१२. चूळब्यूहसुत्तवण्णना

८८५-६. सकंसकंदिट्ठिपरिब्बसानाति चूळब्यूहसुत्तं. का उप्पत्ति? इदम्पि तस्मिंयेव महासमये ‘‘सब्बेपि इमे दिट्ठिगतिका ‘साधुरूपम्हा’ति भणन्ति, किं नु खो साधुरूपाव इमे अत्तनोयेव दिट्ठिया पतिट्ठहन्ति, उदाहु अञ्ञम्पि दिट्ठिं गण्हन्ती’’ति उप्पन्नचित्तानं एकच्चानं देवतानं तमत्थं पकासेतुं पुरिमनयेनेव निम्मितबुद्धेन अत्तानं पुच्छापेत्वा वुत्तं.

तत्थ आदितो द्वेपि गाथा पुच्छागाथायेव. तासु सकंसकंदिट्ठिपरिब्बसानाति अत्तनो अत्तनो दिट्ठिया वसमाना. विग्गय्ह नाना कुसला वदन्तीति दिट्ठिबलग्गाहं गहेत्वा, तत्थ ‘‘कुसलाम्हा’’ति पटिजानमाना पुथु पुथु वदन्ति एकं न वदन्ति. यो एवं जानाति स वेदि धम्मं इदं पटिकोसमकेवली सोति तञ्च दिट्ठिं सन्धाय यो एवं जानाति, सो धम्मं वेदि. इदं पन पटिक्कोसन्तो हीनो होतीति वदन्ति. बालोति हीनो. अक्कुसलोति अविद्वा.

८८७-८. इदानि तिस्सो विस्सज्जनगाथा होन्ति. ता पुरिमड्ढेन वुत्तमत्थं पच्छिमड्ढेन पटिब्यूहित्वा ठिता. तेन ब्यूहेन उत्तरसुत्ततो च अप्पकत्ता इदं सुत्तं ‘‘चूळब्यूह’’न्ति नामं लभति. तत्थ परस्स चे धम्मन्ति परस्स दिट्ठिं. सब्बेव बालाति एवं सन्ते सब्बेव इमे बाला होन्तीति अधिप्पायो. किं कारणं? सब्बेविमे दिट्ठिपरिब्बसानाति सन्दिट्ठिया चेव न वीवदाता. संसुद्धपञ्ञा कुसला मुतीमाति सकाय दिट्ठिया न विवदाता न वोदाता संकिलिट्ठाव समाना संसुद्धपञ्ञा च कुसला च मुतिमन्तो च ते होन्ति चे. अथ वा ‘‘सन्दिट्ठिया चे पन वीवदाता’’ तिपि पाठो. तस्सत्थो – सकाय पन दिट्ठिया वोदाता संसुद्धपञ्ञा कुसला मुतिमन्तो होन्ति चे. न तेसं कोचीति एवं सन्ते तेसं एकोपि हीनपञ्ञो न होति. किंकारणा? दिट्ठी हि तेसम्पि तथा समत्ता, यथा इतरेसन्ति.

८८९. न वाहमेतन्ति गाथाय सङ्खेपत्थो – यं ते मिथु द्वे द्वे जना अञ्ञमञ्ञं ‘‘बालो’’ति आहु, अहं एतं तथियं तच्छन्ति नेव ब्रूमि. किंकारणा? यस्मा सब्बे ते सकं सकं दिट्ठिं ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति अकंसु. तेन च कारणेन परं ‘‘बालो’’ति दहन्ति. एत्थ च ‘‘तथिय’’न्ति ‘‘कथिव’’न्ति द्वेपि पाठा.

८९०. यमाहूति पुच्छागाथाय यं दिट्ठिसच्चं तथियन्ति एके आहु.

८९१. एकञ्हि सच्चन्ति विस्सज्जनगाथाय एकं सच्चं निरोधो मग्गो वा. यस्मिं पजा नो विवदे पजानन्ति यम्हि सच्चे पजानन्तो पजा नो विवदेय्य. सयं थुनन्तीति अत्तना वदन्ति.

८९२. कस्मा नूति पुच्छागाथाय पवादियासेति वादिनो. उदाहु ते तक्कमनुस्सरन्तीति ते वादिनो उदाहु अत्तनो तक्कमत्तं अनुगच्छन्ति.

८९३. न हेवाति विस्सज्जनगाथाय अञ्ञत्र सञ्ञाय निच्चानीति ठपेत्वा सञ्ञामत्तेन निच्चन्ति गहितग्गहणानि. तक्कञ्च दिट्ठीसु पकप्पयित्वाति अत्तनो मिच्छासङ्कप्पमत्तं दिट्ठीसु जनेत्वा. यस्मा पन दिट्ठीसु वितक्कं जनेन्ता दिट्ठियोपि जनेन्ति, तस्मा निद्देसे वुत्तं ‘‘दिट्ठिगतानि जनेन्ति सञ्जनेन्ती’’तिआदि (महानि. १२१).

८९४-५. इदानि एवं नानासच्चेसु असन्तेसु तक्कमत्तमनुस्सरन्तानं दिट्ठिगतिकानं विप्पटिपत्तिं दस्सेतुं ‘‘दिट्ठे सुते’’तिआदिका गाथायो अभासि. तत्थ दिट्ठेति दिट्ठं, दिट्ठसुद्धिन्ति अधिप्पायो. एस नयो सुतादीसु. एते च निस्साय विमानदस्सीति एते दिट्ठिधम्मे निस्सयित्वा सुद्धिभावसङ्खातं विमानं असम्मानं पस्सन्तोपि. विनिच्छये ठत्वा पहस्समानो, बालो परो अक्कुसलोति चाहाति एवं विमानदस्सीपि तस्मिं दिट्ठिविनिच्छये ठत्वा तुट्ठिजातो हासजातो हुत्वा ‘‘परो हीनो च अविद्वा चा’’ति एवं वदतियेव. एवं सन्ते येनेवाति गाथा. तत्थ सयमत्तनाति सयमेव अत्तानं. विमानेतीति गरहति. तदेव पावाति तदेव वचनं दिट्ठिं वदति, तं वा पुग्गलं.

८९६. अतिसारदिट्ठियाति गाथायत्थो – सो एवं ताय लक्खणातिसारिनिया अतिसारदिट्ठिया समत्तो पुण्णो उद्धुमातो, तेन च दिट्ठिमानेन मत्तो ‘‘परिपुण्णो अहं केवली’’ति एवं परिपुण्णमानी सयमेव अत्तानं मनसा ‘‘अहं पण्डितो’’ति अभिसिञ्चति. किंकारणा? दिट्ठी हि सा तस्स तथा समत्ताति.

८९७. परस्स चेति गाथाय सम्बन्धो अत्थो च – किञ्च भिय्यो? यो सो विनिच्छये ठत्वा पहस्समानो ‘‘बालो परो अक्कुसलो’’ति चाह. तस्स परस्स चे हि वचसा सो तेन वुच्चमानो निहीनो होति. तुमो सहा होति निहीनपञ्ञो, सोपि तेनेव सह निहीनपञ्ञो होति. सोपि हि नं ‘‘बालो’’ति वदति. अथस्स वचनं अप्पमाणं, सो पन सयमेव वेदगू च धीरो च होति. एवं सन्ते न कोचि बालो समणेसु अत्थि. सब्बेपि हि ते अत्तनो इच्छाय पण्डिता.

८९८. अञ्ञं इतोति गाथाय सम्बन्धो अत्थो च – ‘‘अथ चे सयं वेदगू होति धीरो, न कोचि बालो समणेसु अत्थी’’ति एवञ्हि वुत्तेपि सिया कस्सचि ‘‘कस्मा’’ति. तत्थ वुच्चते – यस्मा अञ्ञं इतो याभिवदन्ति धम्मं अपरद्धा सुद्धिमकेवली ते, एवम्पि तित्थिया पुथुसो वदन्ति, ये इतो अञ्ञं दिट्ठिं अभिवदन्ति, ये अपरद्धा विरद्धा सुद्धिमग्गं, अकेवलिनो च तेति एवं पुथुतित्थिया यस्मा वदन्तीति वुत्तं होति. कस्मा पनेवं वदन्तीति चे? सन्दिट्ठिरागेन हि ते भिरत्ता, यस्मा सकेन दिट्ठिरागेन अभिरत्ताति वुत्तं होति.

८९९-९००. एवं अभिरत्ता च – इधेव सुद्धिन्ति गाथा. तत्थ सकायनेति सकमग्गे दळ्हं वदानाति दळ्हवादा. एवञ्च दळ्हवादेसु तेसु यो कोचि तित्थियो सकायने वापि दळ्हं वदानो कमेत्थ बालोति परं दहेय्य, सङ्खेपतो तत्थ सस्सतुच्छेदसङ्खाते वित्थारतो वा नत्थिकइस्सरकारणनियतादिभेदे सके आयतने ‘‘इदमेव सच्च’’न्ति दळ्हं वदानो कं परं एत्थ दिट्ठिगते ‘‘बालो’’ति सह धम्मेन पस्सेय्य, ननु सब्बोपि तस्स मतेन पण्डितो एव सुप्पटिपन्नो एव च. एवं सन्ते च सयमेव सो मेधगमावहेय्य परं वदं बालमसुद्धिधम्मं, सोपि परं ‘‘बालो च असुद्धिधम्मो च अय’’न्ति वदन्तो अत्तनाव कलहं आवहेय्य. कस्मा? यस्मा सब्बोपि तस्स मतेन पण्डितो एव सुप्पटिपन्नो एव च.

९०१. एवं सब्बथापि विनिच्छये ठत्वा सयं पमाय उद्धंस लोकस्मिं विवादमेति, दिट्ठियं ठत्वा सयञ्च सत्थारादीनि मिनित्वा सो भिय्यो विवादमेतीति. एवं पन विनिच्छयेसु आदीनवं ञत्वा अरियमग्गेन हित्वान सब्बानि विनिच्छयानि न मेधगं कुब्बति जन्तु लोकेति अरहत्तनिकूटेन देसनं निट्ठापेसि. देसनापरियोसाने पुराभेदसुत्ते वुत्तसदिसो एवाभिसमयो अहोसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय चूळब्यूहसुत्तवण्णना निट्ठिता.