१०. सारिपुत्तउपसमसुत्तवण्णना
४०. दसमे अत्तनो उपसमन्ति सावकपारमीमत्थकप्पत्तिया हेतुभूतं अग्गमग्गेन अत्तनो अनवसेसकिलेसवूपसमं.
आयस्मा हि सारिपुत्तो अनुपसन्तकिलेसानं सत्तानं रागादिकिलेसजनितसन्तापदरथपरिळाहदुक्खञ्चेव किलेसाभिसङ्खारनिमित्तं जातिजराब्याधिमरणसोकपरिदेवादिदुक्खञ्च पच्चक्खतो दिस्वा अतीतानागतेपि नेसं वट्टमूलकदुक्खं परितुलेत्वा करुणायमानो अत्तनापि पुथुज्जनकाले अनुभूतं किलेसनिमित्तं वा अनप्पकं दुक्खं अनुस्सरित्वा ‘‘ईदिसस्स नाम महादुक्खस्स हेतुभूता किलेसा इदानि मे सुप्पहीना’’ति अत्तनो किलेसवूपसमं अभिण्हं पच्चवेक्खति. पच्चवेक्खन्तो च ‘‘इमे एत्तका किलेसा सोतापत्तिमग्गेन उपसमिता, एत्तका सकदागामिमग्गेन, एत्तका अनागामिमग्गेन, एत्तका अरहत्तमग्गेन उपसमिता’’ति तंतंमग्गञाणेहि ओधिसो किलेसानं उपसमितभावं पच्चवेक्खति, तेन वुत्तं – ‘‘अत्तनो उपसमं पच्चवेक्खमानो’’ति.
अपरे ‘‘थेरो अरहत्तफलसमापत्तिं समापज्जित्वा तं पच्चवेक्खित्वा ‘इमस्स वतायं सन्तपणीतभावो अच्चन्तसन्ताय असङ्खताय धातुया आरम्मणतो, सयञ्च सम्मदेव किलेसवूपसमतो’ति एवं अभिण्हं उपसमं पच्चवेक्खती’’ति वदन्ति. अञ्ञे पन ‘‘अनवसेसकिलेसानं उपसमपरियोसाने जातं अग्गफलमेवेत्थ उपसमो नाम, तं पच्चवेक्खमानो निसिन्नो’’ति.
एतमत्थं विदित्वाति यदिदं आयस्मतो सारिपुत्तस्स महापञ्ञतादिहेतुभूतं सावकेसु अनञ्ञसाधारणं किलेसप्पहानं अग्गफलं वा उपसमपरियायेन वुत्तं, तस्स पच्चवेक्खणसङ्खातं अत्थं सब्बाकारतो विदित्वा तदनुभावदीपकं इमं उदानं उदानेसि.
तत्थ उपसन्तसन्तचित्तस्साति उपसन्तमेव हुत्वा सन्तं चित्तं एतस्साति उपसन्तसन्तचित्तो. समापत्तिया विक्खम्भनेन हि उपसन्तकिलेसत्ता उपसन्तचित्तं न सब्बथा ‘‘उपसन्तसन्त’’न्ति वुच्चति तस्स उपसमस्स अनच्चन्तिकभावतो, न तथा अग्गमग्गेन. तेन पन अच्चन्तमेव किलेसानं समुच्छिन्नत्ता अरहतो चित्तं पुन किलेसानं अनुपसमेतब्बताय समथविपस्सनाहेट्ठिममग्गेहि उपसन्तकिलेसं हुत्वा अच्चन्तसन्तभावतोव ‘‘उपसन्तसन्त’’न्ति वुच्चति. तेन वुत्तं – ‘‘उपसन्तमेव हुत्वा सन्तं चित्तं एतस्साति उपसन्तसन्तचित्तो’’ति. उपसन्तन्ति वा उपसमो वुच्चति, तस्मा ‘‘उपसन्तसन्तचित्तस्सा’’ति अच्चन्तूपसमेन सन्तचित्तस्साति अत्थो.
अथ वा सतिपि सब्बेसं खीणासवानं अनवसेसकिलेसवूपसमे सावकपारमीञाणस्स पन मत्थकप्पत्तिहेतुभूतो सावकेसु अनञ्ञसाधारणो सविसेसो धम्मसेनापतिनो किलेसवूपसमोति दस्सेतुं सत्था उपसन्तसद्देन विसेसेत्वा आह ‘‘उपसन्तसन्तचित्तस्सा’’ति.
तत्रायमत्थो – भुसं दळ्हं वा सन्तं उपसन्तं, तेन उपसन्तेन उपसन्तमेव हुत्वा सन्तं उपसन्तसन्तं, तादिसं चित्तं एतस्साति सब्बं पुरिमसदिसमेव. तथा हेस भगवता – ‘‘सारिपुत्तो, भिक्खवे, महापञ्ञो पुथुपञ्ञो हासपञ्ञो जवनपञ्ञो तिक्खपञ्ञो निब्बेधिकपञ्ञो’’तिआदिना (म. नि. ३.९३) अनेकपरियायेन वण्णितो थोमितो. नेत्तिच्छिन्नस्साति नेत्ति वुच्चति भवतण्हा संसारस्स नयनतो, सा नेत्ति छिन्ना एतस्साति नेत्तिच्छिन्नो. तस्स नेत्तिच्छिन्नस्स, पहीनतण्हस्साति अत्थो. मुत्तो सो मारबन्धनाति सो एवंविधो परिक्खीणभवसंयोजनो सब्बस्मा मारबन्धनतो मुत्तो, न तस्स मारबन्धनमोचनाय करणीयं अत्थि, तस्मा धम्मसेनापति अत्तनो उपसमं पच्चवेक्खतीति. सेसं वुत्तनयमेव.
दसमसुत्तवण्णना निट्ठिता.
निट्ठिता च मेघियवग्गवण्णना.