१०. चूळपन्थकसुत्तवण्णना
५०. दसमे चूळपन्थकोति महापन्थकत्थेरस्स कनिट्ठभातिकत्ता पन्थे जातत्ता च दहरकाले लद्धवोहारेन अपरभागेपि अयमायस्मा ‘‘चूळपन्थको’’त्वेव पञ्ञायित्थ. गुणविसेसेहि पन छळभिञ्ञो पभिन्नपटिसम्भिदो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं मनोमयं कायं अभिनिम्मिनन्तानं यदिदं चूळपन्थको, चेतोविवट्टकुसलानं यदिदं चूळपन्थको’’ति द्वीसु (अ. नि. १.१९९) ठानेसु भगवता एतदग्गे ठपितो असीतिया महासावकेसु अब्भन्तरो.
सो एकदिवसं पच्छाभत्तं पिण्डपातप्पटिक्कन्तो अत्तनो दिवाट्ठाने दिवाविहारं निसिन्नो समापत्तीहि दिवसभागं वीतिनामेत्वा सायन्हसमयं उपासकेसु धम्मस्सवनत्थं अनागतेसु एव विहारमज्झं पविसित्वा भगवति गन्धकुटियं निसिन्ने ‘‘अकालो ताव भगवतो उपट्ठानं उपसङ्कमितु’’न्ति गन्धकुटिपमुखे एकमन्तं निसीदि पल्लङ्कं आभुजित्वा. तेन वुत्तं – ‘‘तेन खो पन समयेन आयस्मा चूळपन्थको भगवतो अविदूरे निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा’’ति. सो हि तदा कालपरिच्छेदं कत्वा समापत्तिं समापज्जित्वा निसीदि.
एतमत्थं विदित्वाति एतं आयस्मतो चूळपन्थकस्स कायचित्तानं सम्मापणिहितभावसङ्खातं अत्थं जानित्वा. इमं उदानन्ति अञ्ञोपि यो पस्सद्धकायो सब्बिरियापथेसु उपट्ठितस्सति समाहितो, तस्स भिक्खुनो अनुपादा परिनिब्बानपरियोसानस्स विसेसाधिगमस्स तत्थ पातुभावविभावनं इमं उदानं उदानेसि.
तत्थ ठितेन कायेनाति कायद्वारिकस्स असंवरस्स पहानेन अकरणेन सम्मा ठपितेन चोपनकायेन, तथा चक्खादीनं इन्द्रियानं निब्बिसेवनभावकरणेन सुट्ठु ठपितेन पञ्चद्वारिककायेन, संयतहत्थपादताय हत्थकुक्कुच्चादीनं अभावतो अपरिफन्दनेन ठितेन करजकायेन चाति सङ्खेपतो सब्बेनपि कायेन निब्बिकारतासङ्खातेन निच्चलभावेन ठितेन. एतेनस्स सीलपारिसुद्धि दस्सिता. इत्थम्भूतलक्खणे च इदं करणवचनं. ठितेन चेतसाति चित्तस्स ठितिपरिदीपनेन समाधिसम्पदं दस्सेति. समाधि हि चित्तस्स ‘ठिती’ति वुच्चति. तस्मा समथवसेन विपस्सनावसेनेव वा एकग्गताय सति चित्तं आरम्मणे एकोदिभावूपगमनेन ठितं नाम होति, न अञ्ञथा. इदञ्च यथावुत्तकायचित्तानं ठपनं समादहनं सब्बस्मिं काले सब्बेसु च इरियापथेसु इच्छितब्बन्ति दस्सेन्तो आह – ‘‘तिट्ठं निसिन्नो उद वा सयानो’’ति. तत्थ वा-सद्दो अनियमत्थो. तेन तिट्ठन्तो वा निसिन्नो वा सयानो वा तदञ्ञिरियापथो वाति अयमत्थो दीपितो होतीति चङ्कमनस्सापि इध सङ्गहो वेदितब्बो.
एतं सतिं भिक्खु अधिट्ठहानोति याय पगेव परिसुद्धसमाचारो कायचित्तदुट्ठुल्लभावूपसमनेन कायं चित्तञ्च असारद्धं कत्वा पटिलद्धाय अनवज्जसुखाधिट्ठाय कायचित्तपस्सद्धिवसेन चित्तं लहुं मुदुं कम्मञ्ञञ्च कत्वा सम्मा ठपेन्तो समादहन्तो कम्मट्ठानं परिब्रूहेति मत्थकञ्च पापेति, तं एव कम्मट्ठानानुयोगस्स आदिमज्झपरियोसानेसु बहूपकारं सतिं भिक्खु अधिट्ठहानो सीलविसोधनं आदिं कत्वा याव विसेसाधिगमा तत्थ तत्थ अधिट्ठहन्तोति अत्थो. लभेथ पुब्बापरियं विसेसन्ति सो एवं सतिआरक्खेन चेतसा कम्मट्ठानं उपरूपरि वड्ढेन्तो ब्रूहेन्तो फातिं करोन्तो पुब्बापरियं पुब्बापरियवन्तं पुब्बापरभागेन पवत्तं उळारुळारतरादिभेदविसेसं लभेय्य.
तत्थ दुविधो पुब्बापरियविसेसो समथवसेन विपस्सनावसेन चाति. तेसु समथवसेन ताव निमित्तुप्पत्तितो पट्ठाय याव नेवसञ्ञानासञ्ञायतनवसीभावो, ताव पवत्तो भावनाविसेसो पुब्बापरियविसेसो. विपस्सनावसेन पन रूपमुखेन अभिनिविसन्तस्स रूपधम्मपरिग्गहतो, इतरस्स नामधम्मपरिग्गहतो पट्ठाय याव अरहत्ताधिगमो, ताव पवत्तो भावनाविसेसो पुब्बापरियविसेसो. अयमेव च इधाधिप्पेतो.
लद्धान पुब्बापरियं विसेसन्ति पुब्बापरियविसेसं उक्कंसपारमिप्पत्तं अरहत्तं लभित्वा. अदस्सनं मच्चुराजस्स गच्छेति जीवितुपच्छेदवसेन सब्बेसं सत्तानं अभिभवनतो मच्चुराजसङ्खातस्स मरणस्स विसयभूतं भवत्तयं समतिक्कन्तत्ता अदस्सनं अगोचरं गच्छेय्य. इमस्मिं वग्गे यं अवुत्तं, तं हेट्ठा वुत्तनयमेवाति.
दसमसुत्तवण्णना निट्ठिता.
निट्ठिता च महावग्गवण्णना.