५. ब्राह्मणसुत्तवण्णना

५. पञ्चमे सावत्थियन्ति एवंनामके नगरे. तञ्हि सवत्थस्स नाम इसिनो निवासट्ठाने मापितत्ता सावत्थीति वुच्चति, यथा काकन्दी, माकन्दीति. एवं ताव अक्खरचिन्तका. अट्ठकथाचरिया पन भणन्ति – यंकिञ्चि मनुस्सानं उपभोगपरिभोगं सब्बमेत्थ अत्थीति सावत्थि. सत्थसमायोगे च किमेत्थ भण्डमत्थीति पुच्छिते सब्बमत्थीतिपि वचनं उपादाय सावत्थीति.

‘‘सब्बदा सब्बूपकरणं, सावत्थियं समोहितं;

तस्मा सब्बमुपादाय, सावत्थीति पवुच्चती’’ति. (म. नि. अट्ठ. १.१४);

तस्सं सावत्थियं, समीपत्थे चेतं भुम्मवचनं. जेतवनेति अत्तनो पच्चत्थिके जिनातीति जेतो, रञ्ञा वा पच्चत्थिकजने जिते जातोति जेतो, मङ्गलकम्यताय वा तस्स एवं नाममेव कतन्ति जेतो. वनयतीति वनं, अत्तनो सम्पत्तिया सत्तानं अत्तनि भत्तिं करोति उप्पादेतीति अत्थो. वनुके इति वा वनं, नानाविधकुसुमगन्धसम्मोदमत्तकोकिलादिविहङ्गविरुतालापेहि मन्दमारुतचलितरुक्खसाखापल्लवहत्थेहि च ‘‘एथ मं परिभुञ्जथा’’ति पाणिनो याचति वियाति अत्थो. जेतस्स वनं जेतवनं. तञ्हि जेतेन कुमारेन रोपितं संवद्धितं परिपालितं. सोव तस्स सामी अहोसि, तस्मा जेतवनन्ति वुच्चति, तस्मिं जेतवने.

अनाथपिण्डिकस्स आरामेति मातापितूहि गहितनामवसेन सुदत्तो नाम सो महासेट्ठि, सब्बकामसमिद्धिताय पन विगतमलमच्छेरताय करुणादिगुणसमङ्गिताय च निच्चकालं अनाथानं पिण्डं देति, तस्मा अनाथपिण्डिकोति वुच्चति. आरमन्ति एत्थ पाणिनो विसेसेन पब्बजिताति आरामो, पुप्फफलादिसोभाय नातिदूरनाच्चासन्नतादिपञ्चविधसेनासनङ्गसम्पत्तिया च ततो ततो आगम्म रमन्ति अभिरमन्ति अनुक्कण्ठिता हुत्वा वसन्तीति अत्थो. वुत्तप्पकाराय वा सम्पत्तिया तत्थ तत्थ गतेपि अत्तनो अब्भन्तरंयेव आनेत्वा रमेतीति आरामो. सो हि अनाथपिण्डिकेन गहपतिना जेतस्स राजकुमारस्स हत्थतो अट्ठारसहि हिरञ्ञकोटीहि कोटिसन्थारेन किणित्वा अट्ठारसहि हिरञ्ञकोटीहि सेनासनानि कारापेत्वा अट्ठारसहि हिरञ्ञकोटीहि विहारमहं निट्ठापेत्वा एवं चतुपञ्ञासहिरञ्ञकोटिपरिच्चागेन बुद्धप्पमुखस्स सङ्घस्स निय्यातितो, तस्मा ‘‘अनाथपिण्डिकस्स आरामो’’ति वुच्चति. तस्मिं अनाथपिण्डिकस्स आरामे.

एत्थ च ‘‘जेतवने’’ति वचनं पुरिमसामिपरिकित्तनं, ‘‘अनाथपिण्डिकस्स आरामे’’ति पच्छिमसामिपरिकित्तनं. उभयम्पि द्विन्नं परिच्चागविसेसपरिदीपनेन पुञ्ञकामानं आयतिं दिट्ठानुगतिआपज्जनत्थं. तत्थ हि द्वारकोट्ठकपासादकरणवसेन भूमिविक्कयलद्धा अट्ठारस हिरञ्ञकोटियो अनेककोटिअग्घनका रुक्खा च जेतस्स परिच्चागो, चतुपञ्ञास कोटियो अनाथपिण्डिकस्स. इति तेसं परिच्चागपरिकित्तनेन ‘‘एवं पुञ्ञकामा पुञ्ञानि करोन्ती’’ति दस्सेन्तो धम्मभण्डागारिको अञ्ञेपि पुञ्ञकामे तेसं दिट्ठानुगतिआपज्जने नियोजेतीति.

तत्थ सिया – यदि ताव भगवा सावत्थियं विहरति, ‘‘जेतवने’’ति न वत्तब्बं. अथ जेतवने विहरति, ‘‘सावत्थिय’’न्ति न वत्तब्बं. न हि सक्का उभयत्थ एकं समयं विहरितुन्ति. न खो पनेतं एवं दट्ठब्बं, ननु अवोचुम्हा ‘‘समीपत्थे एतं भुम्मवचन’’न्ति. तस्मा यदिदं सावत्थिया समीपे जेतवनं, तत्थ विहरन्तो ‘‘सावत्थियं विहरति जेतवने’’ति वुत्तो. गोचरगामनिदस्सनत्थं हिस्स सावत्थिवचनं, पब्बजितानुरूपनिवासट्ठानदस्सनत्थं सेसवचनन्ति.

आयस्मा च सारिपुत्तोतिआदीसु आयस्माति पियवचनं. चसद्दो समुच्चयत्थो. रूपसारिया नाम ब्राह्मणिया पुत्तोति सारिपुत्तो. महामोग्गल्लानोति पूजावचनं. गुणविसेसेहि महन्तो मोग्गल्लानोति हि महामोग्गल्लानो. रेवतोति खदिरवनिकरेवतो, न कङ्खारेवतो. एकस्मिञ्हि दिवसे भगवा रत्तसाणिपरिक्खित्तो विय सुवण्णयूपो, पवाळधजपरिवारितो विय सुवण्णपब्बतो, नवुतिहंससहस्सपरिवारितो विय धतरट्ठो हंसराजा, सत्तरतनसमुज्जलाय चतुरङ्गिनिया सेनाय परिवारितो विय चक्कवत्ति राजा, महाभिक्खुसङ्घपरिवुतो गगनमज्झे चन्दं उट्ठापेन्तो विय चतुन्नं परिसानं मज्झे धम्मं देसेन्तो निसिन्नो होति. तस्मिं समये इमे अग्गसावका महासावका च भगवतो पादे वन्दनत्थाय उपसङ्कमिंसु.

भिक्खू आमन्तेसीति अत्तानं परिवारेत्वा निसिन्नभिक्खू ते आगच्छन्ते दस्सेत्वा अभासि. भगवा हि ते आयस्मन्ते सीलसमाधिपञ्ञादिगुणसम्पन्ने परमेन उपसमेन समन्नागते परमाय आकप्पसम्पत्तिया युत्ते उपसङ्कमन्ते पस्सित्वा पसन्नमानसो तेसं गुणविसेसपरिकित्तनत्थं भिक्खू आमन्तेसि ‘‘एते, भिक्खवे, ब्राह्मणा आगच्छन्ति, एते, भिक्खवे, ब्राह्मणा आगच्छन्ती’’ति. पसादवसेन एतं आमेडितं, पसंसावसेनातिपि वत्तुं युत्तं. एवं वुत्तेति एवं भगवता ते आयस्मन्ते ‘‘ब्राह्मणा’’ति वुत्ते. अञ्ञतरोति नामगोत्तेन अपाकटो, तस्सं परिसायं निसिन्नो एको भिक्खु. ब्राह्मणजातिकोति ब्राह्मणकुले जातो. सो हि उळारभोगा ब्राह्मणमहासालकुला पब्बजितो. तस्स किर एवं अहोसि ‘‘इमे लोकिया उभतोसुजातिया ब्राह्मणसिक्खानिप्फत्तिया च ब्राह्मणो होति, न अञ्ञथाति वदन्ति, भगवा च एते आयस्मन्ते ब्राह्मणाति वदति, हन्दाहं भगवन्तं ब्राह्मणलक्खणं पुच्छेय्य’’न्ति एतदत्थमेव हि भगवा तदा ते थेरे ‘‘ब्राह्मणा’’ति अभासि. ब्रह्मं अणतीति ब्राह्मणोति हि जातिब्राह्मणानं निब्बचनं. अरिया पन बाहितपापताय ब्राह्मणा. वुत्तञ्हेतं – ‘‘बाहितपापोति ब्राह्मणो, समचरिया समणोति वुच्चती’’ति (ध. प. ३८८). वक्खति च ‘‘बाहित्वा पापके धम्मे’’ति.

एतमत्थं विदित्वाति एतं ब्राह्मणसद्दस्स परमत्थतो सिखापत्तमत्थं जानित्वा. इमं उदानन्ति इमं परमत्थब्राह्मणभावदीपकं उदानं उदानेसि.

तत्थ बाहित्वाति बहि कत्वा, अत्तनो सन्तानतो नीहरित्वा समुच्छेदप्पहानवसेन पजहित्वाति अत्थो. पापके धम्मेति लामके धम्मे, दुच्चरितवसेन तिविधदुच्चरितधम्मे, चित्तुप्पादवसेन द्वादसाकुसलचित्तुप्पादे, कम्मपथवसेन दसाकुसलकम्मपथे, पवत्तिभेदवसेन अनेकभेदभिन्ने सब्बेपि अकुसलधम्मेति अत्थो. ये चरन्ति सदा सताति ये सतिवेपुल्लप्पत्तताय सब्बकालं रूपादीसु छसुपि आरम्मणेसु सततविहारवसेन सता सतिमन्तो हुत्वा चतूहि इरियापथेहि चरन्ति. सतिग्गहणेनेव चेत्थ सम्पजञ्ञम्पि गहितन्ति वेदितब्बं. खीणसंयोजनाति चतूहिपि अरियमग्गेहि दसविधस्स संयोजनस्स समुच्छिन्नत्ता परिक्खीणसंयोजना. बुद्धाति चतुसच्चसम्बोधेन बुद्धा. ते च पन सावकबुद्धा, पच्चेकबुद्धा, सम्मासम्बुद्धाति तिविधा, तेसु इध सावकबुद्धा अधिप्पेता. ते वे लोकस्मि ब्राह्मणाति ते सेट्ठत्थेन ब्राह्मणसङ्खाते धम्मे अरियाय जातिया जाता, ब्राह्मणभूतस्स वा भगवतो ओरसपुत्ताति इमस्मिं सत्तलोके परमत्थतो ब्राह्मणा नाम, न जातिगोत्तमत्तेहि, न जटाधारणादिमत्तेन वाति अत्थो. एवं इमेसु द्वीसु सुत्तेसु ब्राह्मणकरा धम्मा अरहत्तं पापेत्वा कथिता, नानज्झासयताय पन सत्तानं देसनाविलासेन अभिलापनानत्तेन देसनानानत्तं वेदितब्बं.

पञ्चमसुत्तवण्णना निट्ठिता.