१. महाकच्चायनत्थेरगाथावण्णना

अट्ठकनिपाते कम्मं बहुकन्तिआदिका आयस्मतो महाकच्चायनत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो पदुमुत्तरस्स भगवतो काले गहपतिमहासालकुले निब्बत्तित्वा वुद्धिप्पत्तो, एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारा संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं अग्गट्ठाने ठपियमानं एकं भिक्खुं दिस्वा, सयम्पि तं ठानं पत्थेन्तो पणिधानं कत्वा, दानादीनि पुञ्ञानि कत्वा, देवमनुस्सेसु संसरन्तो सुमेधस्स भगवतो काले विज्जाधरो हुत्वा आकासेन गच्छन्तो सत्थारं हिमवन्तपब्बते एकस्मिं वनसण्डे निसिन्नं दिस्वा पसन्नमानसो कणिकारपुप्फेहि पूजं अकासि.

सो तेन पुञ्ञकम्मेन अपरापरं सुगतीसुयेव परिवत्तेन्तो कस्सपदसबलस्स काले बाराणसियं कुलघरे निब्बत्तित्वा परिनिब्बुते भगवति सुवण्णचेतियकरणट्ठाने सतसहस्सग्घनिकाय सुवण्णिट्ठकाय पूजं कत्वा, ‘‘भगवा मय्हं निब्बत्तनिब्बत्तट्ठाने सरीरं सुवण्णवण्णं होतू’’ति पत्थनं अकासि.

ततो यावजीवं कुसलकम्मं कत्वा एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे उज्जेनियं रञ्ञो चण्डपज्जोतस्स पुरोहितगेहे निब्बत्ति. तस्स नामग्गहणदिवसे माता ‘‘मय्हं पुत्तो सुवण्णवण्णो, अत्तनो नामं गहेत्वा आगतो’’ति कञ्चनमाणवो त्वेव नामं अकासि. सो वुड्ढिमन्वाय तयो वेदे उग्गहेत्वा पितु अच्चयेन पुरोहितट्ठानं लभि. सो गोत्तवसेन कच्चायनोति पञ्ञायित्थ. तं राजा चण्डपज्जोतो बुद्धुप्पादं सुत्वा, ‘‘आचरिय, त्वं तत्थ गन्त्वा सत्थारं इधानेही’’ति पेसेसि. सो अत्तट्ठमो सत्थु सन्तिकं उपगतो. तस्स सत्था धम्मं देसेति. देसनापरियोसाने सो सत्तहि जनेहि सद्धिं सह पटिसम्भिदाहि अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर २.५४.१-२७) –

‘‘पदुमुत्तरो नाम जिनो, अनेजो अजितं जयो;

सतसहस्से कप्पानं, इतो उप्पज्जि नायको.

‘‘वीरो कमलपत्तक्खो, ससङ्कविमलाननो;

कनकाचलसङ्कासो, रविदित्तिसमप्पभो.

‘‘सत्तनेत्तमनोहारी, वरलक्खणभूसितो;

सब्बवाक्यपथातीतो, मनुजामरसक्कतो.

‘‘सम्बुद्धो बोधयं सत्ते, वागीसो मधुरस्सरो;

करुणानिबन्धसन्तानो, परिसासु विसारदो.

‘‘देसेति मधुरं धम्मं, चतुसच्चूपसंहितं;

निमुग्गे मोहपङ्कम्हि, समुद्धरति पाणिने.

‘‘तदा एकचरो हुत्वा, तापसो हिमवालयो;

नभसा मानुसं लोकं, गच्छन्तो जिनमद्दसं.

‘‘उपेच्च सन्तिकं तस्स, अस्सोसिं धम्मदेसनं;

वण्णयन्तस्स वीरस्स, सावकस्स महागुणं.

‘‘संखित्तेन मया वुत्तं, वित्थारेन पकासयं;

परिसं मञ्च तोसेति, यथा कच्चायनो अयं.

‘‘नाहं एवमिधेकच्चं, अञ्ञं पस्सामि सावकं;

तस्मातदग्गे एसग्गो, एवं धारेथ भिक्खवो.

‘‘तदाहं विम्हितो हुत्वा, सुत्वा वाक्यं मनोरमं;

हिमवन्तं गमित्वान, आहित्वा पुप्फसञ्चयं.

‘‘पूजेत्वा लोकसरणं, तं ठानमभिपत्थयिं;

तदा ममासयं ञत्वा, ब्याकासि स रणञ्जहो.

‘‘पस्सथेतं इसिवरं, निद्धन्तकनकत्तचं;

उद्धग्गलोमं पीणंसं, अचलं पञ्जलिं ठितं.

‘‘हासं सुपुण्णनयनं, बुद्धवण्णगतासयं;

धम्मजं उग्गहदयं, अमतासित्तसन्निभं.

‘‘कच्चानस्स गुणं सुत्वा, तं ठानं पत्थयं ठितो;

अनागतम्हि अद्धाने, गोतमस्स महामुने.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

कच्चानो नाम नामेन, हेस्सति सत्थु सावको.

‘‘बहुस्सुतो महाञाणी, अधिप्पायविदू मुने;

पापुणिस्सति तं ठानं, यथायं ब्याकतो मया.

‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘दुवे भवे संसरामि, देवत्ते अथ मानुसे;

अञ्ञं गतिं न गच्छामि, बुद्धपूजायिदं फलं.

‘‘दुवे कुले पजायामि, खत्तिये अथ ब्राह्मणे;

नीचे कुले न जायामि, बुद्धपूजायिदं फलं.

‘‘पच्छिमे च भवे दानि, जातो उज्जेनियं पुरे;

पज्जोतस्स च चण्डस्स, पुरोहितदिजाधिनो.

‘‘पुत्तो तिरिटिवच्छस्स, निपुणो वेदपारगू;

माता च चन्दिमा नाम, कच्चानोहं वरत्तचो.

‘‘वीमंसनत्थं बुद्धस्स, भूमिपालेन पेसितो;

दिस्वा मोक्खपुरद्वारं, नायकं गुणसञ्चयं.

‘‘सुत्वा च विमलं वाक्यं, गतिपङ्कविसोसनं;

पापुणिं अमतं सन्तं, सेसेहि सह सत्तहि.

‘‘अधिप्पायविदू जातो, सुगतस्स महामते.

ठपितो एतदग्गे च, सुसमिद्धमनोरथो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अथ सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि. ते तावदेव द्वङ्गुलमत्तकेसमस्सुका इद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरा विय अहेसुं. एवं थेरो सदत्थं निप्फादेत्वा, ‘‘भन्ते, राजा पज्जोतो तुम्हाकं पादे वन्दितुं धम्मञ्च सोतुं इच्छती’’ति सत्थु आरोचेसि. सत्था, ‘‘त्वंयेव, भिक्खु, तत्थ गच्छ, तयि गतेपि राजा पसीदिस्सती’’ति आह. थेरो सत्थु आणाय अत्तट्ठमो तत्थ गन्त्वा राजानं पसादेत्वा अवन्तीसु सासनं पतिट्ठापेत्वा पुन सत्थु सन्तिकमेव गतो. सो एकदिवसं सम्बहुले भिक्खू समणधम्मं पहाय कम्मारामे सङ्गणिकारामे रसतण्हानुगते च पमादविहारिनो दिस्वा तेसं ओवादवसेन –

४९४. ‘‘कम्मं बहुकं न कारये, परिवज्जेय्य जनं न उय्यमे;

सो उस्सुक्को रसानुगिद्धो, अत्थं रिञ्चति यो सुखाधिवाहो.

४९५. ‘‘पङ्कोति हि नं अवेदयुं, यायं वन्दनपूजना कुलेसु;

सुखुमं सल्लं दुरुब्बहं, सक्कारो कापुरिसेन दुज्जहो’’ति. –

द्वे गाथा अभासि.

तत्थ कम्मं बहुकं न कारयेति नवावासकारापनादिं समणधम्मकरणस्स परिबन्धभूतं महन्तं नवकम्मं न पट्ठपेय्य, खुद्दकं अप्पसमारम्भं खण्डफुल्लपटिसङ्खरणादिं सत्थु वचनपटिपूजनत्थं कातब्बमेव. परिवज्जेय्य जनन्ति गणसङ्गणिकवसेन जनं विवज्जेय्य. जनन्ति वा यादिसं संसेवतो भजतो पयिरुपासतो कुसला धम्मा परिहायन्ति, अकुसला धम्मा अभिवड्ढन्ति, तादिसं अकल्याणमित्तभूतं जनं परिवज्जेय्य. न उय्यमेति, पच्चयुप्पादनत्थं कुलसङ्गण्हनवसेन न वायमेय्य, यस्मा सो उस्सुक्को रसानुगिद्धो, अत्थं रिञ्चति यो सुखाधिवाहोति यो रसानुगिद्धो रसतण्हावसिको भिक्खु पच्चयुप्पादनपसुतो, सो कुलसङ्गण्हनत्थं उस्सुक्को, तेसु सुखितेसु सुखितो, दुक्खितेसु दुक्खितो, उप्पन्नेसु किच्चकरणीयेसु अत्तना योगं आपज्जति, यो सुखाधिवाहो समथविपस्सनामग्गफलनिब्बानसुखावहो सीलादिअत्थो, तं रिञ्चति पजहति एकंसेन अत्तानं ततो विवेचेतीति अत्थो.

एवं पठमगाथाय ‘‘कम्मारामतं सङ्गणिकारामतं पच्चयगेधञ्च वज्जेथा’’ति ओवदित्वा इदानि सक्काराभिलासं गरहन्तो दुतियं गाथमाह. तस्सत्थो – या अयं भिक्खाय उपगतानं पब्बजितानं कुलेसु गेहवासीहि गुणसम्भावनाय करीयमाना वन्दना पूजना च, यस्मा तं अभावितत्तानं ओसीदापनट्ठेन मलिनभावकरणट्ठेन च पङ्को कद्दमोति बुद्धादयो अरिया पवेदयुं अब्भञ्ञंसु पवेदेसुं वा, यस्मा च अपरिञ्ञातक्खन्धानं अन्धपुथुज्जनानं सक्काराभिलासं दुविञ्ञेय्यसभावताय पीळाजननतो अन्तो तुदनतो दुरुद्धरणतो च सुखुमं सल्लं दुरुब्बहं पवेदयुं, ततो एव सक्कारो कापुरिसेन दुज्जहो दुप्पजहेय्यो तस्स पहानपटिपत्तिया अप्पटिपज्जनतो. सक्काराभिलासप्पहानेन हि सक्कारो पहीनो होति, तस्मा तस्स पहानाय आयोगो करणीयोति दस्सेति –

४९६. ‘‘न परस्सुपनिधाय, कम्मं मच्चस्स पापकं;

अत्तना तं न सेवेय्य, कम्मबन्धू हि मातिया.

४९७. ‘‘न परे वचना चोरो, न परे वचना मुनि;

अत्ता च नं यथा वेदि, देवापि नं तथा विदू.

४९८. ‘‘परे च न विजानन्ति, मयमेत्थ यमामसे;

ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा.

४९९. ‘‘जीवते वापि सप्पञ्ञो, अपि वित्तपरिक्खयो;

पञ्ञाय च अलाभेन, वित्तवापि न जीवति.

५००. ‘‘सब्बं सुणाति सोतेन, सब्बं पस्सति चक्खुना;

न च दिट्ठं सुतं धीरो, सब्बं उज्झितुमरहति.

५०१. ‘‘चक्खुमास्स यथा अन्धो, सोतवा बधिरो यथा;

पञ्ञवास्स यथा मूगो, बलवा दुब्बलोरिव;

अथ अत्थे समुप्पन्ने, सयेथ मतसायिक’’न्ति. –

इमा छ गाथा रञ्ञो पज्जोतस्स ओवादवसेन अभासि. सो किर ब्राह्मणे सद्दहित्वा पसुघातयञ्ञं कारेति, कम्मं असोधेत्वाव अचोरे चोरसञ्ञाय दण्डेसि, अट्टकरणे च अस्सामिके सामिके करोति, सामिके च अस्सामिके. ततो नं थेरो विवेचेतुं ‘‘न परस्सा’’तिआदिना छ गाथा अभासि.

तत्थ न परस्सुपनिधाय, कम्मं मच्चस्स पापकन्ति परस्स मच्चस्स सत्तस्स उपनिधाय उद्दिस्स कारणं कत्वा पापकं वधबन्धादिकम्मं न सेवेय्य, परेन न कारापेय्याति अत्थो. अत्तना तं न सेवेय्याति अत्तनापि तं पापकं न करेय्य. कस्मा? कम्मबन्धू हि मातिया इमे मातिया मच्चा कम्मदायादा, तस्मा अत्तना च किञ्चि पापकम्मं न करेय्य, परेनपि न कारापेय्याति अत्थो.

न परे वचना चोरोति अत्तना चोरियं अकत्वा परवचना परस्स वचनमत्तेन चोरो नाम न होति, तथा न परे वचना मुनि परस्स वचनमत्तेन मुनि सुविसुद्धकायवचीमनोसमाचारो न होति. एत्थ हि परेति विभत्तिअलोपं कत्वा निद्देसो. केचि पन ‘‘परेसन्ति वत्तब्बे परेति सं-कारलोपं कत्वा निद्दिट्ठ’’न्ति वदन्ति. अत्ता च नं यथा वेदीति नं सत्तं तस्स अत्ता चित्तं यथा ‘‘अहं परिसुद्धो, अपरिसुद्धो वा’’ति याथावतो अवेदि जानाति. देवापि नं तथा विदूति विसुद्धिदेवा, उपपत्तिदेवा च तथा विदू विदन्ति जानन्ति, तस्मा सयं तादिसा देवा च पमाणं सुद्धासुद्धानं सुद्धासुद्धभावजानने, न ये केचि इच्छादोसपरेता सत्ताति अधिप्पायो.

परेति पण्डिते ठपेत्वा ततो अञ्ञे, कुसलाकुसलसावज्जानवज्जं कम्मं कम्मफलं कायस्स असुभतं सङ्खारानं अनिच्चतं अजानन्ता इध परे नाम. ते मयमेत्थ इमस्मिं जीवलोके यमाम उपरमाम, ‘‘सततं समितं मच्चु सन्तिकं गच्छामा’’ति न जानन्ति. ये च तत्थ विजानन्तीति ये च तत्थ पण्डिता ‘‘मयं मच्चु समीपं गच्छामा’’ति विजानन्ति. ततो सम्मन्ति मेधगाति एवञ्हि ते जानन्ता मेधगानं परविहिंसनानं वूपसमाय पटिपज्जन्ति, अत्तना परे च अञ्ञे न मेधन्ति न बाधेन्तीति अत्थो. त्वं पन जीवितनिमित्तं अचोरे चोरे करोन्तोपि दण्डनेन सामिके अस्सामिके करोन्तोपि धनजानिया बाधसि पञ्ञावेकल्लतो. तथा अकरोन्तोपि जीवते वापि सप्पञ्ञो, अपि वित्तपरिक्खयो परिक्खीणधनोपि सप्पञ्ञजातिको इतरीतरसन्तोसेन सन्तुट्ठो अनवज्जाय जीविकाय जीवतियेव. तस्स हि जीवितं नाम. तेनाह भगवा – ‘‘पञ्ञाजीविं जीवितमाहु सेट्ठ’’न्ति (सं. नि. १.७३, २४६; सु. नि. १८४). दुम्मेधपुग्गलो पन पञ्ञाय च अलाभेन दिट्ठधम्मिकं सम्परायिकञ्च अत्थं विराधेन्तो वित्तवापि न जीवति गरहादिपवत्तिया जीवन्तो नाम न होति, अनुपायञ्ञुताय यथाधिगतं धनं नासेन्तो जीवितम्पि सन्धारेतुं न सक्कोतियेव.

इमा किर चतस्सोपि गाथा थेरो सुपिनन्तेन रञ्ञो कथेसि. राजा सुपिनं दिस्वा थेरं नमस्सन्तोयेव पबुज्झित्वा पभाताय रत्तिया थेरं उपसङ्कमित्वा वन्दित्वा अत्तना दिट्ठनियामेन सुपिनं कथेसि. तं सुत्वा थेरो ता गाथा पच्चुनुभासित्वा ‘‘सब्बं सुणाती’’तिआदिना द्वीहि गाथाहि राजानं ओवदि. तत्थ सब्बं सुणाति सोतेनाति इध सोतब्बं सद्दं आपाथगतं सब्बं सुभासितं दुब्भासितञ्च अबधिरो सोतेन सुणाति. तथा सब्बं रूपं सुन्दरं असुन्दरम्पि चक्खुना अनन्धो पस्सति, अयमिन्द्रियानं सभावो. तत्थ पन न च दिट्ठं सुतं धीरो, सब्बं उज्झितुन्ति च निदस्सनमत्तमेतं. यञ्हि तं दिट्ठं सुतं वा, न तं सब्बं धीरो सप्पञ्ञो उज्झितुं परिच्चजितुं गहेतुं वा अरहति. गुणागुणं पन तत्थ उपपरिक्खित्वा उज्झितब्बमेव उज्झितुं गहेतब्बञ्च गहेतुं अरहति, तस्मा चक्खुमास्स यथा अन्धो चक्खुमापि समानो उज्झितब्बे दिट्ठे अन्धो यथा अस्स अपस्सन्तो विय भवेय्य, तथा उज्झितब्बे सुते सोतवापि बधिरो यथा अस्स असुणन्तो विय भवेय्य. पञ्ञवास्स यथा मूगोति विचारणपञ्ञाय पञ्ञवा वचनकुसलोपि अवत्तब्बे मूगो विय भवेय्य. बलवा थामसम्पन्नोपि अकत्तब्बे दुब्बलोरिव, रकारो पदसन्धिकरो, असमत्थो विय भवेय्य. अथ अत्थे समुप्पन्ने, सयेथ मतसायिकन्ति अत्तना कातब्बकिच्चे उप्पन्ने उपट्ठिते मतसायिकं सयेथ, मतसायिकं सयित्वापि तं किच्चं तीरेतब्बमेव, न विराधेतब्बं. अथ वा अथ अत्थे समुप्पन्नेति अत्तना अकरणीये अत्थे किच्चे उप्पन्ने उपट्ठिते मतसायिकं सयेथ, मतसायिकं सयित्वापि तं न कातब्बमेव. न हि पण्डितो अयुत्तं कातुमरहतीति एवं थेरेन ओवदितो राजा अकत्तब्बं पहाय कातब्बेयेव युत्तप्पयुत्तो अहोसीति.

महाकच्चायनत्थेरगाथावण्णना निट्ठिता.