८. धम्मसुत्त-(नावासुत्त)-वण्णना

३१९. यस्मा हि धम्मन्ति धम्मसुत्तं, ‘‘नावासुत्त’’न्तिपि वुच्चति. का उप्पत्ति? इदं सुत्तं आयस्मन्तं सारिपुत्तत्थेरं आरब्भ वुत्तं. अयमेत्थ सङ्खेपो, वित्थारो पन द्विन्नं अग्गसावकानं उप्पत्तितो पभुति वेदितब्बो. सेय्यथिदं – अनुप्पन्ने किर भगवति द्वे अग्गसावका एकं असङ्ख्येय्यं कप्पसतसहस्सञ्च पारमियो पूरेत्वा देवलोके निब्बत्ता. तेसं पठमो चवित्वा राजगहस्स अविदूरे उपतिस्सगामो नाम ब्राह्मणानं भोगगामो अत्थि, तत्थ सट्ठिअधिकपञ्चकोटिसतधनविभवस्स गामसामिनो ब्राह्मणस्स रूपसारी नाम ब्राह्मणी, तस्सा कुच्छियं पटिसन्धिं अग्गहेसि. दुतियो तस्सेवाविदूरे कोलितगामो नाम ब्राह्मणानं भोगगामो अत्थि. तत्थ तथारूपविभवस्सेव गामसामिनो ब्राह्मणस्स मोग्गल्लानी नाम ब्राह्मणी, तस्सा कुच्छियं तं दिवसमेव पटिसन्धिं अग्गहेसि. एवं तेसं एकदिवसमेव पटिसन्धिग्गहणञ्च गब्भवुट्ठानञ्च अहोसि. एकदिवसेयेव च नेसं एकस्स उपतिस्सगामे जातत्ता उपतिस्सो, एकस्स कोलितगामे जातत्ता कोलितोति नाममकंसु.

ते सहपंसुं कीळन्ता सहायका अनुपुब्बेन वुड्ढिं पापुणिंसु, एकमेकस्स च पञ्चपञ्चमाणवकसतानि परिवारा अहेसुं. ते उय्यानं वा नदीतित्थं वा गच्छन्ता सपरिवारायेव गच्छन्ति. एको पञ्चहि सुवण्णसिविकासतेहि, दुतियो पञ्चहि आजञ्ञरथसतेहि. तदा च राजगहे कालानुकालं गिरग्गसमज्जो नाम होति. सायन्हसमये नगरवेमज्झे यत्थ सकलअङ्गमगधवासिनो अभिञ्ञाता खत्तियकुमारादयो सन्निपतित्वा सुपञ्ञत्तेसु मञ्चपीठादीसु निसिन्ना समज्जविभूतिं पस्सन्ति. अथ ते सहायका तेन परिवारेन सद्धिं तत्थ गन्त्वा पञ्ञत्तासनेसु निसीदिंसु. ततो उपतिस्सो समज्जविभूतिं पस्सन्तो महाजनकायं सन्निपतितं दिस्वा ‘‘एत्तको जनकायो वस्ससतं अप्पत्वाव मरिस्सती’’ति चिन्तेसि. तस्स मरणं आगन्त्वा नलाटन्ते पतिट्ठितं विय अहोसि, तथा कोलितस्स. तेसं अनेकप्पकारेसु नटेसु नच्चन्तेसु दस्सनमत्तेपि चित्तं न नमि, अञ्ञदत्थु संवेगोयेव उदपादि.

अथ वुट्ठिते समज्जे पक्कन्ताय परिसाय सकपरिवारेन पक्कन्तेसु तेसु सहायेसु कोलितो उपतिस्सं पुच्छि – ‘‘किं, सम्म, नाटकादिदस्सनेन तव पमोदनमत्तम्पि नाहोसी’’ति? सो तस्स तं पवत्तिं आरोचेत्वा तम्पि तथेव पटिपुच्छि. सोपि तस्स अत्तनो पवत्तिं आरोचेत्वा ‘‘एहि, सम्म, पब्बजित्वा अमतं गवेसामा’’ति आह. ‘‘साधु सम्मा’’ति उपतिस्सो तं सम्पटिच्छि. ततो द्वेपि जना तं सम्पत्तिं छड्डेत्वा पुनदेव राजगहमनुप्पत्ता. तेन च समयेन राजगहे सञ्चयो नाम परिब्बाजको पटिवसति. ते तस्स सन्तिके पञ्चहि माणवकसतेहि सद्धिं पब्बजित्वा कतिपाहेनेव तयो वेदे सब्बञ्च परिब्बाजकसमयं उग्गहेसुं. ते तेसं सत्थानं आदिमज्झपरियोसानं उपपरिक्खन्ता परियोसानं अदिस्वा आचरियं पुच्छिंसु – ‘‘इमेसं सत्थानं आदिमज्झं दिस्सति, परियोसानं पन न दिस्सति ‘इदं नाम इमेहि सत्थेहि पापुणेय्याति, यतो उत्तरि पापुणितब्बं नत्थी’’’ति. सोपि आह – ‘‘अहम्पि तेसं तथाविधं परियोसानं न पस्सामी’’ति. ते आहंसु – ‘‘तेन हि मयं इमेसं परियोसानं गवेसामा’’ति. ते आचरियो ‘‘यथासुखं गवेसथा’’ति आह. एवं ते तेन अनुञ्ञाता अमतं गवेसमाना आहिण्डन्ता जम्बुदीपे पाकटा अहेसुं. तेहि खत्तियपण्डितादयो पञ्हं पुट्ठा उत्तरुत्तरिं न सम्पायन्ति. ‘‘उपतिस्सो कोलितो’’ति वुत्ते पन ‘‘के एते, न खो मयं जानामा’’ति भणन्ता नत्थि, एवं विस्सुता अहेसुं.

एवं तेसु अमतपरियेसनं चरमानेसु अम्हाकं भगवा लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को अनुपुब्बेन राजगहमनुप्पत्तो. ते च परिब्बाजका सकलजम्बुदीपं चरित्वा तिट्ठतु अमतं, अन्तमसो परियोसानपञ्हविस्सज्जनमत्तम्पि अलभन्ता पुनदेव राजगहं अगमंसु. अथ खो आयस्मा अस्सजि पुब्बण्हसमयं निवासेत्वाति याव तेसं पब्बज्जा, ताव सब्बं पब्बज्जाक्खन्धके (महाव. ६०) आगतनयेनेव वित्थारतो दट्ठब्बं.

एवं पब्बजितेसु तेसु द्वीसु सहायकेसु आयस्मा सारिपुत्तो अड्ढमासेन सावकपारमीञाणं सच्छाकासि. सो यदा अस्सजित्थेरेन सद्धिं एकविहारे वसति, तदा भगवतो उपट्ठानं गन्त्वा अनन्तरं थेरस्स उपट्ठानं गच्छति ‘‘पुब्बाचरियो मे अयमायस्मा, एतमहं निस्साय भगवतो सासनं अञ्ञासि’’न्ति गारवेन. यदा पन अस्सजित्थेरेन सद्धिं एकविहारे न वसति, तदा यस्सं दिसायं थेरो वसति, तं दिसं ओलोकेत्वा पञ्चपतिट्ठितेन वन्दित्वा अञ्जलिं पग्गय्ह नमस्सति. तं दिस्वा केचि भिक्खू कथं समुट्ठापेसुं – ‘‘सारिपुत्तो अग्गसावको हुत्वा दिसं नमस्सति, अज्जापि मञ्ञे ब्राह्मणदिट्ठि अप्पहीना’’ति. अथ भगवा दिब्बाय सोतधातुया तं कथासल्लापं सुत्वा पञ्ञत्तवरबुद्धासने निसिन्नंयेव अत्तानं दस्सेन्तो भिक्खू आमन्तेसि – ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति? ते तं पवत्तिं आचिक्खिंसु. ततो भगवा ‘‘न, भिक्खवे, सारिपुत्तो दिसं नमस्सति, यं निस्साय सासनं अञ्ञासि, तं अत्तनो आचरियं वन्दति नमस्सति सम्मानेति, आचरियपूजको, भिक्खवे, सारिपुत्तो’’ति वत्वा तत्थ सन्निपतितानं धम्मदेसनत्थं इमं सुत्तमभासि.

तत्थ यस्मा हि धम्मं पुरिसो विजञ्ञाति यतो पुग्गला पिटकत्तयप्पभेदं परियत्तिधम्मं वा, परियत्तिं सुत्वा अधिगन्तब्बं नवलोकुत्तरप्पभेदं पटिवेधधम्मं वा पुरिसो विजञ्ञा जानेय्य वेदेय्य. ‘‘यस्सा’’तिपि पाठो, सो एवत्थो. इन्दंव नं देवता पूजयेय्याति यथा सक्कं देवानमिन्दं द्वीसु देवलोकेसु देवता पूजेन्ति, एवं सो पुग्गलो तं पुग्गलं कालस्सेव वुट्ठाय उपाहनओमुञ्चनादिं सब्बं वत्तपटिवत्तं करोन्तो पूजेय्य सक्करेय्य गरुकरेय्य. किं कारणं? सो पूजितो…पे… पातुकरोति धम्मं, सो आचरियो एवं पूजितो तस्मिं अन्तेवासिम्हि पसन्नचित्तो परियत्तिपटिवेधवसेन बहुस्सुतो देसनावसेनेव परियत्तिधम्मञ्च, देसनं सुत्वा यथानुसिट्ठं पटिपत्तिया अधिगन्तब्बं पटिवेधधम्मञ्च पातुकरोति देसेति, देसनाय वा परियत्तिधम्मं, उपमावसेन अत्तना अधिगतपटिवेधधम्मं पातुकरोति.

३२०. तदट्ठिकत्वान निसम्म धीरोति एवं पसन्नेन आचरियेन पातुकतं धम्मं अट्ठिकत्वान सुणित्वा उपधारणसमत्थताय धीरो पुरिसो. धम्मानुधम्मं पटिपज्जमानोति लोकुत्तरधम्मस्स अनुलोमत्ता अनुधम्मभूतं विपस्सनं भावयमानो. विञ्ञू विभावी निपुणो च होतीति विञ्ञुतासङ्खाताय पञ्ञाय अधिगमेन विञ्ञू, विभावेत्वा परेसम्पि पाकटं कत्वा ञापनसमत्थताय विभावी, परमसुखुमत्थपटिवेधताय निपुणो च होति. यो तादिसं भजति अप्पमत्तोति यो तादिसं पुब्बे वुत्तप्पकारं बहुस्सुतं अप्पमत्तो तप्पसादनपरो हुत्वा भजति.

३२१. एवं पण्डिताचरियसेवनं पसंसित्वा इदानि बालाचरियसेवनं निन्दन्तो ‘‘खुद्दञ्च बाल’’न्ति इमं गाथमाह. तत्थ खुद्दन्ति खुद्देन कायकम्मादिना समन्नागतं, पञ्ञाभावतो बालं. अनागतत्थन्ति अनधिगतपरियत्तिपटिवेधत्थं. उसूयकन्ति इस्सामनकताय अन्तेवासिकस्स वुड्ढिं असहमानं. सेसमेत्थ पाकटमेव पदतो. अधिप्पायतो पन यो बहुचीवरादिलाभी आचरियो अन्तेवासिकानं चीवरादीनि न सक्कोति दातुं, धम्मदाने पन अनिच्चदुक्खानत्तवचनमत्तम्पि न सक्कोति. एतेहि खुद्दतादिधम्मेहि समन्नागतत्ता तं खुद्दं बालं अनागतत्थं उसूयकं आचरियं उपसेवमानो ‘‘पूतिमच्छं कुसग्गेना’’ति (इतिवु. ७६; जा. १.१५.१८३) वुत्तनयेन सयम्पि बालो होति. तस्मा इध सासने किञ्चि अप्पमत्तकम्पि परियत्तिधम्मं पटिवेधधम्मं वा अविभावयित्वा च अविजानित्वा च यस्स धम्मेसु कङ्खा, तं अतरित्वा मरणं उपेतीति एवमस्स अत्थो वेदितब्बो.

३२२-३. इदानि तस्सेवत्थस्स पाकटकरणत्थं ‘‘यथा नरो’’ति गाथाद्वयमाह. तत्थ आपगन्ति नदिं. महोदकन्ति बहुउदकं. सलिलन्ति इतो चितो च गतं, वित्थिण्णन्ति वुत्तं होति. ‘‘सरित’’न्तिपि पाठो, सो एवत्थो. सीघसोतन्ति हारहारिकं, वेगवतिन्ति वुत्तं होति. किं सोति एत्थ ‘‘सो वुय्हमानो’’ति इमिना च सोकारेन तस्स नरस्स निद्दिट्ठत्ता निपातमत्तो सोकारो. किं सूति वुत्तं होति यथा ‘‘न भविस्सामि नाम सो, विनस्सिस्सामि नाम सो’’ति. धम्मन्ति पुब्बे वुत्तं दुविधमेव. अनिसामयत्थन्ति अनिसामेत्वा अत्थं. सेसमेत्थ पाकटमेव पदतो.

अधिप्पायतो पन यथा यो कोचिदेव नरो वुत्तप्पकारं नदिं ओतरित्वा ताय नदिया वुय्हमानो अनुसोतगामी सोतमेव अनुगच्छन्तो परे पारत्थिके किं सक्खति पारं नेतुं. ‘‘सक्कती’’तिपि पाठो. तथेव दुविधम्पि धम्मं अत्तनो पञ्ञाय अविभावयित्वा बहुस्सुतानञ्च सन्तिके अत्थं अनिसामेत्वा सयं अविभावितत्ता अजानन्तो अनिसामितत्ता च अवितिण्णकङ्खो परे किं सक्खति निज्झापेतुं पेक्खापेतुन्ति एवमेत्थ अत्थो दट्ठब्बो. ‘‘सो वत, चुन्द, अत्तना पलिपपलिपन्नो’’तिआदिकञ्चेत्थ (म. नि. १.८७) सुत्तपदं अनुस्सरितब्बं.

३२४-५. एवं बालसेवनाय बालस्स परं निज्झापेतुं असमत्थताय पाकटकरणत्थं उपमं वत्वा इदानि ‘‘यो तादिसं भजति अप्पमत्तो’’ति एत्थ वुत्तस्स पण्डितस्स परे निज्झापेतुं समत्थताय पाकटकरणत्थं ‘‘यथापि नाव’’न्ति गाथाद्वयमाह. तत्थ फियेनाति दब्बिपदरेन. रित्तेनाति वेळुदण्डेन. तत्थाति तस्सं नावायं. तत्रूपयञ्ञूति तस्सा नावाय आहरणपटिहरणादिउपायजाननेन मग्गपटिपादनेन उपायञ्ञू. सिक्खितसिक्खताय सुकुसलहत्थताय च कुसलो. उप्पन्नुपद्दवपटिकारसमत्थताय मुतीमा. वेदगूति वेदसङ्खातेहि चतूहि मग्गञाणेहि गतो. भावितत्तोति तायेव मग्गभावनाय भावितचित्तो. बहुस्सुतोति पुब्बे वुत्तनयेनेव. अवेधधम्मोति अट्ठहि लोकधम्मेहि अकम्पनियसभावो. सोतावधानूपनिसूपपन्नेति सोतओदहनेन च मग्गफलानं उपनिस्सयेन च उपपन्ने. सेसं उत्तानपदत्थमेव. अधिप्पाययोजनापि सक्का पुरिमनयेनेव जानितुन्ति न वित्थारिता.

३२६. एवं पण्डितस्स परे निज्झापेतुं समत्थभावपाकटकरणत्थं उपमं वत्वा तस्सा पण्डितसेवनाय नियोजेन्तो ‘‘तस्मा हवे’’ति इमं अवसानगाथमाह. तत्रायं सङ्खेपत्थो – यस्मा उपनिस्सयसम्पन्ना पण्डितसेवनेन विसेसं पापुणन्ति, तस्मा हवे सप्पुरिसं भजेथ. कीदिसं सप्पुरिसं भजेथ? मेधाविनञ्चेव बहुस्सुतञ्च, पञ्ञासम्पत्तिया च मेधाविनं वुत्तप्पकारसुतद्वयेन च बहुस्सुतं. तादिसञ्हि भजमानो तेन भासितस्स धम्मस्स अञ्ञाय अत्थं एवं ञत्वा च यथानुसिट्ठं पटिपज्जमानो ताय पटिपत्तिया पटिवेधवसेन विञ्ञातधम्मो सो मग्गफलनिब्बानप्पभेदं लोकुत्तरसुखं लभेथ अधिगच्छेय्य पापुणेय्याति अरहत्तनिकूटेन देसनं समापेसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय धम्मसुत्तवण्णना निट्ठिता.