३. महापन्थकत्थेरगाथावण्णना

यदा पठममद्दक्खिन्तिआदिका आयस्मतो महापन्थकत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे विभवसम्पन्नो कुटुम्बियो हुत्वा एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं सञ्ञाविवट्टकुसलानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो बुद्धप्पमुखस्स भिक्खुसङ्घस्स सत्ताहं महादानं पवत्तेत्वा, ‘‘भन्ते, यं भिक्खुं तुम्हे इतो सत्तदिवसमत्थके – ‘सञ्ञाविवट्टकुसलानं अयं मम सासने अग्गो’ति एतदग्गे ठपयित्थ, अहम्पि इमस्स अधिकारकम्मस्स बलेन सो भिक्खु विय अनागते एकस्स बुद्धस्स सासने अग्गो भवेय्य’’न्ति पत्थनं अकासि. कनिट्ठभाता पनस्स तथेव भगवति अधिकारकम्मं कत्वा मनोमयस्स कायस्साभिनिम्मानं चेतोविवट्टकोसल्लन्ति द्विन्नं अङ्गानं वसेन वुत्तनयेनेव पणिधानं अकासि. भगवा द्विन्नम्पि पत्थनं अनन्तरायेन समिज्झनभावं दिस्वा ‘‘अनागते कप्पसतसहस्समत्थके गोतमस्स नाम सम्मासम्बुद्धस्स सासने तुम्हाकं पत्थना समिज्झिस्सती’’ति ब्याकासि.

ते उभोपि जना तत्थ यावजीवं पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्तिंसु. तत्थ महापन्थकस्स अन्तराकतं कल्याणधम्मं न कथीयति. चूळपन्थको पन कस्सपस्स भगवतो सासने पब्बजित्वा वीसति वस्ससहस्सानि ओदातकसिणकम्मं कत्वा देवपुरे निब्बत्ति. अपदाने पन ‘‘चूळपन्थको पदुमुत्तरस्स भगवतो काले तापसो हुत्वा हिमवन्ते वसन्तो तत्थ भगवन्तं दिस्वा पुप्फच्छत्तेन पूजं अकासी’’ति आगतं. तेसं देवमनुस्सेसु संसरन्तानंयेव कप्पसतसहस्सं अतिक्कन्तं. अथ अम्हाकं सत्था अभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्को राजगहं उपनिस्साय वेळुवने महाविहारे विहरति.

तेन च समयेन राजगहे धनसेट्ठिस्स धीता अत्तनो दासेन सद्धिं सन्थवं कत्वा ञातकेहि भीता हत्थसारं गहेत्वा तेन सद्धिं पलायित्वा अञ्ञत्थ वसन्ती तं पटिच्च गब्भं लभित्वा परिपक्कगब्भा ‘‘ञातिघरं गन्त्वा विजायिस्सामी’’ति गच्छन्ती अन्तरामग्गेयेव पुत्तं विजायित्वा सामिना निवत्तिता पुब्बे वसितट्ठाने वसन्ती पुत्तस्स पन्थे जातत्ता पन्थकोति, नामं अकासि. तस्मिं आधावित्वा विधावित्वा विचरणकाले तमेव पटिच्च दुतियं गब्भं पटिलभित्वा परिपक्कगब्भा पुब्बे वुत्तनयेनेव अन्तरामग्गे पुत्तं विजायित्वा सामिना निवत्तिता जेट्ठपुत्तस्स महापन्थकोति कनिट्ठस्स चूळपन्थकोति नामं कत्वा यथावसितट्ठानेयेव वसन्ती अनुक्कमेन दारकेसु वड्ढन्तेसु तेहि, ‘‘अम्म, अय्यककुलं नो दस्सेही’’ति निबुन्धियमाना दारके मातापितूनं सन्तिकं पेसेसि. ततो पट्ठाय दारका धनसेट्ठिनो गेहे वड्ढन्ति. तेसु चूळपन्थको अतिदहरो. महापन्थको पन अय्यकेन सद्धिं भगवतो सन्तिकं गतो सत्थारं दिस्वा सह दस्सनेन पटिलद्धसद्धो धम्मं सुत्वा उपनिस्सयसम्पन्नताय पब्बजितुकामो हुत्वा पितामहं आपुच्छि. सो सत्थु तमत्थं आरोचेत्वा तं पब्बाजेसि. सो पब्बजित्वा बहुं बुद्धवचनं उग्गण्हित्वा परिपुण्णवस्सो उपसम्पज्जित्वा योनिसोमनसिकारे कम्मं करोन्तो विसेसतो चतुन्नं अरूपज्झानानं लाभी हुत्वा ततो वुट्ठाय विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. इति सो सञ्ञाविवट्टकुसलानं अग्गो जातो. सो झानसुखेन फलसुखेन वीतिनामेन्तो एकदिवसं अत्तनो पटिपत्तिं पच्चवेक्खित्वा अधिगतसम्पत्तिं पटिच्च सञ्जातसोमनस्सो सीहनादं नदन्तो –

५१०. ‘‘यदा पठममद्दक्खिं, सत्थारमकुतोभयं;

ततो मे अहु संवेगो, पस्सित्वा पुरिसुत्तमं.

५११. ‘‘सिरिं हत्थेहि पादेहि, यो पणामेय्य आगतं;

एतादिसं सो सत्थारं, आराधेत्वा विराधये.

५१२. ‘‘तदाहं पुत्तदारञ्च, धनधञ्ञञ्च छड्डयिं;

केसमस्सूनि छेदेत्वा, पब्बजिं अनगारियं.

५१३. ‘‘सिक्खासाजीवसम्पन्नो, इन्द्रियेसु सुसंवुतो;

नमस्समानो सम्बुद्धं, विहासिं अपराजितो.

५१४. ‘‘ततो मे पणिधी आसि, चेतसो अभिपत्थितो;

न निसीदे मुहुत्तम्पि, तण्हासल्ले अनूहते.

५१५. ‘‘तस्स मेवं विहरतो, पस्स वीरियपरक्कमं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

५१६. ‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;

अरहा दक्खिणेय्योम्हि, विप्पमुत्तो निरूपधि.

५१७. ‘‘ततो रत्याविवसाने, सूरियुग्गमनं पति;

सब्बं तण्हं विसोसेत्वा, पल्लङ्केन उपाविसि’’न्ति. – इमा गाथा अभासि;

तत्थ यदाति यस्मिं काले. पठमन्ति आदितो. अद्दक्खिन्ति पस्सिं, सत्थारन्ति, भगवन्तं. अकुतोभयन्ति निब्भयं. अयञ्हेत्थ अत्थो – सब्बेसं भयहेतूनं बोधिमूलेयेव पहीनत्ता कुतोचिपि भयाभावतो अकुतोभयं निब्भयं, चतुवेसारज्जविसारदं दिट्ठधम्मिकसम्परायिकपरमत्थेहि वेनेय्यानं यथारहमनुसासनतो सत्थारं सम्मासम्बुद्धं मय्हं पितामहेन सद्धिं गन्त्वा याय वेलाय सब्बपठमं पस्सिं, तं पुरिसुत्तमं सदेवके लोके अग्गपुग्गलं पस्सित्वा ततो दस्सनहेतु ततो दस्सनतो पच्छा ‘‘एत्तकं कालं सत्थारं दट्ठुं धम्मञ्च सोतुं नालत्थ’’न्ति मय्हं संवेगो अहु सहोत्तप्पं ञाणं उप्पज्जि. उप्पन्नसंवेगो पनाहं एवं चिन्तेसिन्ति दस्सेति सिरिं हत्थेहीति गाथाय. तस्सत्थो – यो विभवत्थिको पुरिसो ‘‘उपट्ठायिको हुत्वा तव सन्तिके वसिस्सामी’’ति सविग्गहं सिरिं सयने उपगतं हत्थेहि च पादेहि च कोट्टेन्तो पणामेय्य नीहरेय्य, सो तथारूपो अलक्खिकपुरिसो एतादिसं सत्थारं सम्मासम्बुद्धं आराधेत्वा इमस्मिं नवमे खणे पटिलभित्वा विराधये तस्स ओवादाकरणेन तं विरज्झेय्य, अहं पनेवं न करोमीति अधिप्पायो. तेनाह ‘‘तदाहं…पे… अनगारिय’’न्ति. तत्थ छड्डयिन्ति, पजहिं. ‘‘छड्डिय’’न्तिपि पाठो. ननु अयं थेरो दारपरिग्गहं अकत्वाव पब्बजितो, सो कस्मा ‘‘पुत्तदारञ्च छड्डयि’’न्ति अवोचाति? यथा नाम पुरिसो अनिब्बत्तफलमेव रुक्खं छिन्दन्तो अच्छिन्ने ततो लद्धफलेहि परिहीनो नाम होति. एवंसम्पदमिदं दट्ठब्बं.

सिक्खासाजीवसमापन्नोति या अधिसीलसिक्खा, ताय च, यत्थ भिक्खू सह जीवन्ति, एकजीविका सभागवुत्तिनो होन्ति, तेन भगवता पञ्ञत्तसिक्खापदसङ्खातेन साजीवेन च समन्नागतो सिक्खनभावेन समङ्गीभूतो, सिक्खं परिपूरेन्तो साजीवञ्च अवीतिक्कमन्तो हुत्वा तदुभयं सम्पादेन्तोति अत्थो. तेन सुविसुद्धे पातिमोक्खे सीले पतिट्ठितभावं दस्सेति. इन्द्रियेसु सुसंवुतोति मनच्छट्ठेसु इन्द्रियेसु सुट्ठु संवुतो. रूपादिविसयेसु उप्पज्जनकानं अभिज्झादीनं पवत्तिनिवारणवसेन सतिकवाटेन सुपिहितचक्खादिद्वारोति अत्थो. एवं पातिमोक्खसंवरइन्द्रियसंवरसीलसम्पत्तिदस्सनेन इतरसीलम्पि अत्थतो दस्सितमेव होतीति थेरो अत्तनो चतुपारिसुद्धिसीलसम्पदं दस्सेत्वा ‘‘नमस्समानो सम्बुद्ध’’न्ति इमिना बुद्धानुस्सतिभावनानुयोगमाह. विहासिं अपराजितोति किलेसमारादीहि अपराजितो एव हुत्वा विहरिं, याव अरहत्तप्पत्ति, ताव तेहि अनभिभूतो, अञ्ञदत्थु ते अभिभवन्तो एव विहासिन्ति अत्थो.

ततोति तस्मा, यस्मा सुविसुद्धसीलो सत्थरि अभिप्पसन्नो किलेसाभिभवनपटिपत्तियञ्च ठितो, तस्मा. पणिधीति पणिधानं. ततो वा चित्ताभिनीहारो. आसीति अहोसि. चेतसो अभिपत्थितोति, मम चित्तेन इच्छितो. कीदिसो पन सोति आह ‘‘न निसीदे मुहुत्तम्पि, तण्हासल्ले अनूहते’’ति. ‘‘अग्गमग्गसण्डासेन मम हदयतो तण्हासल्ले अनुद्धटे मुहुत्तम्पि न निसीदे, निसज्जं न कप्पेय्य’’न्ति एवं मे चित्ताभिनीहारो अहोसीति अत्थो.

एवं पन चित्तं अधिट्ठाय भावनं भावयित्वा ठानचङ्कमेहेव रत्तिं वीतिनामेन्तो अरूपसमापत्तितो वुट्ठाय झानङ्गमुखेन विपस्सनं पट्ठपेत्वा अरहत्तं सच्छाकासि. तेन वुत्तं ‘‘तस्स मे’’तिआदि. निरूपधीति किलेसुपधिआदीनं अभावेन निरुपधि. रत्याविवसानेति रत्तिभागस्स विगमने विभाताय रत्तिया. सूरियुग्गमनं पतीति सूरियुग्गमनं लक्खणं कत्वा. सब्बं तण्हन्ति कामतण्हादिभेदं सब्बं तण्हासोतं अग्गमग्गेन विसोसेत्वा सुक्खापेत्वा ‘‘तण्हासल्ले अनूहते न निसीदे’’ति, पटिञ्ञाय मोचितत्ता. पल्लङ्केन उपाविसिन्ति पल्लङ्कं आभुजित्वा निसीदिन्ति. सेसं उत्तानत्थमेव.

महापन्थकत्थेरगाथावण्णना निट्ठिता.

अट्ठकनिपातवण्णना निट्ठिता.