४. चूळपन्थकत्थेरगाथावण्णना

दन्धा मय्हं गतीतिआदिका आयस्मतो चूळपन्थकत्थेरस्स गाथा. का उप्पत्ति? यदेत्थ अट्ठुप्पत्तिवसेन वत्तब्बं, तं अट्ठकनिपाते महापन्थकवत्थुस्मिं (थेरगा. अट्ठ. २.महापन्थकत्थेरगाथावण्णना) वुत्तमेव. अयं पन विसेसो – महापन्थकत्थेरो अरहत्तं पत्वा अग्गफलसुखेन वीतिनामेन्तो चिन्तेसि – ‘‘कथं नु खो सक्का चूळपन्थकम्पि इमस्मिं सुखे पतिट्ठपेतु’’न्ति? सो अत्तनो अय्यकं धनसेट्ठिं उपसङ्कमित्वा आह – ‘‘सचे, महासेट्ठि, अनुजानाथ, अहं चूळपन्थकं पब्बाजेय्य’’न्ति. ‘‘पब्बाजेथ, भन्ते’’ति. थेरो तं पब्बाजेसि. सो दससु सीलेसु पतिट्ठितो भातु सन्तिके –

‘‘पदुमं यथा कोकनदं सुगन्धं, पातो सिया फुल्लमवीतगन्धं;

अङ्गीरसं पस्स विरोचमानं, तपन्तमादिच्चमिवन्तलिक्खे’’ति. (सं. नि. १.१२३; अ. नि. ५.१९५) –

गाथं उग्गण्हन्तो चतूहि मासेहि गहेतुं नासक्खि, गहितगहितं पदं हदये न तिट्ठति. अथ नं महापन्थको आह – ‘‘पन्थक, त्वं इमस्मिं सासने अभब्बो, चतूहि मासेहि एकगाथम्पि गहेतुं न सक्कोसि. पब्बजितकिच्चं पन त्वं कथं मत्थकं पापेस्ससि? निक्खम इतो’’ति. सो थेरेन पणामितो द्वारकोट्ठकसमीपे रोदमानो अट्ठासि.

तेन च समयेन सत्था जीवकम्बवने विहरति. अथ जीवको पुरिसं पेसेसि, ‘‘पञ्चहि भिक्खुसतेहि सद्धिं सत्थारं निमन्तेही’’ति. तेन च समयेन आयस्मा महापन्थको भत्तुद्देसको होति. सो ‘‘पञ्चन्नं भिक्खुसतानं भिक्खं पटिच्छथ, भन्ते’’ति वुत्तो ‘‘चूळपन्थकं ठपेत्वा सेसानं पटिच्छामी’’ति आह. तं सुत्वा चूळपन्थको भिय्योसोमत्ताय दोमनस्सप्पत्तो अहोसि. सत्था तस्स चित्तक्खेदं ञत्वा, ‘‘चूळपन्थको मया कतेन उपायेन बुज्झिस्सती’’ति तस्स अविदूरे ठाने अत्तानं दस्सेत्वा ‘‘किं, पन्थक, रोदसी’’ति पुच्छि. ‘‘भाता मं, भन्ते, पणामेती’’ति आह. ‘‘पन्थक, मा चिन्तयि, मम सासने तुय्हं पब्बज्जा, एहि, इमं गहेत्वा ‘रजोहरणं, रजोहरण’न्ति मनसि करोही’’ति इद्धिया सुद्धं चोळक्खण्डं अभिसङ्खरित्वा अदासि. सो सत्थारा दिन्नं चोळक्खण्डं ‘‘रजोहरणं, रजोहरण’’न्ति हत्थेन परिमज्जन्तो निसीदि. तस्स तं परिमज्जन्तस्स किलिट्ठधातुकं जातं, पुन परिमज्जन्तस्स उक्खलिपरिपुञ्छनसदिसं जातं. सो ञाणस्स परिपक्कत्ता एवं चिन्तेसि – ‘‘इदं चोळक्खण्डं पकतिया परिसुद्धं, इमं उपादिण्णकसरीरं निस्साय किलिट्ठं अञ्ञथा जातं, तस्मा अनिच्चं यथापेतं, एवं चित्तम्पी’’ति खयवयं पट्ठपेत्वा तस्मिंयेव निमित्ते झानानि निब्बत्तेत्वा झानपादकं विपस्सनं पट्ठपेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२.३५-५४) –

‘‘पदुमुत्तरो नाम जिनो, आहुतीनं पटिग्गहो;

गणम्हा वूपकट्ठो सो, हिमवन्ते वसी तदा.

‘‘अहम्पि हिमवन्तम्हि, वसामि अस्समे तदा;

अचिरागतं महावीरं, उपेसिं लोकनायकं.

‘‘पुप्फच्छत्तं गहेत्वान, उपगच्छिं नरासभं;

समाधिं समापज्जन्तं, अन्तरायमकासहं.

‘‘उभो हत्थेहि पग्गय्ह, पुप्फच्छत्तं अदासहं;

पटिग्गहेसि भगवा, पदुमुत्तरो महामुनि.

‘‘सब्बे देवा अत्तमना, हिमवन्तं उपेन्ति ते;

साधुकारं पवत्तेसुं, अनुमोदिस्सति चक्खुमा.

‘‘इदं वत्वान ते देवा, उपगच्छुं नरुत्तमं;

आकासे धारयन्तस्स, पदुमच्छत्तमुत्तमं.

‘‘सतपत्तछत्तं पग्गय्ह, अदासि तापसो मम;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘पञ्चवीसतिकप्पानि, देवरज्जं करिस्सति;

चतुत्तिंसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति.

‘‘यं यं योनिं संसरति, देवत्तं अथ मानुसं;

अब्भोकासे पतिट्ठन्तं, पदुमं धारयिस्सति.

‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘पकासिते पावचने, मनुस्सत्तं लभिस्सति;

मनोमयम्हि कायम्हि, उत्तमो सो भविस्सति.

‘‘द्वे भातरो भविस्सन्ति, उभोपि पन्थकव्हया;

अनुभोत्वा उत्तमत्थं, जोतयिस्सन्ति सासनं.

‘‘सोहं अट्ठारसवस्सो, पब्बजिं अनगारियं;

विसेसाहं न विन्दामि, सक्यपुत्तस्स सासने.

‘‘दन्धा मय्हं गती आसि, परिभूतो पुरे अहुं;

भाता च मं पणामेसि, गच्छ दानि सकं घरं.

‘‘सोहं पणामितो सन्तो, सङ्घारामस्स कोट्ठके;

दुम्मनो तत्थ अट्ठासिं, सामञ्ञस्मिं अपेक्खवा.

‘‘भगवा तत्थ आगच्छि, सीसं मय्हं परामसि;

बाहाय मं गहेत्वान, सङ्घारामं पवेसयि.

‘‘अनुकम्पाय मे सत्था, अदासि पादपुञ्छनिं;

एवं सुद्धं अधिट्ठेहि, एकमन्तमधिट्ठहं.

‘‘हत्थेहि तमहं गय्ह, सरिं कोकनदं अहं;

तत्थ चित्तं विमुच्चि मे, अरहत्तं अपापुणिं.

‘‘मनोमयेसु कायेसु, सब्बत्थ पारमिं गतो;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तमग्गेनेवस्स तेपिटकं पञ्चाभिञ्ञा च आगमिंसु. सत्था एकेन ऊनेहि पञ्चहि भिक्खुसतेहि सद्धिं गन्त्वा जीवकस्स निवेसने पञ्ञत्ते आसने निसीदि. चूळपन्थको पन अत्तनो भिक्खाय अप्पटिच्छितत्ता एव न गतो. जीवको यागुं दातुं आरभि, सत्था पत्तं हत्थेन पिदहि. ‘‘कस्मा, भन्ते, न गण्हथा’’ति वुत्ते – ‘‘विहारे एको भिक्खु अत्थि, जीवका’’ति. सो पुरिसं पहिणि, ‘‘गच्छ, भणे, विहारे निसिन्नं अय्यं गहेत्वा एही’’ति. चूळपन्थकत्थेरोपि रूपेन किरियाय च एकम्पि एकेन असदिसं भिक्खुसहस्सं निम्मिनित्वा निसीदि. सो पुरिसो विहारे भिक्खूनं बहुभावं दिस्वा गन्त्वा जीवकस्स कथेसि – ‘‘इमस्मा भिक्खुसङ्घा विहारे भिक्खुसङ्घो बहुतरो, पक्कोसितब्बं अय्यं न जानामी’’ति. जीवको सत्थारं पटिपुच्छि – ‘‘कोनामो, भन्ते, विहारे निसिन्नो भिक्खू’’ति? ‘‘चूळपन्थको नाम, जीवका’’ति. ‘‘गच्छ, भणे, ‘चूळपन्थको नाम कतरो’ति पुच्छित्वा तं आनेही’’ति. सो विहारं गन्त्वा ‘‘चूळपन्थको नाम कतरो, भन्ते’’ति पुच्छि. ‘‘अहं चूळपन्थको’’,‘‘अहं चूळपन्थको’’ति एकपहारेनेव भिक्खुसहस्सम्पि कथेसि. सो पुनागन्त्वा तं पवत्तिं जीवकस्स आरोचेसि. जीवको पटिविद्धसच्चत्ता ‘‘इद्धिमा मञ्ञे, अय्यो’’ति नयतो ञत्वा ‘‘गच्छ, भणे, पठमं कथनकमय्यमेव ‘तुम्हे सत्था पक्कोसती’ति वत्वा चीवरकण्णे गण्हा’’ति आह. सो विहारं गन्त्वा तथा अकासि, तावदेव निम्मितभिक्खू अन्तरधायिंसु. सो थेरं गहेत्वा अगमासि.

सत्था तस्मिं खणे यागुञ्च खज्जकादिभेदञ्च पटिग्गण्हि. दसबले भत्तकिच्चं कत्वा विहारं गते धम्मसभायं कथा उदपादि – ‘‘अहो बुद्धानं आनुभावो, यत्र हि नाम चत्तारो मासे एकगाथं गहेतुं असक्कोन्तम्पि लहुकेन खणेनेव एवं महिद्धिकं अकंसू’’ति. सत्था तेसं भिक्खूनं कथासल्लापं सुत्वा आगन्त्वा बुद्धासने निसज्ज, ‘‘किं वदेथ, भिक्खवे’’ति पुच्छित्वा, ‘‘इमं नाम, भन्ते’’ति वुत्ते, ‘‘भिक्खवे, चूळपन्थकेन इदानि मय्हं ओवादे ठत्वा लोकुत्तरदायज्जं लद्धं, पुब्बे पन लोकियदायज्ज’’न्ति वत्वा तेहि याचितो चूळसेट्ठिजातकं (जा. १.१.४) कथेसि. अपरभागे तं सत्था अरियगणपरिवुतो धम्मासने निसिन्नो मनोमयं कायं अभिनिम्मिनन्तानं भिक्खूनं चेतोविवट्टकुसलानञ्च अग्गट्ठाने ठपेसि. सो अपरेन समयेन भिक्खूहि ‘‘तथा दन्धधातुकेन कथं तया सच्चानि पटिविद्धानी’’ति पुट्ठो भातु पणामनतो पट्ठाय अत्तनो पटिपत्तिं पकासेन्तो –

५५७. ‘‘दन्धा मय्हं गती आसि, परिभूतो पुरे अहं;

भाता च मं पणामेसि, गच्छ दानि तुवं घरं.

५५८. ‘‘सोहं पणामितो सन्तो, सङ्घारामस्स कोट्ठके;

दुम्मनो तत्थ अट्ठासिं, सासनस्मिं अपेक्खवा.

५५९. ‘‘भगवा तत्थ आगच्छि, सीसं मय्हं परामसि;

बाहाय मं गहेत्वान, सङ्घारामं पवेसयि.

५६०. ‘‘अनुकम्पाय मे सत्था, पादासि पादपुञ्छनिं;

एतं सुद्धं अधिट्ठेहि, एकमन्तं स्वधिट्ठितं.

५६१. ‘‘तस्साहं वचनं सुत्वा, विहासिं सासने रतो;

समाधिं पटिपादेसिं, उत्तमत्थस्स पत्तिया.

५६२. ‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

५६३. ‘‘सहस्सक्खत्तुमत्तानं, निम्मिनित्वान पन्थको;

निसीदम्बवने रम्मे, याव कालप्पवेदना.

५६४. ‘‘ततो मे सत्था पाहेसि, दूतं कालप्पवेदकं;

पवेदितम्हि कालम्हि, वेहासादुपसङ्कमिं.

५६५. ‘‘वन्दित्वा सत्थुनो पादे, एकमन्तं निसीदहं;

निसिन्नं मं विदित्वान, अत्थ सत्था पटिग्गहि.

५६६. ‘‘आयागो सब्बलोकस्स, आहुतीनं पटिग्गहो;

पुञ्ञक्खेत्तं मनुस्सानं, पटिग्गण्हित्थ दक्खिण’’न्ति. –

इमा गाथा अभासि.

तत्थ दन्धाति, मन्दा, चतुप्पदिकं गाथं चतूहि मासेहि गहेतुं असमत्थभावेन दुब्बला. गतीति ञाणगति. आसीति, अहोसि. परिभूतोति, ततो एव ‘‘मुट्ठस्सति असम्पजानो’’ति हीळितो. पुरेति, पुब्बे पुथुज्जनकाले. भाता चाति समुच्चयत्थो च-सद्दो, न केवलं परिभूतोव, अथ खो भातापि मं पणामेसि, ‘‘पन्थक, त्वं दुप्पञ्ञो अहेतुको मञ्ञे, तस्मा पब्बजितकिच्चं मत्थकं पापेतुं असमत्थो, न इमस्स सासनस्स अनुच्छविको, गच्छ दानि तुय्हं अय्यकघर’’न्ति निक्कड्ढेसि. भाताति, भातरा.

कोट्ठकेति, द्वारकोट्ठकसमीपे. दुम्मनोति, दोमनस्सितो. सासनस्मिं अपेक्खवाति, सम्मासम्बुद्धस्स सासने सापेक्खो अविब्भमितुकामो.

भगवा तत्थ आगच्छीति, महाकरुणासञ्चोदितमानसो मं अनुग्गण्हन्तो भगवा यत्थाहं ठितो, तत्थ आगच्छि. आगन्त्वा च, ‘‘पन्थक, अहं ते सत्था, न महापन्थको, मं उद्दिस्स तव पब्बज्जा’’ति समस्सासेन्तो सीसं मय्हं परामसि जालाबन्धनमुदुतलुनपीणवरायतङ्गुलिसमुपसोभितेन विकसितपदुमसस्सिरीकेन चक्कङ्कितेन हत्थतलेन ‘‘इदानियेव मम पुत्तो भविस्सती’’ति दीपेन्तो मय्हं सीसं परामसि. बाहाय मं गहेत्वानाति, ‘‘कस्मा त्वं, इध तिट्ठसी’’ति चन्दनगन्धगन्धिना अत्तनो हत्थेन मं भुजे गहेत्वा अन्तोसङ्घारामं पवेसेसि. पादासि पादपुञ्छनिन्ति पादपुञ्छनिं कत्वा पादासि ‘‘रजोहरणन्ति मनसि करोही’’ति अदासीति अत्थो. ‘‘अदासी’’ति ‘‘पादपुञ्छनि’’न्ति च पठन्ति. केचि पन ‘‘पादपुञ्छनि’’न्ति पादपुञ्छनचोळक्खण्डं पादासी’’ति वदन्ति. तदयुत्तं इद्धिया अभिसङ्खरित्वा चोळक्खण्डस्स दिन्नत्ता. एतं सुद्धं अधिट्ठेहि, एकमन्तं स्वधिट्ठितन्ति, एतं सुद्धं चोळक्खण्डं ‘‘रजोहरणं, रजोहरण’’न्ति मनसिकारेन स्वधिट्ठितं कत्वा एकमन्तं एकमन्ते विवित्ते गन्धकुटिपमुखे निसिन्नो अधिट्ठेहि तथा चित्तं समाहितं कत्वा पवत्तेहि.

तस्साहं वचनं सुत्वाति, तस्स भगवतो वचनं ओवादं अहं सुत्वा तस्मिं सासने ओवादे रतो अभिरतो हुत्वा विहासिं यथानुसिट्ठं पटिपज्जिं. पटिपज्जन्तो च समाधिं पटिपादेसिं, उत्तमत्थस्स पत्तियाति, उत्तमत्थो नाम अरहत्तं, तस्स अधिगमाय कसिणपरिकम्मवसेन रूपज्झानानि निब्बत्तेत्वा झानपादकं विपस्सनं पट्ठपेत्वा मग्गपटिपाटिया अग्गमग्गसमाधिं सम्पादेसिन्ति अत्थो. एत्थ हि समाधीति उपचारसमाधितो पट्ठाय याव चतुत्थमग्गसमाधि, ताव समाधिसामञ्ञेन गहितो, अग्गफलसमाधि पन उत्तमत्थग्गहणेन, सातिसयं चेवायं समाधिकुसलो, तस्मा ‘‘समाधिं पटिपादेसि’’न्ति आह. समाधिकुसलताय हि अयमायस्मा चेतोविवट्टकुसलो नाम जातो, महापन्थकत्थेरो पन विपस्सनाकुसलताय सञ्ञाविवट्टकुसलो नाम. एको चेत्थ समाधिलक्खणे छेको, एको विपस्सनालक्खणे, एको समाधिगाळ्हो, एको विपस्सनागाळ्हो एको अङ्गसंखित्ते छेको, एको आरम्मणसंखित्ते, एको अङ्गववत्थाने, एको आरम्मणववत्थानेति वण्णेन्ति. अपिच चूळपन्थकत्थेरो सातिसयं चतुन्नं रूपावचरज्झानानं लाभिताय चेतोविवट्टकुसलो वुत्तो, महापन्थकत्थेरो सातिसयं चतुन्नं अरूपावचरज्झानानं लाभिताय सञ्ञाविवट्टकुसलो. पठमो वा रूपावचरज्झानलाभी हुत्वा झानङ्गेहि वुट्ठाय अरहत्तं पत्तोति चेतोविवट्टकुसलो, इतरो अरूपावचरज्झानलाभी हुत्वा झानङ्गेहि वुट्ठाय अरहत्तं पत्तोति सञ्ञाविवट्टकुसलो. मनोमयं पन कायं निब्बत्तेन्तो अञ्ञे तयो वा चत्तारो वा निब्बत्तन्ति, न बहुके, एकसदिसेयेव च कत्वा निब्बत्तेन्ति, एकविधमेव कम्मं कुरुमाने. अयं पन थेरो एकावज्जनेन समणसहस्सं मापेसि, द्वेपि न कायेन एकसदिसे अकासि, न एकविधं कम्मं कुरुमाने. तस्मा मनोमयं कायं अभिनिम्मिनन्तानं अग्गो नाम जातो.

इदानि अत्तनो अधिगतविसेसं दस्सेतुं ‘‘पुब्बेनिवासं जानामी’’तिआदिमाह. कामञ्चायं थेरो छळभिञ्ञो, या पन अभिञ्ञा आसवक्खयञाणाधिगमस्स बहूपकारा, तं दस्सनत्थं ‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधित’’न्ति वत्वा ‘‘तिस्सो विज्जा अनुप्पत्ता’’ति वुत्तं. पुब्बेनिवासयथाकम्मुपगअनागतंसञाणानि हि विपस्सनाचारस्स बहूपकारानि, न तथा इतरञाणानि.

सहस्सक्खत्तुन्ति सहस्सं. ‘‘सहस्सवार’’न्ति केचि वदन्ति. एकावज्जनेन पन थेरो सहस्से मनोमये काये निम्मिनि, न वारेन. ते च खो अञ्ञमञ्ञमसदिसे विविधञ्च कम्मं करोन्ते. ‘‘किं पन सावकानम्पि एवरूपं इद्धिनिम्मानं सम्भवती’’ति? न सम्भवति सब्बेसं, अभिनीहारसम्पत्तिया पन अयमेव थेरो एवमकासि, तथा हेस इमिना अङ्गेन एतदग्गे ठपितो. पन्थको निसीदीति अत्तानमेव परं विय वदति. अम्बवनेति, अम्बवने जीवकेन कतविहारे. वेहासादुपसङ्कमिन्ति वेहासाति करणे निस्सक्कवचनं, वेहासेनाति अत्थो, द-कारो पदसन्धिकरो. अथाति, मम निसज्जाय पच्छा. पटिग्गहीति दक्खिणोदकं पटिग्गण्हि. आयागो सब्बलोकस्साति, सब्बस्स सदेवकस्स लोकस्स अग्गदक्खिणेय्यताय देय्यधम्मं आनेत्वा यजितब्बट्ठानभूतो. आहुतीनं पटिग्गहोति, महाफलभावकरणेन दक्खिणाहुतीनं पटिग्गण्हको. पटिग्गण्हित्थ दक्खिणन्ति जीवकेन उपनीतं यागुखज्जादिभेदं दक्खिणं पटिग्गहेसि.

अथ खो भगवा कतभत्तकिच्चो आयस्मन्तं चूळपन्थकं आणापेसि – ‘‘अनुमोदनं करोही’’ति. सो सिनेरुं गहेत्वा महासमुद्दं मन्थेन्तो विय पभिन्नपटिसम्भिदाप्पत्तताय तेपिटकं बुद्धवचनं सङ्खोभेन्तो सत्थु अज्झासयं गण्हन्तो अनुमोदनं अकासि. तथा उपनिस्सयसम्पन्नोपि चायमायस्मा तथारूपाय कम्मपिलोतिकाय परिबाधितो चतुप्पदिकं गाथं चतूहिपि मासेहि गहेतुं नासक्खि. तं पनस्स उपनिस्सयसम्पत्तिं ओलोकेत्वा सत्था पुब्बचरियानुरूपं योनिसोमनसिकारे नियोजेसि. तथा हि भगवा तदा जीवकस्स निवेसने निसिन्नो एव ‘‘चूळपन्थकस्स चित्तं समाहितं, वीथिपटिपन्ना विपस्सना’’ति ञत्वा यथानिसिन्नोव अत्तानं दस्सेत्वा, ‘‘पन्थक, यदिपायं पिलोतिका संकिलिट्ठा रजानुकिण्णा, इतो पन अञ्ञो एव अरियस्स विनये संकिलेसो रजो चाति दस्सेन्तो –

‘‘रागो रजो न च पन रेणु वुच्चति, रागस्सेतं अधिवचनं रजोति;

एतं रजं विप्पजहित्वा भिक्खवो, विहरन्ति ते वीतरजस्स सासने.

‘‘दोसो रजो…पे… सासने.

‘‘मोहो रजो…पे… वीतरजस्स सासने’’ति. –

इमा तिस्सो ओभासगाथा अभासि. गाथापरियोसाने चूळपन्थको अभिञ्ञापटिसम्भिदापरिवारं अरहत्तं पापुणीति.

चूळपन्थकत्थेरगाथावण्णना निट्ठिता.