कीळित्वा सीतपीळिता विसिब्बितुकामा तं तिणगहनं उपरि विसुक्खतिणसञ्छन्नं ‘‘तिणरासी’’ति सञ्ञाय परिवारेत्वा अग्गिं दत्वा तिणेसु झायित्वा पतन्तेसु पच्चेकबुद्धं दिस्वा ‘‘रञ्ञो पच्चेकबुद्धो झायति, तं राजा ञत्वा अम्हे नासेस्सति, सुदड्ढं नं करिस्सामा’’ति सब्बा इतो चितो च दारुआदीनि आहरित्वा तस्स उपरि रासिं कत्वा आलिम्पेत्वा ‘‘इदानि झायिस्सती’’ति पक्कमिंसु. ता पठमं असञ्चेतनिका हुत्वा इदानि कम्मुना बज्झिंसु. पच्चेकबुद्धं पन अन्तोसमापत्तियं सचे दारूनं सकटसहस्सम्पि आहरित्वा आलिम्पेन्ता उसुमाकारमत्तम्पि गाहेतुं न सक्कोन्ति, तस्मा सो सत्तमे दिवसे उट्ठाय यथासुखं अगमासि. ता तस्स कम्मस्स कतत्ता बहूनि वस्ससहस्सानि बहूनि वस्ससतसहस्सानि निरये पच्चित्वा तस्सेव कम्मस्स विपाकावसेसेन अत्तभावसते इमिनाव नियामेन गेहे झायमाने झायिंसु. इदं तासं पुब्बकम्मं.
यस्मा पन ते इमस्मिं अत्तभावे अरियफलानि सच्छाकंसु, रतनत्तयं पयिरुपासिंसु, तस्मा तत्थ अनागामिनियो सुद्धावासेसु उपपन्ना, इतरा काचि तावतिंसेसु, काचि यामेसु, काचि तुसितेसु, काचि निम्मानरतीसु, काचि परनिम्मितवसवत्तीसु उपपन्ना.
राजापि खो उतेनो ‘‘सामावतिया गेहं किर झायती’’ति सुत्वा वेगेन आगच्छन्तोपि तं पदेसं तासु दड्ढासुयेव सम्पापुणि. आगन्त्वा पन गेहं निब्बापेत्वा उप्पन्नबलवदोमनस्सो मागण्डियाय तथा कारितभावं उपायेन ञत्वा अरियसाविकासु कतापराधकम्मुना चोदियमानो तस्सा राजाणं कारेसि सद्धिं ञातकेहि. एवं सा सपरिजना समित्तबन्धवा अनयब्यसनं पापुणि.
एतमत्थं विदित्वाति एतं सामावतीपमुखानं तासं इत्थीनं अग्गिम्हि अनयब्यसनापत्तिहेतुं, मागण्डियाय च समित्तबन्धवाय राजाणाय अनयब्यसनापत्तिनिमित्तं सब्बाकारतो विदित्वा तदत्थदीपनं इमं उदानं उदानेसि.
तत्थ मोहसम्बन्धनो लोको, भब्बरूपोव दिस्सतीति यो इध सत्तलोको भब्बरूपोव हेतुसम्पन्नो विय हुत्वा दिस्सति, सोपि मोहसम्बन्धनो मोहेन पलिगुण्ठितो अत्तहिताहितं अजानन्तो हिते न पटिपज्जति, अहितं दुक्खावहं बहुञ्च अपुञ्ञं आचिनाति. ‘‘भवरूपोव दिस्सती’’तिपि पाठो. तस्सत्थो – अयं लोको मोहसम्बन्धनो मोहेन पलिगुण्ठितो, ततो एव भवरूपोव सस्सतसभावो वियस्स अत्ता दिस्सति, अजरामरो विय उपट्ठाति, येन पाणातिपातादीनि अकत्तब्बानि करोति.
उपधिबन्धनो बालो, तमसा परिवारितो. सस्सतोरिव खायतीति न केवलञ्च मोहसम्बन्धनो एव, अपिच खो उपधिबन्धनोपि अयं अन्धबाललोको अविज्जातमसा परिवारितो. इदं वुत्तं होति – येन ञाणेन अविपरीतं कामे च खन्धे च ‘‘अनिच्चा दुक्खा विपरिणामधम्मा’’ति पस्सेय्य, तस्स अभावतो यस्मा बालो अन्धपुथुज्जनो अञ्ञाणतमसा समन्ततो परिवारितो निवुतो, तस्मा सो कामूपधि किलेसूपधि खन्धूपधीति इमेसं उपधीनं वसेन च उपधिबन्धनो, ततो एव चस्स सोपधिस्स पस्सतो सस्सतो विय निच्चो सब्बकालभावी विय खायति. ‘‘असस्सतिरिव खायती’’तिपि पाठो. तस्सत्थो – अत्ता सब्बकालं विज्जति उपलब्भतीति अञ्ञो असस्सति अनिच्चोति लोकस्स सो उपधि मिच्छाभिनिवेसवसेन एकदेसो विय खायति, उपट्ठहतीति अत्थो. रकारो हि पदसन्धिकरो. पस्सतो नत्थि किञ्चनन्ति यो पन सङ्खारे परिग्गहेत्वा अनिच्चादिवसेन विपस्सति, तस्सेव विपस्सनापञ्ञासहिताय मग्गपञ्ञाय यथाभूतं पस्सतो जानतो पटिविज्झतो रागादिकिञ्चनं नत्थि, येन संसारे बज्झेय्य. तथा अपस्सन्तो एव हि अविज्जातण्हादिट्ठिआदिबन्धनेहि संसारे बद्धो सियाति अधिप्पायो.
दसमसुत्तवण्णना निट्ठिता.
निट्ठिता च चूळवग्गवण्णना.