७. सारिपुत्तसुत्तवण्णना
३७. सत्तमे अपुब्बं नत्थि. गाथाय अधिचेतसोति अधिचित्तवतो, सब्बचित्तानं अधिकेन अरहत्तफलचित्तेन समन्नागतस्साति अत्थो. अप्पमज्जतोति न पमज्जतो, अप्पमादेन अनवज्जधम्मेसु सातच्चकिरियाय समन्नागतस्साति वुत्तं होति. मुनिनोति ‘‘यो मुनाति उभो लोके, मुनि तेन पवुच्चती’’ति (ध. प. २६९; चूळनि. मेत्तगूमाणवपुच्छानिद्देस २१) एवं उभयलोकमुननेन मोनं वुच्चति ञाणं, तेन अरहत्तफलञाणसङ्खातेन ञाणेन समन्नागतत्ता वा खीणासवो मुनि नाम, तस्स मुनिनो. मोनपथेसु सिक्खतोति अरहत्तञाणसङ्खातस्स मोनस्स पथेसु सत्ततिंसबोधिपक्खियधम्मेसु तीसु वा सिक्खासु सिक्खतो. इदञ्च पुब्बभागप्पटिपदं गहेत्वा वुत्तं. परिनिट्ठितसिक्खो हि अरहा, तस्मा एवं सिक्खतो, इमाय सिक्खाय मुनिभावं पत्तस्स मुनिनोति एवमेत्थ अत्थो दट्ठब्बो. यस्मा च एतदेव, तस्मा हेट्ठिममग्गफलचित्तानं वसेन अधिचेतसो, चतुसच्चसम्बोधपटिपत्तियं अप्पमादवसेन अप्पमज्जतो, मग्गञाणसमन्नागमेन मुनिनोति एवमेतेसं तिण्णं पदानं अत्थो युज्जतियेव. अथ वा ‘‘अप्पमज्जतो सिक्खतो’’ति पदानं हेतुअत्थता दट्ठब्बा अप्पमज्जनहेतु सिक्खनहेतु च अधिचेतसोति.
सोका न भवन्ति तादिनोति तादिसस्स खीणासवमुनिनो अब्भन्तरे इट्ठवियोगादिवत्थुका सोका चित्तसन्तापा न होन्ति. अथ वा तादिनोति तादिलक्खणसमन्नागतस्स एवरूपस्स मुनिनो सोका न भवन्तीति अयमेत्थ अत्थो. उपसन्तस्साति रागादीनं अच्चन्तूपसमेन उपसन्तस्स. सदा सतीमतोति सतिवेपुल्लप्पत्तिया निच्चकालं सतिया अविरहितस्स.
एत्थ च ‘‘अधिचेतसो’’ति इमिना अधिचित्तसिक्खा, ‘‘अप्पमज्जतो’’ति एतेन अधिसीलसिक्खा, ‘‘मुनिनो मोनपथेसु सिक्खतो’’ति एतेहि अधिपञ्ञासिक्खा. ‘‘मुनिनो’’ति वा एतेन अधिपञ्ञासिक्खा, ‘‘मोनपथेसु सिक्खतो’’ति एतेन तासं लोकुत्तरसिक्खानं पुब्बभागपटिपदा, ‘‘सोका न भवन्ती’’तिआदीहि सिक्खापारिपूरिया आनिसंसो पकासितोति वेदितब्बं. सेसं वुत्तनयमेव.
सत्तमसुत्तवण्णना निट्ठिता.