३. पुण्णकसुत्तवण्णना
१०५०. अनेजन्ति पुण्णकसुत्तं. इमम्पि पुरिमनयेनेव मोघराजानं पटिक्खिपित्वा वुत्तं. तत्थ मूलदस्साविन्ति अकुसलमूलादिदस्साविं. इसयोति इसिनामका जटिला. यञ्ञन्ति देय्यधम्मं. अकप्पयिंसूति परियेसन्ति.
१०५१. आसीसमानाति रूपादीनि पत्थयमाना. इत्थत्तन्ति इत्थभावञ्च पत्थयमाना, मनुस्सादिभावं इच्छन्ताति वुत्तं होति. जरं सिताति जरं निस्सिता. जरामुखेन चेत्थ सब्बवट्टदुक्खं वुत्तं. तेन वट्टदुक्खनिस्सिता ततो अपरिमुच्चमाना एव कप्पयिंसूति दीपेति.
१०५२. कच्चिस्सु ते भगवा यञ्ञपथे अप्पमत्ता, अतारुं जातिञ्च जरञ्च मारिसाति एत्थ यञ्ञोयेव यञ्ञपथो. इदं वुत्तं होति – कच्चि ते यञ्ञे अप्पमत्ता हुत्वा यञ्ञं कप्पयन्ता वट्टदुक्खमतरिंसूति.
१०५३. आसीसन्तीति रूपपटिलाभादयो पत्थेन्ति. थोमयन्तीति ‘‘सुयिट्ठं सुचि दिन्न’’न्तिआदिना नयेन यञ्ञादीनि पसंसन्ति. अभिजप्पन्तीति रूपादिपटिलाभाय वाचं भिन्दन्ति. जुहन्तीति देन्ति. कामाभिजप्पन्ति पटिच्च लाभन्ति रूपादिपटिलाभं पटिच्च पुनप्पुनं कामे एव अभिजप्पन्ति, ‘‘अहो वत अम्हाकं सियु’’न्ति वदन्ति, तण्हञ्च तत्थ वड्ढेन्तीति वुत्तं होति. याजयोगाति यागाधिमुत्ता. भवरागरत्ताति एवमिमेहि आसीसनादीहि भवरागेनेव रत्ता, भवरागरत्ता वा हुत्वा एतानि आसीसनादीनि करोन्ता नातरिंसु जातिआदिवट्टदुक्खं न उत्तरिंसूति.
१०५४-५. अथकोचरहीति अथ इदानि को अञ्ञो अतारीति. सङ्खायाति ञाणेन वीमंसित्वा. परोपरानीति परानि च ओरानि च, परत्तभावसकत्तभावादीनि परानि च ओरानि चाति वुत्तं होति. विधूमोति कायदुच्चरितादिधूमविरहितो. अनीघोति रागादिईघविरहितो. अतारि सोति सो एवरूपो अरहा जातिजरं अतारि. सेसमेत्थ पाकटमेव.
एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने अयम्पि ब्राह्मणो अरहत्ते पतिट्ठासि सद्धिं अन्तेवासिसहस्सेन, अञ्ञेसञ्च अनेकसतानं धम्मचक्खुं उदपादि. सेसं वुत्तसदिसमेवाति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय पुण्णकसुत्तवण्णना निट्ठिता.