९. सिप्पसुत्तवण्णना

२९. नवमे को नु खो, आवुसो, सिप्पं जानातीति, आवुसो, अम्हेसु इध सन्निपतितेसु को नु जीवितनिमित्तं सिक्खितब्बट्ठेन ‘‘सिप्प’’न्ति लद्धनामं यंकिञ्चि आजीवं विजानाति? को किं सिप्पं सिक्खीति को दीघरत्तं सिप्पाचरियकुलं पयिरुपासित्वा आगमतो पयोगतो च हत्थिसिप्पादीसु किं सिप्पं सिक्खि? कतरं सिप्पं सिप्पानं अग्गन्ति सब्बसिप्पानं अगारय्हताय महप्फलताय अकिच्छसिद्धिया च कतरं सिप्पं अग्गं उत्तमं? यं निस्साय सुखेन सक्का जीवितुन्ति अधिप्पायो. तत्थेकच्चेति तेसु भिक्खूसु एकच्चे भिक्खू. ये हत्थाचरियकुला पब्बजिता ते. एवमाहंसूति ते एवं भणिंसु. इतो परम्पि ‘‘एकच्चे’’ति वुत्तट्ठाने एसेव नयो. हत्थिसिप्पन्ति यं हत्थीनं परिग्गण्हनदमनसारणरोगतिकिच्छादिभेदं कत्तब्बं, तं उद्दिस्स पवत्तं सब्बम्पि सिप्पं इध ‘‘हत्थिसिप्प’’न्ति अधिप्पेतं. अस्ससिप्पन्ति एत्थापि एसेव नयो. रथसिप्पं पन रथयोग्गानं दमनसारणादिविधानवसेन चेव रथस्स करणवसेन च वेदितब्बं. धनुसिप्पन्ति इस्साससिप्पं, यो धनुब्बेधोति वुच्चति. थरुसिप्पन्ति सेसआवुधसिप्पं. मुद्दासिप्पन्ति हत्थमुद्दाय गणनसिप्पं. गणनसिप्पन्ति अच्छिद्दकगणनसिप्पं. सङ्खानसिप्पन्ति सङ्कलनपटुप्पादनादिवसेन पिण्डगणनसिप्पं. तं यस्स पगुणं होति, सो रुक्खम्पि दिस्वा ‘‘एत्तकानि एत्थ पण्णानी’’ति गणितुं जानाति. लेखासिप्पन्ति नानाकारेहि अक्खरलिखनसिप्पं, लिपिञाणं वा. कावेय्यसिप्पन्ति अत्तनो चिन्तावसेन वा परतो पटिलद्धसुतवसेन वा, ‘‘इमस्स अयमत्थो, एवं नं योजेस्सामी’’ति एवं अत्थवसेन वा, किञ्चिदेव कब्बं दिस्वा, ‘‘तप्पटिभागं कब्बं करिस्सामी’’ति ठानुप्पत्तिकपटिभानवसेन वा चिन्ताकविआदीनं चतुन्नं कवीनं कब्बकरणसिप्पं. वुत्तञ्हेतं भगवता –

‘‘चत्तारोमे, भिक्खवे, कवी – चिन्ताकवि, सुतकवि, अत्थकवि, पटिभानकवी’’ति (अ. नि. ४.२३१).

लोकायतसिप्पन्ति ‘‘काको सेतो अट्ठीनं सेतत्ता, बलाका रत्ता लोहितस्स रत्तत्ता’’ति एवमादिनयप्पवत्तं परलोकनिब्बानानं पटिसेधकं वितण्डसत्थसिप्पं. खत्तविज्जासिप्पन्ति अब्भेय्यमासुरक्खादिनीतिसत्थसिप्पं. इमानि किर द्वादस महासिप्पानि नाम. तेनेवाह तत्थ तत्थ ‘‘सिप्पानं अग्ग’’न्ति.

एतमत्थं विदित्वाति एतं सब्बसिप्पायतनानं जीविकत्थताय वट्टदुक्खतो अनिस्सरणभावं, सीलादीनंयेव पन सुपरिसुद्धानं निस्सरणभावं, तं समङ्गिनोयेव च भिक्खुभावं सब्बाकारतो विदित्वा तदत्थविभावनं इमं उदानं उदानेसि.

तत्थ असिप्पजीवीति चतुन्नं तण्हुप्पादानं समुच्छेदविक्खम्भनेन पच्चयासाय विसोसितत्ता यंकिञ्चि सिप्पं उपनिस्साय जीविकं न कप्पेतीति असिप्पजीवी, एतेन आजीवपारिसुद्धिसीलं दस्सेति. लहूति अप्पकिच्चताय सल्लहुकवुत्तिताय च लहु अबहुलसम्भारो, एतेन चतुपच्चयसन्तोससिद्धं सुभरतं दस्सेति. अत्थकामोति सदेवकस्स लोकस्स अत्थमेव कामेतीति अत्थकामो, एतेन सत्तानं अनत्थपरिवज्जनस्स पकासितत्ता पातिमोक्खसंवरसीलं दस्सेति पाणातिपातादिअनत्थविरमणपरिदीपनतो. यतिन्द्रियोति चक्खादीनं छन्नं इन्द्रियानं अभिज्झाद्यप्पवत्तितो संयमेन यतिन्द्रियो, एतेन इन्द्रियसंवरसीलं वुत्तं. सब्बधि विप्पमुत्तोति एवं सुपरिसुद्धसीलो चतुपच्चयसन्तोसे अवट्ठितो सप्पच्चयं नामरूपं परिग्गहेत्वा अनिच्चादिवसेन सङ्खारे सम्मसन्तो विपस्सनं उस्सुक्कापेत्वा ततो परं पटिपाटिया पवत्तितेहि चतूहि अरियमग्गेहि संयोजनानं पहीनत्ता सब्बधि सब्बत्थ भवादीसु विप्पमुत्तो.

अनोकसारी अममो निरासोति तथा सब्बधि विप्पमुत्तत्ता एव ओकसङ्खातेसु छसुपि आयतनेसु तण्हाभिसरणस्स अभावेन अनोकसारी, रूपादीसु कत्थचि ममङ्काराभावतो अममो, सब्बेन सब्बं अनासीसनतो निरासो. हित्वा मानं एकचरो स भिक्खूति एवंभूतो च सो अरहत्तमग्गप्पत्तिसमकालमेव अनवसेसं मानं हित्वा पजहित्वा इमे भिक्खू विय गणसङ्गणिकं अकत्वा पविवेककामताय तण्हासहायविरहेन च सब्बिरियापथेसु एकचरो, सो सब्बसो भिन्नकिलेसत्ता परमत्थतो भिक्खु नाम. एत्थ च ‘‘असिप्पजीवी’’तिआदिना लोकियगुणा कथिता, ‘‘सब्बधि विप्पमुत्तो’’तिआदिना लोकुत्तरगुणा कथिता. तत्थ असिप्पजीवीतिआदि ‘‘विभवे ठितस्सेव अयं धम्मो, न सिप्पं निस्साय मिच्छाजीवेन जीविकं कप्पेन्तस्स, तस्मा सिप्पेसु सारग्गहणं विस्सज्जेत्वा अधिसीलादीसुयेव तुम्हेहि सिक्खितब्ब’’न्ति दस्सेति.

नवमसुत्तवण्णना निट्ठिता.