३. हिरिसुत्तवण्णना
हिरिं तरन्तन्ति हिरिसुत्तं. का उप्पत्ति? अनुप्पन्ने भगवति सावत्थियं अञ्ञतरो ब्राह्मणमहासालो अड्ढो अहोसि असीतिकोटिधनविभवो. तस्स एकपुत्तको अहोसि पियो मनापो. सो तं देवकुमारं विय नानप्पकारेहि सुखूपकरणेहि संवड्ढेन्तो तं सापतेय्यं तस्स अनिय्यातेत्वाव कालमकासि सद्धिं ब्राह्मणिया. ततो तस्स माणवस्स मातापितूनं अच्चयेन भण्डागारिको सारगब्भं विवरित्वा सापतेय्यं निय्यातेन्तो आह – ‘‘इदं ते, सामि, मातापितूनं सन्तकं, इदं अय्यकपय्यकानं सन्तकं, इदं सत्तकुलपरिवट्टेन आगत’’न्ति. माणवो धनं दिस्वा चिन्तेसि – ‘‘इदं धनंयेव दिस्सति, येहि पन इदं सञ्चितं, ते न दिस्सन्ति, सब्बेव मच्चुवसं गता. गच्छन्ता च न इतो किञ्चि आदाय अगमंसु, एवं नाम भोगे पहाय गन्तब्बो परलोको, न सक्का किञ्चि आदाय गन्तुं अञ्ञत्र सुचरितेन. यंनूनाहं इमं धनं परिच्चजित्वा सुचरितधनं गण्हेय्यं, यं सक्का आदाय गन्तु’’न्ति. सो दिवसे दिवसे सतसहस्सं विस्सज्जेन्तो पुन चिन्तेसि – ‘‘पहूतमिदं धनं, किं इमिना एवमप्पकेन परिच्चागेन, यंनूनाहं महादानं ददेय्य’’न्ति. सो रञ्ञो आरोचेसि – ‘‘महाराज, मम घरे एत्तकं धनं अत्थि, इच्छामि तेन महादानं दातुं. साधु, महाराज, नगरे घोसनं कारापेथा’’ति. राजा तथा कारापेसि. सो आगतागतानं भाजनानि पूरेत्वा सत्तहि दिवसेहि सब्बधनमदासि, दत्वा च चिन्तेसि – ‘‘एवं महापरिच्चागं कत्वा अयुत्तं घरे वसितुं, यंनूनाहं पब्बजेय्य’’न्ति. ततो परिजनस्स एतमत्थं आरोचेसि. ते ‘‘मा, त्वं सामि, ‘धनं परिक्खीण’न्ति चिन्तयि, मयं अप्पकेनेव कालेन नानाविधेहि उपायेहि धनसञ्चयं करिस्सामा’’ति वत्वा नानप्पकारेहि तं याचिंसु. सो तेसं याचनं अनादियित्वाव तापसपब्बज्जं पब्बजि.
तत्थ अट्ठविधा तापसा – सपुत्तभरिया, उञ्छाचारिका, सम्पत्तकालिका, अनग्गिपक्किका, अस्ममुट्ठिका, दन्तलुय्यका, पवत्तफलिका, वण्टमुत्तिका चाति (दी. नि. अट्ठ. १.२८०). तत्थ सपुत्तभरियाति पुत्तदारेन सद्धिं पब्बजित्वा कसिवणिज्जादीहि जीविकं कप्पयमाना केणियजटिलादयो. उञ्छाचारिकाति नगरद्वारे अस्समं कारापेत्वा तत्थ खत्तियब्राह्मणकुमारादयो सिप्पादीनि सिक्खापेत्वा हिरञ्ञसुवण्णं पटिक्खिपित्वा तिलतण्डुलादिकप्पियभण्डपटिग्गाहका, ते सपुत्तभरियेहि सेट्ठतरा. सम्पत्तकालिकाति आहारवेलाय सम्पत्तं आहारं गहेत्वा यापेन्ता, ते उञ्छाचारिकेहि सेट्ठतरा. अनग्गिपक्किकाति अग्गिना अपक्कपत्तफलानि खादित्वा यापेन्ता, ते सम्पत्तकालिकेहि सेट्ठतरा. अस्ममुट्ठिकाति मुट्ठिपासाणं गहेत्वा अञ्ञं वा किञ्चि वासिसत्थकादिं गहेत्वा विचरन्ता यदा छाता होन्ति, तदा सम्पत्तरुक्खतो तचं गहेत्वा खादित्वा उपोसथङ्गानि अधिट्ठाय चत्तारो ब्रह्मविहारे भावेन्ति, ते अनग्गिपक्किकेहि सेट्ठतरा. दन्तलुय्यकाति मुट्ठिपासाणादीनिपि अगहेत्वा चरन्ता खुदाकाले सम्पत्तरुक्खतो दन्तेहि उप्पाटेत्वा तचं खादित्वा उपोसथङ्गानि अधिट्ठाय ब्रह्मविहारे भावेन्ति, ते अस्ममुट्ठिकेहि सेट्ठतरा. पवत्तफलिकाति जातस्सरं वा वनसण्डं वा निस्साय वसन्ता यं तत्थ सरे भिसमुळालादि, यं वा वनसण्डे पुप्फकाले पुप्फं, फलकाले फलं, तमेव खादन्ति. पुप्फफले असति अन्तमसो तत्थ रुक्खपपटिकम्पि खादित्वा वसन्ति, न त्वेव आहारत्थाय अञ्ञत्र गच्छन्ति. उपोसथङ्गाधिट्ठानं ब्रह्मविहारभावनं च करोन्ति, ते दन्तलुय्यकेहि सेट्ठतरा. वण्टमुत्तिका नाम वण्टमुत्तानि भूमियं पतितानि पण्णानियेव खादन्ति, सेसं पुरिमसदिसमेव, ते सब्बसेट्ठा.
अयं पन ब्राह्मणकुलपुत्तो ‘‘तापसपब्बज्जासु अग्गपब्बज्जं पब्बजिस्सामी’’ति वण्टमुत्तिकपब्बज्जमेव पब्बजित्वा हिमवन्ते द्वे तयो पब्बते अतिक्कम्म अस्समं कारापेत्वा पटिवसति. अथ भगवा लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को अनुपुब्बेन सावत्थिं गन्त्वा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन सावत्थिवासी एको पुरिसो पब्बते चन्दनसारादीनि गवेसन्तो तस्स अस्समं पत्वा अभिवादेत्वा एकमन्तं अट्ठासि. सो तं दिस्वा ‘‘कुतो आगतोसी’’ति पुच्छि. ‘‘सावत्थितो, भन्ते’’ति. ‘‘का तत्थ पवत्ती’’ति? ‘‘तत्थ, भन्ते, मनुस्सा अप्पमत्ता दानादीनि पुञ्ञानि करोन्ती’’ति. ‘‘कस्स ओवादं सुत्वा’’ति? ‘‘बुद्धस्स भगवतो’’ति. तापसो बुद्धसद्दस्सवनेन विम्हितो ‘‘बुद्धोति त्वं, भो पुरिस, वदेसी’’ति आमगन्धे वुत्तनयेनेव तिक्खत्तुं पुच्छित्वा ‘‘घोसोपि खो एसो दुल्लभो’’ति अत्तमनो भगवतो सन्तिकं गन्तुकामो हुत्वा चिन्तेसि – ‘‘न युत्तं बुद्धस्स सन्तिकं तुच्छमेव गन्तुं, किं नु खो गहेत्वा गच्छेय्य’’न्ति. पुन चिन्तेसि – ‘‘बुद्धा नाम आमिसगरुका न होन्ति, हन्दाहं धम्मपण्णाकारं गहेत्वा गच्छामी’’ति चत्तारो पञ्हे अभिसङ्खरि –
‘‘कीदिसो मित्तो न सेवितब्बो, कीदिसो मित्तो सेवितब्बो;
कीदिसो पयोगो पयुञ्जितब्बो, किं रसानं अग्ग’’न्ति.
सो ते पञ्हे गहेत्वा मज्झिमदेसाभिमुखो पक्कमित्वा अनुपुब्बेन सावत्थिं पत्वा जेतवनं पविट्ठो. भगवापि तस्मिं समये धम्मदेसनत्थाय आसने निसिन्नोयेव होति. सो भगवन्तं दिस्वा अवन्दित्वाव एकमन्तं अट्ठासि. भगवा ‘‘कच्चि, इसि, खमनीय’’न्तिआदिना नयेन सम्मोदि. सोपि ‘‘खमनीयं, भो गोतमा’’तिआदिना नयेन पटिसम्मोदित्वा ‘‘यदि बुद्धो भविस्सति, मनसा पुच्छिते पञ्हे वाचाय एव विस्सज्जेस्सती’’ति मनसा एव भगवन्तं ते पञ्हे पुच्छि. भगवा ब्राह्मणेन पुट्ठो आदिपञ्हं ताव विस्सज्जेतुं हिरिं तरन्तन्ति आरभित्वा अड्ढतेय्या गाथायो आह.
२५६. तासं अत्थो – हिरिं तरन्तन्ति हिरिं अतिक्कमन्तं अहिरिकं निल्लज्जं. विजिगुच्छमानन्ति असुचिमिव पस्समानं. अहिरिको हि हिरिं जिगुच्छति असुचिमिव पस्सति, तेन नं न भजति न अल्लीयति. तेन वुत्तं ‘‘विजिगुच्छमान’’न्ति. तवाहमस्मि इति भासमानन्ति ‘‘अहं, सम्म, तव सहायो हितकामो सुखकामो, जीवितम्पि मे तुय्हं अत्थाय परिच्चत्त’’न्ति एवमादिना नयेन भासमानं. सय्हानि कम्मानि अनादियन्तन्ति एवं भासित्वापि च सय्हानि कातुं सक्कानिपि तस्स कम्मानि अनादियन्तं करणत्थाय असमादियन्तं. अथ वा चित्तेन तत्थ आदरमत्तम्पि अकरोन्तं, अपिच खो पन उप्पन्नेसु किच्चेसु ब्यसनमेव दस्सेन्तं. नेसो ममन्ति इति नं विजञ्ञाति तं एवरूपं ‘‘मित्तपटिरूपको एसो, नेसो मे मित्तो’’ति एवं पण्डितो पुरिसो विजानेय्य.
२५७. अनन्वयन्ति यं अत्थं दस्सामि, करिस्सामीति च भासति, तेन अननुगतं. पियं वाचं यो मित्तेसु पकुब्बतीति यो अतीतानागतेहि पदेहि पटिसन्थरन्तो निरत्थकेन सङ्गण्हन्तो केवलं ब्यञ्जनच्छायामत्तेनेव पियं मित्तेसु वाचं पवत्तेति. अकरोन्तं भासमानं, परिजानन्ति पण्डिताति एवरूपं यं भासति, तं अकरोन्तं, केवलं वाचाय भासमानं ‘‘वचीपरमो नामेस अमित्तो मित्तपटिरूपको’’ति एवं परिच्छिन्दित्वा पण्डिता जानन्ति.
२५८. न सो मित्तो यो सदा अप्पमत्तो, भेदासङ्की रन्धमेवानुपस्सीति यो भेदमेव आसङ्कमानो कतमधुरेन उपचारेन सदा अप्पमत्तो विहरति, यंकिञ्चि अस्सतिया अमनसिकारेन कतं, अञ्ञाणकेन वा अकतं, ‘‘यदा मं गरहिस्सति, तदा नं एतेन पटिचोदेस्सामी’’ति एवं रन्धमेव अनुपस्सति, न सो मित्तो सेवितब्बोति.
एवं भगवा ‘‘कीदिसो मित्तो न सेवितब्बो’’ति इमं आदिपञ्हं विस्सज्जेत्वा दुतियं विस्सज्जेतुं ‘‘यस्मिञ्च सेती’’ति इमं उपड्ढगाथमाह. तस्सत्थो यस्मिञ्च मित्ते मित्तो तस्स हदयमनुपविसित्वा सयनेन यथा नाम पितु उरसि पुत्तो ‘‘इमस्स मयि उरसि सयन्ते दुक्खं वा अनत्तमनता वा भवेय्या’’तिआदीहि अपरिसङ्कमानो निब्बिसङ्को हुत्वा सेति, एवमेवं दारधनजीवितादीसु विस्सासं करोन्तो मित्तभावेन निब्बिसङ्को सेति. यो च परेहि कारणसतं कारणसहस्सम्पि वत्वा अभेज्जो, स वे मित्तो सेवितब्बोति.
२५९. एवं भगवा ‘‘कीदिसो मित्तो सेवितब्बो’’ति एवं दुतियपञ्हं विस्सज्जेत्वा ततियं विस्सज्जेतुं ‘‘पामुज्जकरण’’न्ति गाथमाह. तस्सत्थो – पामुज्जं करोतीति पामुज्जकरणं. ठानन्ति कारणं. किं पन तन्ति? वीरियं. तञ्हि धम्मूपसञ्हितं पीतिपामोज्जसुखमुप्पादनतो पामुज्जकरणन्ति वुच्चति. यथाह ‘‘स्वाखाते, भिक्खवे, धम्मविनये यो आरद्धवीरियो, सो सुखं विहरती’’ति (अ. नि. १.३१९). पसंसं आवहतीति पसंसावहनं. आदितो दिब्बमानुसकसुखानं, परियोसाने निब्बानसुखस्स आवहनतो फलूपचारेन सुखं. फलं पटिकङ्खमानो फलानिसंसो. भावेतीति वड्ढेति. वहन्तो पोरिसं धुरन्ति पुरिसानुच्छविकं भारं आदाय विहरन्तो एतं सम्मप्पधानवीरियसङ्खातं ठानं भावेति, ईदिसो पयोगो सेवितब्बोति.
२६०. एवं भगवा ‘‘कीदिसो पयोगो पयुञ्जितब्बो’’ति ततियपञ्हं विस्सज्जेत्वा चतुत्थं विस्सज्जेतुं ‘‘पविवेकरस’’न्ति गाथमाह. तत्थ पविवेकोति किलेसविवेकतो जातत्ता अग्गफलं वुच्चति, तस्स रसोति अस्सादनट्ठेन तंसम्पयुत्तं सुखं. उपसमोपि किलेसूपसमन्ते जातत्ता निब्बानसङ्खातउपसमारम्मणत्ता वा तदेव, धम्मपीतिरसोपि अरियधम्मतो अनपेताय निब्बानसङ्खाते धम्मे उप्पन्नाय पीतिया रसत्ता तदेव. तं पविवेकरसं उपसमस्स च रसं पित्वा तदेव धम्मपीतिरसं पिवं निद्दरो होति निप्पापो, पिवित्वापि किलेसपरिळाहाभावेन निद्दरो, पिवन्तोपि पहीनपापत्ता निप्पापो होति, तस्मा एतं रसानमग्गन्ति. केचि पन ‘‘झाननिब्बानपच्चवेक्खणानं कायचित्तउपधिविवेकानञ्च वसेन पविवेकरसादयो तयो एव एते धम्मा’’ति योजेन्ति, पुरिममेव सुन्दरं. एवं भगवा चतुत्थपञ्हं विस्सज्जेन्तो अरहत्तनिकूटेन देसनं निट्ठापेसि. देसनापरियोसाने ब्राह्मणो भगवतो सन्तिके पब्बजित्वा कतिपाहेनेव पटिसम्भिदाप्पत्तो अरहा अहोसीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय हिरिसुत्तवण्णना निट्ठिता.
पठमो भागो निट्ठितो.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स