९. विसाखासुत्तवण्णना
१९. नवमे पुब्बारामेति सावत्थिया पाचीनदिसाभागे अनुराधपुरस्स उत्तमदेवीविहारसदिसे ठाने कारिते आरामे. मिगारमातुपासादेति मिगारमातुया पासादे.
तत्रायं अनुपुब्बिकथा – अतीते सतसहस्सकप्पमत्थके पदुमुत्तरदसबलं एका उपासिका अञ्ञतरं उपासिकं अत्तनो अग्गुपट्ठायिकट्ठाने ठपेन्तं दिस्वा भगवन्तं निमन्तेत्वा बुद्धप्पमुखस्स भिक्खुसतसहस्सस्स दानं दत्वा भगवतो निपच्चकारं कत्वा ‘‘अनागते तुम्हादिसस्स बुद्धस्स अग्गुपट्ठायिका भवेय्य’’न्ति पत्थनं अकासि. सा कप्पसतसहस्सं देवेसु च मनुस्सेसु च संसरित्वा अम्हाकं भगवतो काले भद्दियनगरे मेण्डकसेट्ठिपुत्तस्स धनञ्जयसेट्ठिनो गेहे सुमनदेविया कुच्छिस्मिं पटिसन्धिं गण्हि. जातकाले चस्सा विसाखाति नामं अकंसु. सा यदा भगवा भद्दियनगरं अगमासि, तदा पञ्चहि दारिकासतेहि सद्धिं भगवतो पच्चुग्गमनं कत्वा पठमदस्सनेनेव सोतापन्ना अहोसि.
अपरभागे सावत्थियं मिगारसेट्ठिपुत्तस्स पुण्णवड्ढनकुमारस्स गेहं गता, तत्थ नं ससुरो मिगारसेट्ठि उपकारवसेन मातुट्ठाने ठपेसि. तस्मा मिगारमाताति वुच्चति. सा अत्तनो महल्लतापसाधनं विस्सज्जेत्वा नवकोटीहि भगवतो भिक्खुसङ्घस्स च वसनत्थाय करीसमत्ते भूमिभागे उपरिभूमियं पञ्चगब्भसतानि हेट्ठाभूमियं पञ्चगब्भसतानीति गब्भसहस्सेहि पटिमण्डितं पासादं कारेसि. तेन वुत्तं ‘‘मिगारमातुपासादे’’ति.
कोचिदेव अत्थोति किञ्चिदेव पयोजनं. रञ्ञेति राजिनि. पटिबद्धोति आयत्तो. विसाखाय ञातिकुलतो मणिमुत्तादिरचितं तादिसं भण्डजातं तस्सा पण्णाकारत्थाय पेसितं, तं नगरद्वारप्पत्तं सुङ्किका तत्थ सुङ्कं गण्हन्ता तदनुरूपं अग्गहेत्वा अतिरेकं गण्हिंसु. तं सुत्वा विसाखा रञ्ञो तमत्थं निवेदेतुकामा पतिरूपपरिवारेन राजनिवेसनं अगमासि, तस्मिं खणे राजा मल्लिकाय देविया सद्धिं अन्तेपुरं गतो होति. विसाखा ओकासं अलभमाना ‘‘इदानि लभिस्सामि, इदानि लभिस्सामी’’ति भोजनवेलं अतिक्कमित्वा छिन्नभत्ता हुत्वा पक्कामि. एवं द्वीहतीहं गन्त्वापि ओकासं न लभियेव. इति राजा अनिवेदितोपि तस्स अत्थविनिच्छयस्स ओकासाकरणेन ‘‘यथाधिप्पायं न तीरेती’’ति वुत्तो. तत्थ यथाधिप्पायन्ति अधिप्पायानुरूपं. न तीरेतीति न निट्ठापेति. महाउपासिकाय हि राजायत्तसुङ्कमेव रञ्ञो दत्वा इतरं विस्सज्जापेतुं अधिप्पायो, सो रञ्ञा न दिट्ठत्ता एव न तीरितो. हन्दाति वोस्सग्गत्थे निपातो. दिवा दिवस्साति दिवसस्स दिवा, मज्झन्हिके कालेति अत्थो. केनचिदेव करणीयेन द्वीहतीहं राजनिवेसनद्वारं गच्छन्ती तस्स अत्थस्स अनिट्ठितत्ता निरत्थकमेव उपसङ्कमिं, भगवति उपसङ्कमनमेव पन दस्सनानुत्तरियादिप्पटिलाभकारणत्ता सात्थकन्ति एवाहं, भन्ते, इमाय वेलाय इधागताति इममत्थं दस्सेन्ती महाउपासिका ‘‘इध मे, भन्ते’’तिआदिमाह.
एतमत्थन्ति एतं परायत्तताय अधिप्पायासमिज्झनसङ्खातं अत्थं विदित्वा. इमं उदानन्ति इमं पराधीनापराधीनवुत्तीसु आदीनवानिसंसपरिदीपकं उदानं उदानेसि.
तत्थ सब्बं परवसं दुक्खन्ति यं किञ्चि अत्थजातं पयोजनं परवसं परायत्तं अत्तनो इच्छाय निप्फादेतुं असक्कुणेय्यताय दुक्खं दुक्खावहं होतीति अत्थो. सब्बं इस्सरियं सुखन्ति दुविधं इस्सरियं लोकियं लोकुत्तरञ्च. तत्थ लोकियं राजिस्सरियादि चेव लोकियज्झानाभिञ्ञानिब्बत्तं चित्तिस्सरियञ्च, लोकुत्तरं मग्गफलाधिगमनिमित्तं निरोधिस्सरियं. तेसु यं चक्कवत्तिभावपरियोसानं मनुस्सेसु इस्सरियं, यञ्च सक्कादीनं तस्मिं तस्मिं देवनिकाये आधिपच्चभूतं इस्सरियं, तदुभयं यदिपि कम्मानुभावेन यथिच्छितनिप्फत्तिया सुखनिमित्तताय सुखं, विपरिणामदुक्खताय पन सब्बथा दुक्खमेव. तथा अनिच्चन्तिकताय लोकियज्झाननिब्बत्तं चित्तिस्सरियं, निरोधिस्सरियमेव पन लोकधम्मेहि अकम्पनीयतो अनिवत्तिसभावत्ता च एकन्तसुखं नाम. यं पनेत्थ सब्बत्थेव अपराधीनताय लभति चित्तसुखं, तं सन्धाय सत्था ‘‘सब्बं इस्सरियं सुख’’न्ति आह.
साधारणे विहञ्ञन्तीति इदं ‘‘सब्बं परवसं दुक्ख’’न्ति इमस्स पदस्स अत्थविवरणं. अयञ्हेत्थ अत्थो – साधारणे पयोजने साधेतब्बे सति तस्स पराधीनताय यथाधिप्पायं अनिप्फादनतो इमे सत्ता विहञ्ञन्ति विघातं आपज्जन्ति किलमन्ति. कस्मा? योगा हि दुरतिक्कमाति यस्मा कामयोगभवयोगदिट्ठियोगअविज्जायोगा अनादिकालभाविता अनुपचितकुसलसम्भारेहि पजहितुं असक्कुणेय्यताय दुरतिक्कमा. एतेसु दिट्ठियोगो पठममग्गेन अतिक्कमितब्बो, कामयोगो ततियमग्गेन. इतरे अग्गमग्गेन. इति अरियमग्गानं दुरधिगमनीयत्ता इमे योगा दुरतिक्कमा. तस्मा कामयोगादिवसेन इच्छितालाभहेतु सत्ता विहञ्ञन्ति, असाधारणे पन चित्तिस्सरिये निरोधिस्सरिये च सति न कदाचिपि विघातस्स सम्भवोति अधिप्पायो.
अथ वा सब्बं परवसन्ति यं अत्तनो अञ्ञप्पटिबद्धवुत्तिसङ्खातं, तं सब्बं अनिच्चसभावताय दुक्खं. ‘‘यदनिच्चं तं दुक्ख’’न्ति हि वुत्तं. सब्बं इस्सरियन्ति यं सब्बसङ्खतनिस्सटं इस्सरियट्ठानताय इस्सरियन्ति लद्धनामं निब्बानं, तं उपादिसेसादिविभागं सब्बं सुखं. ‘‘निब्बानं परमं सुख’’न्ति (ध. प. २०३-२०४) हि वुत्तं. साधारणेति एवं दुक्खसुखे ववत्थिते इमे सत्ता बहुसाधारणे दुक्खकारणे निमुग्गा हुत्वा विहञ्ञन्ति. कस्मा? योगा हि दुरतिक्कमाति यस्मा ते सब्बत्थ निमुज्जनस्स हेतुभूता कामयोगादयो दुरतिक्कमा, तस्मा त्वम्पि विसाखे परायत्तमत्थं पत्थेत्वा अलभमाना विहञ्ञसीति अधिप्पायो.
नवमसुत्तवण्णना निट्ठिता.