७. अजकलापकसुत्तवण्णना
७. सत्तमे पावायन्ति एवंनामके मल्लराजूनं नगरे. अजकलापके चेतियेति अजकलापकेन नाम यक्खेन परिग्गहितत्ता ‘‘अजकलापक’’न्ति लद्धनामे मनुस्सानं चित्तीकतट्ठाने. सो किर यक्खो अजे कलापे कत्वा बन्धनेन अजकोट्ठासेन सद्धिं बलिं पटिच्छति, न अञ्ञथा, तस्मा ‘‘अजकलापको’’ति पञ्ञायित्थ. केचि पनाहु – अजके विय सत्ते लापेतीति अजकलापकोति. तस्स किर सत्ता बलिं उपनेत्वा यदा अजसद्दं कत्वा बलिं उपहरन्ति, तदा सो तुस्सति, तस्मा ‘‘अजकलापको’’ति वुच्चतीति. सो पन यक्खो आनुभावसम्पन्नो कक्खळो फरुसो तत्थ च सन्निहितो, तस्मा तं ठानं मनुस्सा चित्तिं करोन्ति, कालेन कालं बलिं उपहरन्ति. तेन वुत्तं ‘‘अजकलापके चेतिये’’ति. अजकलापकस्स यक्खस्स भवनेति तस्स यक्खस्स विमाने.
तदा किर सत्था तं यक्खं दमेतुकामो सायन्हसमये एको अदुतियो पत्तचीवरं आदाय अजकलापकस्स यक्खस्स भवनद्वारं गन्त्वा तस्स दोवारिकं भवनपविसनत्थाय याचि. सो ‘‘कक्खळो, भन्ते, अजकलापको यक्खो, समणोति वा ब्राह्मणोति वा गारवं न करोति, तस्मा तुम्हे एव जानाथ, मय्हं पन तस्स अनारोचनं न युत्त’’न्ति तावदेव यक्खसमागमं गतस्स अजकलापकस्स सन्तिकं वातवेगेन अगमासि. सत्था अन्तोभवनं पविसित्वा अजकलापकस्स निसीदनमण्डपे पञ्ञत्तासने निसीदि. यक्खस्स ओरोधा सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं अट्ठंसु. सत्था तासं कालयुत्तं धम्मिं कथं कथेसि. तेन वुत्तं – ‘‘पावायं विहरति अजकलापके चेतिये अजकलापकस्स यक्खस्स भवने’’ति.
तस्मिं समये सातागिरहेमवता अजकलापकस्स भवनमत्थकेन यक्खसमागमं गच्छन्ता अत्तनो गमने असम्पज्जमाने ‘‘किं नु खो कारण’’न्ति आवज्जेन्ता सत्थारं अजकलापकस्स भवने निसिन्नं दिस्वा तत्थ गन्त्वा भगवन्तं वन्दित्वा ‘‘मयं, भन्ते, यक्खसमागमं गमिस्सामा’’ति आपुच्छित्वा पदक्खिणं कत्वा गता यक्खसन्निपाते अजकलापकं दिस्वा तुट्ठिं पवेदयिंसु ‘‘लाभा ते, आवुसो, अजकलापक, यस्स ते भवने सदेवके लोके अग्गपुग्गलो भगवा निसिन्नो, उपसङ्कमित्वा भगवन्तं पयिरुपासस्सु, धम्मञ्च सुणाही’’ति. सो तेसं कथं सुत्वा ‘‘इमे तस्स मुण्डकस्स समणकस्स मम भवने निसिन्नभावं कथेन्ती’’ति कोधाभिभूतो हुत्वा ‘‘अज्ज मय्हं तेन समणेन सद्धिं सङ्गामो भविस्सती’’ति चिन्तेत्वा यक्खसन्निपाततो उट्ठहित्वा दक्खिणं पादं उक्खिपित्वा सट्ठियोजनमत्तं पब्बतकूटं अक्कमि, तं भिज्जित्वा द्विधा अहोसि. सेसं एत्थ यं वत्तब्बं, तं आळवकसुत्तवण्णनायं (सं. नि. अट्ठ. १.१.२४६) आगतनयेनेव वेदितब्बं.
अजकलापकस्स समागमो हि आळवकसमागमसदिसोव ठपेत्वा पञ्हकरणं विस्सज्जनं भवनतो तिक्खत्तुं निक्खमनं पवेसनञ्च. अजकलापको हि आगच्छन्तोयेव ‘‘एतेहियेव तं समणं पलापेस्सामी’’ति वातमण्डलादिके नववस्से समुट्ठापेत्वा तेहि भगवतो चलनमत्तम्पि कातुं असक्कोन्तो नानाविधप्पहरणहत्थे अतिविय भयानकरूपे भूतगणे निम्मिनित्वा तेहि सद्धिं भगवन्तं उपसङ्कमित्वा अन्तन्तेनेव चरन्तो सब्बरत्तिं नानप्पकारं विप्पकारं कत्वापि भगवतो किञ्चि केसग्गमत्तम्पि निसिन्नट्ठानतो चलनं कातुं नासक्खि. केवलं पन ‘‘अयं समणो मं अनापुच्छा मय्हं भवनं पविसित्वा निसीदती’’ति कोधवसेन पज्जलि. अथस्स भगवा चित्तप्पवत्तिं ञत्वा ‘‘सेय्यथापि नाम चण्डस्स कुक्कुरस्स नासाय पित्तं भिन्देय्य, एवं सो भिय्योसोमत्ताय चण्डतरो अस्स, एवमेवायं यक्खो मयि इध निसिन्ने चित्तं पदूसेति, यंनूनाहं बहि निक्खमेय्य’’न्ति सयमेव भवनतो निक्खमित्वा अब्भोकासे निसीदि. तेन वुत्तं – ‘‘तेन खो पन समयेन भगवा रत्तन्धकारतिमिसायं अब्भोकासे निसिन्नो होती’’ति.
तत्थ रत्तन्धकारतिमिसायन्ति रत्तियं अन्धकरणतमसि, चक्खुविञ्ञाणुप्पत्तिविरहिते बहलन्धकारेति अत्थो. चतुरङ्गसमन्नागतो किर तदा अन्धकारो पवत्तीति. देवोति मेघो एकमेकं फुसितकं उदकबिन्दुं पातेति. अथ यक्खो ‘‘इमिना सद्देन तासेत्वा इमं समणं पलापेस्सामी’’ति भगवतो समीपं गन्त्वा ‘‘अक्कुलो’’तिआदिना तं भिंसनं अकासि. तेन वुत्तं ‘‘अथ खो अजकलापको’’तिआदि. तत्थ भयन्ति चित्तुत्रासं, छम्भितत्तन्ति ऊरुत्थम्भकसरीरस्स छम्भितभावं. लोमहंसन्ति लोमानं पहट्ठभावं, तीहिपि पदेहि भयुप्पत्तिमेव दस्सेति. उपसङ्कमीति कस्मा पनायं एवमधिप्पायो उपसङ्कमि, ननु पुब्बे अत्तना कातब्बं विप्पकारं अकासीति? सच्चमकासि, तं पनेस ‘‘अन्तोभवने खेमट्ठाने थिरभूमियं ठितस्स न किञ्चि कातुं असक्खि, इदानि बहि ठितं एवं भिंसापेत्वा पलापेतुं सक्का’’ति मञ्ञमानो उपसङ्कमि. अयञ्हि यक्खो अत्तनो भवनं ‘‘थिरभूमी’’ति मञ्ञति, ‘‘तत्थ ठितत्ता अयं समणो न भायती’’ति च.
तिक्खत्तुं ‘‘अक्कुलो पक्कुलो’’ति अक्कुलपक्कुलिकं अकासीति तयो वारे ‘‘अक्कुलो पक्कुलो’’ति भिंसापेतुकामताय एवरूपं सद्दं अकासि. अनुकरणसद्दो हि अयं. तदा हि सो यक्खो सिनेरुं उक्खिपन्तो विय महापथविं परिवत्तेन्तो विय च महता उस्साहेन असनिसतसद्दसङ्घाटं विय एकस्मिं ठाने पुञ्जीकतं हुत्वा विनिच्छरन्तं दिसागजानं हत्थिगज्जितं, केसरसीहानं सीहनिन्नादं, यक्खानं हिंकारसद्दं, भूतानं अट्टहासं, असुरानं अप्फोटनघोसं, इन्दस्स देवरञ्ञो वजिरनिग्घातनिग्घोसं, अत्तनो गम्भीरताय विप्फारिकताय भयानकताय च अवसेससद्दं अवहसन्तमिव अभिभवन्तमिव च कप्पवुट्ठानमहावातमण्डलिकाय विनिग्घोसं पुथुज्जनानं हदयं फालेन्तं विय महन्तं पटिभयनिग्घोसं अब्यत्तक्खरं तिक्खत्तुं अत्तनो यक्खगज्जितं गज्जि ‘‘एतेन इमं समणं भिंसापेत्वा पलापेस्सामी’’ति. यं यं निच्छरति, तेन तेन पब्बता पपटिकं मुञ्चिंसु, वनप्पतिजेट्ठके उपादाय सब्बेसु रुक्खलतागुम्बेसु पत्तफलपुप्फानि सीदयिंसु, तियोजनसहस्सवित्थतोपि हिमवन्तपब्बतराजा सङ्कम्पि सम्पकम्पि सम्पवेधि, भुम्मदेवता आदिं कत्वा येभुय्येन देवतानम्पि अहुदेव भयं छम्भितत्तं लोमहंसो, पगेव मनुस्सानं. अञ्ञेसञ्च अपदद्विपदचतुप्पदानं महापथविया उन्द्रियनकालो विय महती विभिंसनका अहोसि, सकलस्मिं जम्बुदीपतले महन्तं कोलाहलं उदपादि. भगवा पन तं सद्दं ‘‘किमी’’ति अमञ्ञमानो निच्चलो निसीदि, ‘‘मा कस्सचि इमिना अन्तरायो होतू’’ति अधिट्ठासि.
यस्मा पन सो सद्दो ‘‘अक्कुल पक्कुल’’ इति इमिना आकारेन सत्तानं सोतपथं अगमासि, तस्मा तस्स अनुकरणवसेन ‘‘अक्कुलो पक्कुलो’’ति, यक्खस्स च तस्सं निग्घोसनिच्छारणायं अक्कुलपक्कुलकरणं अत्थीति कत्वा ‘‘अक्कुलपक्कुलिकं अकासी’’ति सङ्गहं आरोपयिंसु. केचि पन ‘‘आकुलब्याकुल इति पदद्वयस्स परियायाभिधानवसेन अक्कुलो बक्कुलोति अयं सद्दो वुत्तो’’ति वदन्ति यथा ‘‘एकं एकक’’न्ति. यस्मा एकवारं जातो पठमुप्पत्तिवसेनेव निब्बत्तत्ता आकुलोति आदिअत्थो आकारो, तस्स च ककारागमं कत्वा रस्सत्तं कतन्ति. द्वे वारे पन जातो बक्कुलो, कुलसद्दो चेत्थ जातिपरियायो कोलंकोलोतिआदीसु विय. वुत्तअधिप्पायानुविधायी च सद्दप्पयोगोति पठमेन पदेन जलाबुजसीहब्यग्घादयो, दुतियेन अण्डजआसीविसकण्हसप्पादयो वुच्चन्ति, तस्मा सीहादिको विय आसीविसादिको विय च ‘‘अहं ते जीवितहारको’’ति इमं अत्थं यक्खो पदद्वयेन दस्सेतीति अञ्ञे. अपरे पन ‘‘अक्खुलो भक्खुलो’’ति पाळिं वत्वा ‘‘अक्खेतुं खेपेतुं विनासेतुं उलति पवत्तेतीति अक्खुलो, भक्खितुं खादितुं उलतीति भक्खुलो. को पनेसो? यक्खरक्खसपिसाचसीहब्यग्घादीसु अञ्ञतरो यो कोचि मनुस्सानं अनत्थावहो’’ति तस्स अत्थं वदन्ति. इधापि पुब्बे वुत्तनयेनेव अधिप्पाययोजना वेदितब्बा.
एसो ते, समण, पिसाचोति ‘‘अम्भो, समण, तव पिसितासनो पिसाचो उपट्ठितो’’ति महन्तं भेरवरूपं अभिनिम्मिनित्वा भगवतो पुरतो ठत्वा अत्तानं सन्धाय यक्खो वदति.
एतमत्थं विदित्वाति एतं तेन यक्खेन कायवाचाहि पवत्तियमानं विप्पकारं. तेन च अत्तनो अनभिभवनीयस्स हेतुभूतं लोकधम्मेसु निरुपक्किलेसतं सब्बाकारतो विदित्वा. तायं वेलायन्ति तस्सं विप्पकारकरणवेलायं. इमं उदानन्ति तं विप्पकारं अगणेत्वा अस्स अगणनहेतुभूतं धम्मानुभावदीपकं इमं उदानं उदानेसि.
तत्थ यदा सकेसु धम्मेसूति यस्मिं काले सकअत्तभावसङ्खातेसु पञ्चसु उपादानक्खन्धधम्मेसु. पारगूति परिञ्ञाभिसमयपारिपूरिवसेन पारङ्गतो, ततोयेव तेसं हेतुभूते समुदये, तदप्पवत्तिलक्खणे निरोधे, निरोधगामिनिया पटिपदाय च पहानसच्छिकिरियाभावनाभिसमयपारिपूरिवसेन पारगतो. होति ब्राह्मणोति एवं सब्बसो बाहितपापत्ता ब्राह्मणो नाम होति, सब्बसो सकअत्तभावावबोधनेपि चतुसच्चाभिसमयो होति. वुत्तञ्चेतं – ‘‘इमस्मिंयेव ब्याममत्ते कळेवरे ससञ्ञिम्हि समनके लोकञ्च लोकसमुदयञ्च पञ्ञपेमी’’तिआदि (सं. नि. १.१०७; अ. नि. ४.४५). अथ वा सकेसु धम्मेसूति अत्तनो धम्मेसु, अत्तनो धम्मा नाम अत्थकामस्स पुग्गलस्स सीलादिधम्मा. सीलसमाधिपञ्ञाविमुत्तिआदयो हि वोदानधम्मा एकन्तहितसुखसम्पादनेन पुरिसस्स अत्तनो धम्मा नाम, न अनत्थावहा संकिलेसधम्मा विय असकधम्मा. पारगूति तेसं सीलादीनं पारिपूरिया पारं परियन्तं गतो.
तत्थ सीलं ताव लोकियलोकुत्तरवसेन दुविधं. तेसु लोकियं पुब्बभागसीलं. तं सङ्खेपतो पातिमोक्खसंवरादिवसेन चतुब्बिधं, वित्थारतो पन अनेकप्पभेदं. लोकुत्तरं मग्गफलवसेन दुविधं, अत्थतो सम्मावाचासम्माकम्मन्तसम्माआजीवा. यथा च सीलं, तथा समाधिपञ्ञा च लोकियलोकुत्तरवसेन दुविधा. तत्थ लोकियसमाधि सह उपचारेन अट्ठ समापत्तियो, लोकुत्तरसमाधि मग्गपरियापन्नो. पञ्ञापि लोकिया सुतमया, चिन्तामया, भावनामया च सासवा, लोकुत्तरा पन मग्गसम्पयुत्ता फलसम्पयुत्ता च. विमुत्ति नाम फलविमुत्ति निब्बानञ्च, तस्मा सा लोकुत्तराव. विमुत्तिञाणदस्सनं लोकियमेव, तं एकूनवीसतिविधं पच्चवेक्खणञाणभावतो. एवं एतेसं सीलादिधम्मानं अत्तनो सन्ताने अरहत्तफलाधिगमेन अनवसेसतो निब्बत्तपारिपूरिया पारं परियन्तं गतोति सकेसु धम्मेसु पारगू.
अथ वा सोतापत्तिफलाधिगमेन सीलस्मिं पारगू. सो हि ‘‘सीलेसु परिपूरकारी’’ति वुत्तो, सोतापन्नग्गहणेनेव चेत्थ सकदागामीपि गहितो होति. अनागामिफलाधिगमेन समाधिस्मिं पारगू. सो हि ‘‘समाधिस्मिं परिपूरकारी’’ति वुत्तो. अरहत्तफलाधिगमेन इतरेसु तीसु पारगू. अरहा हि पञ्ञावेपुल्लप्पत्तिया अग्गभूताय अकुप्पाय चेतोविमुत्तिया अधिगतत्ता पच्चवेक्खणञाणस्स च परियोसानगमनतो पञ्ञाविमुत्तिविमुत्तिञाणदस्सनेसु पारगू नाम होति. एवं सब्बथापि चतूसु अरियसच्चेसु चतुमग्गवसेन परिञ्ञादिसोळसविधाय किच्चनिप्फत्तिया यथावुत्तेसु तस्मिं तस्मिं काले सकेसु धम्मेसु पारगतो.
होति ब्राह्मणोति तदा सो बाहितपापधम्मताय परमत्थब्राह्मणो होति. अथ एतं पिसाचञ्च, पक्कुलञ्चातिवत्ततीति ततो यथावुत्तपारगमनतो अथ पच्छा, अजकलापक, एतं तया दस्सितं पिसितासनत्थमागतं पिसाचं भयजननत्थं समुट्ठापितं अक्कुलपक्कुलिकञ्च अतिवत्तति, अतिक्कमति, अभिभवति, तं न भायतीति अत्थो.
अयम्पि गाथा अरहत्तमेव उल्लपित्वा कथिता. अथ अजकलापको अत्तना कतेन तथारूपेनपि पटिभयरूपेन विभिंसनेन अकम्पनीयस्स भगवतो तं तादिभावं दिस्वा ‘‘अहो अच्छरियमनुस्सोवताय’’न्ति पसन्नमानसो पोथुज्जनिकाय सद्धाय अत्तनि निविट्ठभावं विभावेन्तो सत्थु सम्मुखा उपासकत्तं पवेदेसि.
सत्तमसुत्तवण्णना निट्ठिता.