१४. पोसालसुत्तवण्णना

१११९-२०. यो अतीतन्ति पोसालसुत्तं. तत्थ यो अतीतं आदिसतीति यो भगवा अत्तनो च परेसञ्च ‘‘एकम्पि जाति’’न्तिआदिभेदं अतीतं आदिसति. विभूतरूपसञ्ञिस्साति समतिक्कन्तरूपसञ्ञिस्स. सब्बकायप्पहायिनोति तदङ्गविक्खम्भनवसेन सब्बरूपकायप्पहायिनो, पहीनरूपभवपटिसन्धिकस्साति अधिप्पायो. नत्थि किञ्चीति पस्सतोति विञ्ञाणाभावविपस्सनेन ‘‘नत्थि किञ्ची’’ति पस्सतो, आकिञ्चञ्ञायतनलाभिनोति वुत्तं होति. ञाणं सक्कानुपुच्छामीति सक्काति भगवन्तं आलपन्तो आह. तस्स पुग्गलस्स ञाणं पुच्छामि, कीदिसं पुच्छितब्बन्ति. कथं नेय्योति कथं सो नेतब्बो, कथमस्स उत्तरिञाणं उप्पादेतब्बन्ति.

११२१. अथस्स भगवा तादिसे पुग्गले अत्तनो अप्पटिहतञाणतं पकासेत्वा तं ञाणं ब्याकातुं गाथाद्वयमाह. तत्थ विञ्ञाणट्ठितियो सब्बा, अभिजानं तथागतोति अभिसङ्खारवसेन चतस्सो पटिसन्धिवसेन सत्ताति एवं सब्बा विञ्ञाणट्ठितियो अभिजानन्तो तथागतो. तिट्ठन्तमेनं जानातीति कम्माभिसङ्खारवसेन तिट्ठन्तं एतं पुग्गलं जानाति ‘‘आयतिं अयं एवंगतिको भविस्सती’’ति. विमुत्तन्ति आकिञ्चञ्ञायतनादीसु अधिमुत्तं. तप्परायणन्ति तम्मयं.

११२२. आकिञ्चञ्ञसम्भवं ञत्वाति आकिञ्चञ्ञायतनजनकं कम्माभिसङ्खारं ञत्वा ‘‘किन्ति पलिबोधो अय’’न्ति. नन्दी संयोजनं इतीति या च तत्थ अरूपरागसङ्खाता नन्दी, तञ्च संयोजनं इति ञत्वा. ततो तत्थ विपस्सतीति ततो आकिञ्चञ्ञायतनसमापत्तितो वुट्ठहित्वा तं समापत्तिं अनिच्चादिवसेन विपस्सति. एतं ञाणं तथं तस्साति एतं तस्स पुग्गलस्स एवं विपस्सतो अनुक्कमेनेव उप्पन्नं अरहत्तञाणं अविपरीतं. वुसीमतोति वुसितवन्तस्स. सेसं सब्बत्थ पाकटमेव.

एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च पुब्बसदिसो एव धम्माभिसमयो अहोसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय पोसालसुत्तवण्णना निट्ठिता.