१. पठमलकुण्डकभद्दियसुत्तवण्णना

६१. चूळवग्गस्स पठमे लकुण्डकभद्दियन्ति एत्थ भद्दियोति तस्स आयस्मतो नामं, कायस्स पन रस्सत्ता ‘‘लकुण्डकभद्दियो’’ति नं सञ्जानन्ति. सो किर सावत्थिवासी कुलपुत्तो महद्धनो महाभोगो रूपेन अपासादिको दुब्बण्णो दुद्दसिको ओकोटिमको. सो एकदिवसं सत्थरि जेतवने विहरन्ते उपासकेहि सद्धिं विहारं गन्त्वा धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा लद्धूपसम्पदो सत्थु सन्तिके कम्मट्ठानं गहेत्वा विपस्सनाय कम्मं करोन्तो सोतापत्तिफलं पापुणि. तदा सेक्खा भिक्खू येभुय्येन आयस्मन्तं सारिपुत्तं उपसङ्कमित्वा उपरिमग्गत्थाय कम्मट्ठानं याचन्ति, धम्मदेसनं याचन्ति, पञ्हं पुच्छन्ति. सो तेसं अधिप्पायं पूरेन्तो कम्मट्ठानं आचिक्खति, धम्मं देसेति, पञ्हं विस्सज्जेति. ते घटेन्ता वायमन्ता अप्पेकच्चे सकदागामिफलं, अप्पेकच्चे अनागामिफलं, अप्पेकच्चे अरहत्तं, अप्पेकच्चे तिस्सो विज्जा, अप्पेकच्चे छळभिञ्ञा, अप्पेकच्चे चतस्सो पटिसम्भिदा अधिगच्छन्ति. ते दिस्वा लकुण्डकभद्दियोपि सेखो समानो कालं ञत्वा अत्तनो चित्तकल्लतञ्च सल्लेखञ्च पच्चवेक्खित्वा धम्मसेनापतिं उपसङ्कमित्वा कतपटिसन्थारो सम्मोदमानो धम्मदेसनं याचि. सोपिस्स अज्झासयस्स अनुरूपं कथं कथेसि. तेन वुत्तं – ‘‘तेन खो पन समयेन आयस्मा सारिपुत्तो आयस्मन्तं लकुण्डकभद्दियं अनेकपरियायेन धम्मिया कथाय सन्दस्सेती’’तिआदि.

तत्थ अनेकपरियायेनाति ‘‘इतिपि पञ्चक्खन्धा अनिच्चा, इतिपि दुक्खा, इतिपि अनत्ता’’ति एवं अनेकेहि कारणेहि. धम्मिया कथायाति पञ्चन्नं उपादानक्खन्धानं उदयब्बयादिपकासनिया धम्मिया कथाय. सन्दस्सेतीति तानियेव अनिच्चादिलक्खणानि उदयब्बयादिके च सम्मा दस्सेति, हत्थेन गहेत्वा विय पच्चक्खतो दस्सेति. समादपेतीति तत्थ लक्खणारम्मणिकं विपस्सनं सम्मा आदपेति, यथा वीथिपटिपन्ना हुत्वा पवत्तति, एवं गण्हापेति. समुत्तेजेतीति विपस्सनाय आरद्धाय सङ्खारानं उदयब्बयादीसु उपट्ठहन्तेसु यथाकालं पग्गहनिग्गहसमुपेक्खणेहि बोज्झङ्गानं अनुपवत्तनेन भावनं मज्झिमं वीथिं ओतारेत्वा यथा विपस्सनाञाणं सूरं पसन्नं हुत्वा वहति, एवं इन्द्रियानं विसदभावकरणेन विपस्सनाचित्तं सम्मा उत्तेजेति, विसदापनवसेन वोदपेति. सम्पहंसेतीति तथा पवत्तियमानाय विपस्सनाय समप्पवत्तभावनावसेन चेव उपरिलद्धब्बभावनाबलेन च चित्तं सम्मा पहंसेति, लद्धस्सादवसेन वा सुट्ठु तोसेति. अनुपादाय आसवेहि चित्तं विमुच्चीति यथा यथा धम्मसेनापति धम्मं देसेति, तथा तथा तथलक्खणं विपस्सन्तस्स थेरस्स च देसनानुभावेन, अत्तनो च उपनिस्सयसम्पत्तिया ञाणस्स परिपाकं गतत्ता देसनानुसारेन ञाणे अनुपवत्तन्ते कामासवादीसु कञ्चि आसवं अग्गहेत्वा मग्गपटिपाटियाव अनवसेसतो चित्तं विमुच्चि, अरहत्तफलं सच्छाकासीति अत्थो.

एतमत्थं विदित्वाति एतं आयस्मतो लकुण्डकभद्दियस्स अञ्ञाराधनसङ्खातं अत्थं सब्बाकारतो विदित्वा तदत्थदीपनं इमं उदानं उदानेसि.

तत्थ उद्धन्ति रूपधातुया अरूपधातुया च. अधोति कामधातुया. सब्बधीति सब्बस्मिम्पि सङ्खारगते. विप्पमुत्तोति पुब्बभागे विक्खम्भनविमुत्तिया अपरभागे समुच्छेदपटिपस्सद्धिविमुत्तीहि सब्बप्पकारेन विमुत्तो. एत्थ च उद्धं विप्पमुत्तोति एतेन पञ्चुद्धम्भागियसंयोजनपहानं दस्सेति. अधो विप्पमुत्तोति एतेन पञ्चोरम्भागियसंयोजनपहानं. सब्बधि विप्पमुत्तोति एतेन अवसिट्ठसब्बाकुसलपहानं दस्सेति. अथ वा उद्धन्ति अनागतकालग्गहणं. अधोति अतीतकालग्गहणं. उभयग्गहणेनेव तदुभयपटिसंयुत्तत्ता पच्चुप्पन्नो अद्धा गहितो होति, तत्थ अनागतकालग्गहणेन अनागतक्खन्धायतनधातुयो गहिता. सेसपदेसुपि एसेव नयो. सब्बधीति कामभेदादिके सब्बस्मिं भवे. इदं वुत्तं होति – अनागतो अतीतो पच्चुप्पन्नोति एवं तियद्धसङ्गहिते सब्बस्मिं भवे विप्पमुत्तोति.

अयंहमस्मीति अनानुपस्सीति यो एवं विप्पमुत्तो, सो रूपवेदनादीसु ‘‘अयं नाम धम्मो अहमस्मी’’ति दिट्ठिमानमञ्ञनावसेन एवं नानुपस्सति. तस्स तथा दस्सने कारणं नत्थीति अधिप्पायो. अथ वा अयंहमस्मीति अनानुपस्सीति इदं यथावुत्ताय विमुत्तिया अधिगमुपायदीपनं. तियद्धसङ्गहिते तेभूमके सङ्खारे ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति पवत्तनसभावाय मञ्ञनाय अनधिट्ठानं कत्वा ‘‘नेतं मम, नेसोहमस्मि, न मे सो अत्ता’’ति एवं उप्पज्जमाना या पुब्बभागवुट्ठानगामिनी विपस्सना, सा विमुत्तिया पदट्ठानं. एवं विमुत्तो उदतारि ओघं, अतिण्णपुब्बं अपुनब्भवायाति एवं दसहि संयोजनेहि सब्बाकुसलेहि च सब्बथा विमुत्तो अरहा अरियमग्गाधिगमनतो पुब्बे सुपिनन्तेपि अतिण्णपुब्बं कामोघो भवोघो दिट्ठोघो अविज्जोघोति इमं चतुब्बिधं ओघं, संसारमहोघमेव वा अपुनब्भवाय अनुपादिसेसाय निब्बानाय उदतारि उत्तिण्णो, उत्तरित्वा पारे ठितोति अत्थो.

पठमसुत्तवण्णना निट्ठिता.