१६. महानिपातो

१. सुमेधाथेरीगाथावण्णना

महानिपाते मन्तावतिया नगरेतिआदिका सुमेधाय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती, सक्कच्चं विमोक्खसम्भारे सम्भारेन्ती कोणागमनस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा, अत्तनो सखीहि कुलधीताहि सद्धिं एकज्झासया हुत्वा महन्तं आरामं कारेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यादेसि. सा तेन पुञ्ञकम्मेन कायस्स भेदा तावतिंसं उपगच्छि. तत्थ यावतायुकं दिब्बसम्पत्तिं अनुभवित्वा ततो चुता यामेसु उपपज्जि. ततो चुता तुसितेसु, ततो चुता निम्मानरतीसु, ततो चुता परनिम्मितवसवत्तीसूति अनुक्कमेन पञ्चसु कामसग्गेसु उप्पज्जित्वा तत्थ तत्थ देवराजूनं महेसी हुत्वा ततो चुता कस्सपस्स भगवतो काले महाविभवस्स सेट्ठिनो धीता हुत्वा अनुक्कमेन विञ्ञुतं पत्वा सासने अभिप्पसन्ना हुत्वा रतनत्तयं उद्दिस्स उळारपुञ्ञकम्मं अकासि.

तत्थ यावजीवं धम्मूपजीविनी कुसलधम्मनिरता हुत्वा ततो चुता तावतिंसेसु निब्बत्तित्वा अपरापरं सुगतीसुयेव संसरन्ती, इमस्मिं बुद्धुप्पादे मन्तावतीनगरे कोञ्चस्स नाम रञ्ञो धीता हुत्वा निब्बत्ति. तस्सा मातापितरो सुमेधाति नामं अकंसु. तं अनुक्कमेन वुद्धिप्पत्तवयप्पत्तकाले मातापितरो ‘‘वारणवतीनगरे अनिकरत्तस्स नाम रञ्ञो दस्सामा’’ति सम्मन्तेसुं. सा पन दहरकालतो पट्ठाय अत्तनो समानवयाहि राजकञ्ञाहि दासिजनेहि च सद्धिं भिक्खुनुपस्सयं गन्त्वा भिक्खुनीनं सन्तिके धम्मं सुत्वा चिरकालतो पट्ठाय कताधिकारताय संसारे जातसंवेगा सासने अभिप्पसन्ना हुत्वा वयप्पत्तकाले कामेहि विनिवत्तितमानसा अहोसि. तेन सा मातापितूनं ञातीनं सम्मन्तनं सुत्वा ‘‘न मय्हं घरावासेन किच्चं, पब्बजिस्सामह’’न्ति आह. तं मातापितरो घरावासे नियोजेन्ता नानप्पकारेन याचन्तापि सञ्ञापेतुं नासक्खिंसु. सा ‘‘एवं मे पब्बजितुं लब्भती’’ति खग्गं गहेत्वा सयमेव अत्तनो केसे छिन्दित्वा ते एव केसे आरब्भ पटिक्कूलमनसिकारं पवत्तेन्ती तत्थ कताधिकारताय भिक्खुनीनं सन्तिके मनसिकारविधानस्स सुतपुब्बत्ता च असुभनिमित्तं उप्पादेत्वा तत्थ पठमज्झानं अधिगच्छि. अधिगतपठमज्झाना च अत्तना घरावासे उय्योजेतुं उपगते मातापितरो आदिं कत्वा अन्तोजनपरिजनं सब्बं राजकुलं सासने अभिप्पसन्नं कारेत्वा घरतो निक्खमित्वा भिक्खुनुपस्सयं गन्त्वा पब्बजि. पब्बजित्वा च विपस्सनं पट्ठपेत्वा सम्मदेव परिपक्कञाणा विमुत्तिपरिपाचनीयानं धम्मानं विसेसिताय न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेरी २.१.१-१९) –

‘‘भगवति कोणागमने, सङ्घारामम्हि नवनिवेसम्हि;

सखियो तिस्सो जनियो, विहारदानं अदासिम्ह.

‘‘दसक्खत्तुं सतक्खत्तुं, दससतक्खत्तुं सतानि च सतक्खत्तुं;

देवेसु उपपज्जिम्ह, को पन वादो मनुस्सेसु.

‘‘देवेसु महिद्धिका अहुम्ह, मानुसकम्हि को पन वादो;

सत्तरतनस्स महेसी, इत्थिरतनं अहं आसिं.

‘‘इध सञ्चितकुसला, सुसमिद्धकुलप्पजा;

धनञ्जानी च खेमा च, अहम्पि च तयो जना.

‘‘आरामं सुकतं कत्वा, सब्बावयवमण्डितं;

बुद्धप्पमुखसङ्घस्स, निय्यादेत्वा पमोदिता.

‘‘यत्थ यत्थूपपज्जामि, तस्स कम्मस्स वाहसा;

देवेसु अग्गतं पत्ता, मनुस्सेसु तथेव च.

‘‘इमस्मिंयेव कप्पम्हि, ब्रह्मबन्धु महायसो;

कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.

‘‘उपट्ठाको महेसिस्स, तदा आसि नरिस्सरो;

कासिराजा किकी नाम, बाराणसिपुरुत्तमे.

‘‘तस्सासुं सत्त धीतरो, राजकञ्ञा सुखेधिता;

बुद्धोपट्ठाननिरता, ब्रह्मचरियं चरिंसु ता.

‘‘तासं सहायिका हुत्वा, सीलेसु सुसमाहिता;

दत्वा दानानि सक्कच्चं, अगारेव वतं चरिं.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसूपगा अहं.

‘‘ततो चुता याममगं, ततोहं तुसितं गता;

ततो च निम्मानरतिं, वसवत्तिपुरं गता.

‘‘यत्थ यत्थूपपज्जामि, पुञ्ञकम्मसमोहिता;

तत्थ तत्थेव राजूनं, महेसित्तमहारयिं.

‘‘ततो चुता मनुस्सत्ते, राजूनं चक्कवत्तिनं;

मण्डलीनञ्च राजूनं, महेसित्तमकारयिं.

‘‘सम्पत्तिमनुभोत्वान, देवेसु मानुसेसु च;

सब्बत्थ सुखिता हुत्वा, नेकजातीसु संसरिं.

‘‘सो हेतु सो पभवो, तम्मूलं साव सासने खन्ती;

तं पठमसमोधानं, तं धम्मरताय निब्बानं.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागीव बन्धनं छेत्वा, विहरामि अनासवा.

‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –

४५०. ‘‘मन्तावतिया नगरे, रञ्ञो कोञ्चस्स अग्गमहेसिया;

धीता आसिं सुमेधा, पसादिता सासनकरेहि.

४५१. ‘‘सीलवती चित्तकथा, बहुस्सुता बुद्धसासने विनिता;

मातापितरो उपगम्म, भणति उभयो निसामेथ.

४५२. ‘‘निब्बानाभिरताहं, असस्सतं भवगतं यदिपि दिब्बं;

किमङ्गं पन तुच्छा कामा, अप्पस्सादा बहुविघाता.

४५३. ‘‘कामा कटुका आसी, विसूपमा येसु मुच्छिता बाला;

ते दीघरत्तं निरये, समप्पिता हञ्ञन्ते दुक्खिता.

४५४. ‘‘सोचन्ति पापकम्मा, विनिपाते पापवद्धिनो सदा;

कायेन च वाचाय च, मनसा च असंवुता बाला.

४५५. ‘‘बाला ते दुप्पञ्ञा, अचेतना दुक्खसमुदयोरुद्धा;

देसेन्ते अजानन्ता, न बुज्झरे अरियसच्चानि.

४५६. ‘‘सच्चानि ‘अम्म’बुद्धवरदेसि, तानि ते बहुतरा अजानन्ता ये;

अभिनन्दन्ति भवगतं, पिहेन्ति देवेसु उपपत्तिं.

४५७. ‘‘देवेसुपि उपपत्ति, असस्सता भवगते अनिच्चम्हि;

न च सन्तसन्ति बाला, पुनप्पुनं जायितब्बस्स.

४५८. ‘‘चत्तारो विनिपाता, दुवे च गतियो कथञ्चि लब्भन्ति;

न च विनिपातगतानं, पब्बज्जा अत्थि निरयेसु.

४५९. ‘‘अनुजानाथ मं उभयो, पब्बजितुं दसबलस्स पावचने;

अप्पोस्सुक्का घटिस्सं, जातिमरणप्पहानाय.

४६०. ‘‘किं भवगते अभिनन्दि, तेन कायकलिना असारेन;

भवतण्हाय निरोधा, अनुजानाथ पब्बजिस्सामि.

४६१. ‘‘बुद्धानं उप्पादो, विवज्जितो अक्खणो खणो लद्धो;

सीलानि ब्रह्मचरियं, यावजीवं न दूसेय्यं.

४६२. ‘‘एवं भणति सुमेधा, मातापितरो ‘न ताव आहारं;

आहरिस्सं गहट्ठा, मरणवसं गताव हेस्सामि’.

४६३. ‘‘माता दुक्खिता रोदति पिता च;

अस्सा सब्बसो समभिहतो;

घटेन्ति सञ्ञापेतुं, पासादतले छमापतितं.

४६४. ‘‘उट्ठेहि पुत्तक किं सोचि, तेन दिन्नासि वारणवतिम्हि;

राजा अनीकरत्तो, अभिरूपो तस्स त्वं दिन्ना.

४६५. ‘‘अग्गमहेसी भविस्ससि, अनिकरत्तस्स राजिनो भरिया;

सीलानि ब्रह्मचरियं, पब्बज्जा दुक्करा पुत्तक.

४६६. ‘‘रज्जे आणा धनमिस्सरियं, भोगा सुखा दहरिकासि;

भुञ्जाहि कामभोगे, वारेय्यं होतु ते पुत्त.

४६७. ‘‘अथ ने भणति सुमेधा, मा एदिसिकानि भवगतमसारं;

पब्बज्जा वा होहिति, मरणं वा मे न चेव वारेय्यं.

४६८. ‘‘किमिव पूतिकायमसुचिं, सवनगन्धं भयानकं कुणपं;

अभिसंविसेय्यं भस्तं, असकिं पग्घरितं असुचिपुण्णं.

४६९. ‘‘किमिव तहं जानन्ती, विकूलकं मंससोणितुपलित्तं;

किमिकुललयं सकुणभत्तं, कळेवरं किस्स दियतीति.

४७०. ‘‘निब्बुय्हति सुसानं, अचिरं कायो अपेतविञ्ञाणो;

छुद्धो कळिङ्गरं विय, जिगुच्छमानेहि ञातीहि.

४७१. ‘‘छुद्धून नं सुसाने, परभत्तं न्हायन्ति जिगुच्छन्ता;

नियका मातापितरो, किं पन साधारणा जनता.

४७२. ‘‘अज्झोसिता असारे, कळेवरे अट्ठिन्हारुसङ्घाते;

खेळस्सुच्चारस्सवपरिपुण्णे पूतिकायम्हि.

४७३. ‘‘यो नं विनिब्भुजित्वा, अब्भन्तरमस्स बाहिरं कयिरा;

गन्धस्स असहमाना, सकापि माता जिगुच्छेय्य.

४७४. ‘‘खन्धधातुआयतनं, सङ्खतं जातिमूलकं दुक्खं;

योनिसो अनुविचिनन्ती, वारेय्यं किस्स इच्छेय्यं.

४७५. ‘‘दिवसे दिवसे तिसत्ति, सतानि नवनवा पतेय्युं कायम्हि;

वस्ससतम्पि च घातो, सेय्यो दुक्खस्स चेवं खयो.

४७६. ‘‘अज्झुपगच्छे घातं, यो विञ्ञायेवं सत्थुनो वचनं;

दीघो तेसं संसारो, पुनप्पुनं हञ्ञमानानं.

४७७. ‘‘देवेसु मनुस्सेसु च, तिरच्छानयोनिया असुरकाये;

पेतेसु च निरयेसु च, अपरिमिता दिस्सन्ते घाता.

४७८. ‘‘घाता निरयेसु बहू, विनिपातगतस्स पीळियमानस्स;

देवेसुपि अत्ताणं, निब्बानसुखा परं नत्थि.

४७९. ‘‘पत्ता ते निब्बानं, ये युत्ता दसबलस्स पावचने;

अप्पोस्सुक्का घटेन्ति, जातिमरणप्पहानाय.

४८०. ‘‘अज्जेव तातभिनिक्खमिस्सं, भोगेहि किं असारेहि;

निब्बिन्ना मे कामा, वन्तसमा तालवत्थुकता.

४८१. ‘‘सा चेवं भणति पितरमनीकरत्तो, च यस्स सा दिन्ना;

उपयासि वारणवते, वारेय्यमुपट्ठिते काले.

४८२. ‘‘अथ असितनिचितमुदुके, केसे खग्गेन छिन्दिय सुमेधा;

पासादं पिदहित्वा, पठमज्झानं समापज्जि.

४८३. ‘‘सा च तहिं समापन्ना, अनीकरत्तो च आगतो नगरं;

पासादे च सुमेधा, अनिच्चसञ्ञं सुभावेति.

४८४. ‘‘सा च मनसि करोति, अनीकरत्तो च आरुही तुरितं;

मणिकनकभूसितङ्गो, कतञ्जली याचति सुमेधं.

४८५. ‘‘रज्जे आणा धनमिस्सरियं, भोगा सुखा दहरिकासि;

भुञ्जाहि कामभोगे, कामसुखा दुल्लभा लोके.

४८६. ‘‘निस्सट्ठं ते रज्जं, भोगे भुञ्जस्सु देहि दानानि;

मा दुम्मना अहोसि, मातापितरो ते दुक्खिता.

४८७. ‘‘तं तं भणति सुमेधा, कामेहि अनत्थिका विगतमोहा;

मा कामे अभिनन्दि, कामेस्वादीनवं पस्स.

४८८. ‘‘चातुद्दीपो राजा, मन्धाता आसि कामभोगिनमग्गो;

अतित्तो कालङ्कतो, न चस्स परिपूरिता इच्छा.

४८९. ‘‘सत्त रतनानि वस्सेय्य, वुट्ठिमा दसदिसा समन्तेन;

न चत्थि तित्ति कामानं, अतित्ताव मरन्ति नरा.

४९०. ‘‘असिसूनूपमा कामा, कामा सप्पसिरोपमा;

उक्कोपमा अनुदहन्ति, अट्ठिकङ्कलसन्निभा.

४९१. ‘‘अनिच्चा अधुवा कामा, बहुदुक्खा महाविसा;

अयोगुळोव सन्तत्तो, अघमूला दुखप्फला.

४९२. ‘‘रुक्खफलूपमा कामा, मंसपेसूपमा दुखा;

सुपिनोपमा वञ्चनिया, कामा याचितकूपमा.

४९३. ‘‘सत्तिसूलूपमा कामा, रोगो गण्डो अघं निघं;

अङ्गारकासुसदिसा, अघमूलं भयं वधो.

४९४. ‘‘एवं बहुदुक्खा कामा, अक्खाता अन्तरायिका;

गच्छथ न मे भवगते, विस्सासो अत्थि अत्तनो.

४९५. ‘‘किं मम परो करिस्सति, अत्तनो सीसम्हि डय्हमानम्हि;

अनुबन्धे जरामरणे, तस्स घाताय घटितब्बं.

४९६. ‘‘द्वारं अपापुरित्वानहं, मातापितरो अनीकरत्तञ्च;

दिस्वान छमं निसिन्ने, रोदन्ते इदमवोचं.

४९७. ‘‘दीघो बालानं संसारो, पुनप्पुनञ्च रोदतं;

अनमतग्गे पितु मरणे, भातु वधे अत्तनो च वधे.

४९८. ‘‘अस्सु थञ्ञं रुधिरं, संसारं अनमतग्गतो सरथ;

सत्तानं संसरतं, सराहि अट्ठीनञ्च सन्निचयं.

४९९. ‘‘सर चतुरोदधी, उपनीते अस्सुथञ्ञरुधिरम्हि;

सर एककप्पमट्ठीनं, सञ्चयं विपुलेन समं.

५००. ‘‘अनमतग्गे संसरतो, महिं जम्बुदीपमुपनीतं;

कोलट्ठिमत्तगुळिका, माता मातुस्वेव नप्पहोन्ति.

५०१. ‘‘तिणकट्ठसाखापलासं, उपनीतं अनमतग्गतो सर;

चतुरङ्गुलिका घटिका, पितुपितुस्वेव नप्पहोन्ति.

५०२. ‘‘सर काणकच्छपं पुब्बसमुद्दे, अपरतो च युगछिद्दं;

सिरं तस्स च पटिमुक्कं, मनुस्सलाभम्हि ओपम्मं.