४. महावग्गो
१. अम्बसक्करपेतवत्थुवण्णना
वेसाली नाम नगरत्थि वज्जीनन्ति इदं अम्बसक्करपेतवत्थु. तस्स का उप्पत्ति? भगवति जेतवने विहरन्ते अम्बसक्करो नाम लिच्छविराजा मिच्छादिट्ठिको नत्थिकवादो वेसालियं रज्जं कारेसि. तेन च समयेन वेसालिनगरे अञ्ञतरस्स वाणिजस्स आपणसमीपे चिक्खल्लं होति, तत्थ बहू जना उप्पतित्वा अतिक्कमन्ता किलमन्ति, केचि कद्दमेन लिम्पन्ति. तं दिस्वा सो वाणिजो ‘‘मा इमे मनुस्सा कललं अक्कमिंसू’’ति अपगतदुग्गन्धं सङ्खवण्णपटिभागं गोसीसट्ठिं आहरापेत्वा निक्खिपापेसि. पकतिया च सीलवा अहोसि अक्कोधनो सण्हवाचो, परेसञ्च यथाभूतं गुणं कित्तेति.
सो एकस्मिं दिवसे अत्तनो सहायस्स न्हायन्तस्स पमादेन अनोलोकेन्तस्स निवासनवत्थं कीळाधिप्पायेन अपनिधाय तं दुक्खापेत्वा अदासि. भागिनेय्यो पनस्स चोरिकाय परगेहतो भण्डं आहरित्वा तस्सेव आपणे निक्खिपि. भण्डसामिका वीमंसन्ता भण्डेन सद्धिं तस्स भागिनेय्यं तञ्च रञ्ञो दस्सेसुं. राजा ‘‘इमस्स सीसं छिन्दथ, भागिनेय्यं पनस्स सूले आरोपेथा’’ति आणापेसि. राजपुरिसा तथा अकंसु. सो कालं कत्वा भुम्मदेवेसु उप्पज्जि. सो गोसीसेन सेतुनो कतत्ता सेतवण्णं दिब्बं मनोजवं अस्साजानीयं पटिलभि, गुणवन्तानं वण्णकथनेन तस्स गत्ततो दिब्बगन्धो वायति, साटकस्स पन अपनिहितत्ता नग्गो अहोसि. सो अत्तना पुब्बे कतकम्मं ओलोकेन्तो तदनुसारेन अत्तनो भागिनेय्यं सूले आरोपितं दिस्वा करुणाय चोदियमानो मनोजवं अस्सं अभिरुहित्वा अड्ढरत्तिसमये तस्स सूला रोपितट्ठानं गन्त्वा अविदूरे ठितो ‘‘जीव, भो, जीवितमेव सेय्यो’’ति दिवसे दिवसे वदति.
तेन च समयेन अम्बसक्करो राजा हत्थिक्खन्धवरगतो नगरं पदक्खिणं करोन्तो अञ्ञतरस्मिं गेहे वातपानं विवरित्वा राजविभूतिं पस्सन्तिं एकं इत्थिं दिस्वा पटिबद्धचित्तो हुत्वा पच्छासने निसिन्नस्स पुरिसस्स ‘‘इमं घरं इमञ्च इत्थिं उपधारेही’’ति सञ्ञं दत्वा अनुक्कमेन अत्तनो राजगेहं पविट्ठो तं पुरिसं पेसेसि – ‘‘गच्छ, भणे, तस्सा इत्थिया ससामिकभावं वा असामिकभावं वा जानाही’’ति. सो गन्त्वा तस्सा ससामिकभावं ञत्वा रञ्ञो आरोचेसि. राजा तस्सा इत्थिया परिग्गहणूपायं चिन्तेन्तो तस्सा सामिकं पक्कोसापेत्वा ‘‘एहि, भणे, मं उपट्ठाही’’ति आह. सो अनिच्छन्तोपि ‘‘राजा अत्तनो वचनं अकरोन्ते मयि राजदण्डं करेय्या’’ति भयेन राजुपट्ठानं सम्पटिच्छित्वा दिवसे दिवसे राजुपट्ठानं गच्छति. राजापि तस्स भत्तवेतनं दापेत्वा कतिपयदिवसातिक्कमेन पातोव उपट्ठानं आगतं एवमाह – ‘‘गच्छ, भणे, अमुम्हि ठाने एका पोक्खरणी अत्थि, ततो अरुणवण्णमत्तिकं रत्तुप्पलानि च आनेहि, सचे अज्जेव नागच्छेय्यासि, जीवितं ते नत्थी’’ति. तस्मिञ्च गते द्वारपालं आह – ‘‘अज्ज अनत्थङ्गते एव सूरिये सब्बद्वारानि थकेतब्बानी’’ति.
सा च पोक्खरणी वेसालिया तियोजनमत्थके होति, तथापि सो पुरिसो मरणभयतज्जितो वातवेगेन पुब्बण्हेयेव तं पोक्खरणिं सम्पापुणि. ‘‘सा च पोक्खरणी अमनुस्सपरिग्गहिता’’ति पगेव सुतत्ता भयेन सो ‘‘अत्थि नु खो एत्थ कोचि परिस्सयो’’ति समन्ततो अनुपरियायति. तं दिस्वा पोक्खरणिपालको अमनुस्सो करुणायमानरूपो मनुस्सरूपेन उपसङ्कमित्वा ‘‘किमत्थं, भो पुरिस, इधागतोसी’’ति आह. सो तस्स तं पवत्तिं कथेसि. सो ‘‘यदि एवं यावदत्थं गण्हाही’’ति अत्तनो दिब्बरूपं दस्सेत्वा अन्तरधायि.
सो तत्थ अरुणवण्णमत्तिकं रत्तुप्पलानि च गहेत्वा अनत्थङ्गतेयेव सूरिये नगरद्वारं सम्पापुणि. तं दिस्वा द्वारपालो तस्स विरवन्तस्सेव द्वारं थकेसि. सो थकिते द्वारे पवेसनं अलभन्तो द्वारसमीपे सूले आरोपितं पुरिसं दिस्वा ‘‘एते मयि अनत्थङ्गते एव सूरिये आगते विरवन्ते एवं द्वारं थकेसुं. ‘अहं कालेयेव आगतो, मम दासो नत्थी’ति तयापि ञातं होतू’’ति सक्खिमकासि. तं सुत्वा सो आह ‘‘अहं सूले आवुतो वज्झो मरणाभिमुखो, कथं तव सक्खि होमि. एको पनेत्थ पेतो महिद्धिको मम समीपं आगमिस्सति, तं सक्खिं करोही’’ति. ‘‘कथं पन सो मया दट्ठब्बो’’ति? इधेव त्वं तिट्ठ, ‘‘सयमेव दक्खिस्ससी’’ति. सो तत्थ ठितो मज्झिमयामे तं पेतं आगतं दिस्वा सक्खिं अकासि. विभाताय च रत्तिया रञ्ञा ‘‘मम आणा तया अतिक्कन्ता, तस्मा राजदण्डं ते करिस्सामी’’ति वुत्ते, देव, मया तव आणा नातिक्कन्ता, अनत्थङ्गते एव सूरिये अहं इधागतोति. तत्थ को ते सक्खीति? सो तस्स सूलावुतस्स पुरिसस्स सन्तिके आगच्छन्तं नग्गपेतं ‘‘सक्खी’’ति निद्दिसित्वा ‘‘कथमेतं अम्हेहि सद्धातब्ब’’न्ति रञ्ञा वुत्ते ‘‘अज्ज रत्तियं तुम्हेहि सद्धातब्बं पुरिसं मया सद्धिं पेसेथा’’ति आह. तं सुत्वा राजा सयमेव तेन सद्धिं तत्थ गन्त्वा ठितो पेतेन च तत्थागन्त्वा ‘‘जीव, भो, जीवितमेव सेय्यो’’ति वुत्ते तं ‘‘सेय्या निसज्जा नयिमस्स अत्थी’’तिआदिना पञ्चहि गाथाहि पटिपुच्छि. इदानि आदितो पन ‘‘वेसालि नाम नगरत्थि वज्जीन’’न्ति गाथा तासं सम्बन्धदस्सनत्थं सङ्गीतिकारेहि ठपिता –
५१७. ‘‘वेसाली नाम नगरत्थि वज्जीनं, तत्थ अहु लिच्छवि अम्बसक्करो;
दिस्वान पेतं नगरस्स बाहिरं, तत्थेव पुच्छित्थ तं कारणत्थिको.
५१८. ‘‘सेय्या निसज्जा नयिमस्स अत्थि, अभिक्कमो नत्थि पटिक्कमो च;
असितपीतखायितवत्थभोगा, परिचारणा सापि इमस्स नत्थि.
५१९. ‘‘ये ञातका दिट्ठसुता सुहज्जा, अनुकम्पका यस्स अहेसुं पुब्बे;
दट्ठुम्पि ते दानि न तं लभन्ति, विराजिततो हि जनेन तेन.
५२०. ‘‘न ओग्गतत्तस्स भवन्ति मित्ता, जहन्ति मित्ता विकलं विदित्वा;
अत्थञ्च दिस्वा परिवारयन्ति, बहू मित्ता उग्गतत्तस्स होन्ति.
५२१. ‘‘निहीनत्तो सब्बभोगेहि किच्छो, सम्मक्खितो सम्परिभिन्नगत्तो;
उस्सावबिन्दूव पलिम्पमाना, अज्ज सुवे जीवितस्सूपरोधो.
५२२. ‘‘एतादिसं उत्तमकिच्छप्पत्तं,
उत्तासितं पुचिमन्दस्स सूले;
अथ त्वं केन वण्णेन वदेसि यक्ख,
‘जीव भो जीवितमेव सेय्यो’’’ति.
५१७. तत्थ तत्थाति तस्सं वेसालियं. नगरस्स बाहिरन्ति नगरस्स बहि भवं, वेसालिनगरस्स बहि एव जातं पवत्तं सम्बन्धं. तत्थेवाति यत्थ तं पस्सि, तत्थेव ठाने. तन्ति तं पेतं. कारणत्थिकोति ‘‘जीव, भो, जीवितमेव सेय्यो’’ति वुत्तअत्थस्स कारणेन अत्थिको हुत्वा.
५१८. सेय्या निसज्जा नयिमस्स अत्थीति पिट्ठिपसारणलक्खणा सेय्या, पल्लङ्काभुजनलक्खणा निसज्जा च इमस्स सूले आरोपितपुग्गलस्स नत्थि. अभिक्कमो नत्थि पटिक्कमो चाति अभिक्कमादिलक्खणं अप्पमत्तकम्पि गमनं इमस्स नत्थि. परिचारिका सापीति या असितपीतखायितवत्थपरिभोगादिलक्खणा इन्द्रियानं परिचारणा, सापि इमस्स नत्थि. ‘‘परिहरणा सापी’’ति वा पाठो, असितादिपरिभोगवसेन इन्द्रियानं परिहरणा, सापि इमस्स नत्थि विगतजीवितत्ताति अत्थो. ‘‘परिचारणा सापी’’ति केचि पठन्ति.
५१९. दिट्ठसुता सुहज्जा, अनुकम्पका यस्स अहेसुं पुब्बेति सन्दिट्ठसहाया चेव अदिट्ठसहाया च यस्स मित्ता अनुद्दयावन्तो ये अस्स इमस्स पुब्बे अहेसुं. दट्ठुम्पीति पस्सितुम्पि न लभन्ति, कुतो सह वसितुन्ति अत्थो. विराजितत्तोति परिच्चत्तसभावो. जनेन तेनाति तेन ञातिआदिजनेन.
५२०. न ओग्गतत्तस्स भवन्ति मित्ताति अपगतविञ्ञाणस्स मतस्स मित्ता नाम न होन्ति तस्स मित्तेहि कातब्बकिच्चस्स अतिक्कन्तत्ता. जहन्ति मित्ता विकलं विदित्वाति मतो ताव तिट्ठतु, जीवन्तम्पि भोगविकलं पुरिसं विदित्वा ‘‘न इतो किञ्चि गय्हूपग’’न्ति मित्ता पजहन्ति. अत्थञ्च दिस्वा परिवारयन्तीति तस्स पन सन्तकं अत्थं धनं दिस्वा पियवादिनो मुखुल्लोकिका हुत्वा तं परिवारेन्ति. बहू मित्ता उग्गतत्तस्स होन्तीति विभवसम्पत्तिया उग्गतसभावस्स समिद्धस्स बहू अनेका मित्ता होन्ति, अयं लोकियसभावोति अत्थो.
५२१. निहीनत्तो सब्बभोगेहीति सब्बेहि उपभोगपरिभोगवत्थूहि परिहीनत्तो. किच्छोति दुक्खितो. सम्मक्खितोति रुहिरेहि सम्मक्खितसरीरो. सम्परिभिन्नगत्तोति सूलेन अब्भन्तरे विदालितगत्तो. उस्सावबिन्दूव पलिम्पमानोति तिणग्गे लिम्पमानउस्सावबिन्दुसदिसो. अज्ज सुवेति अज्ज वा सुवे वा इमस्स नाम पुरिसस्स जीवितस्स उपरोधो निरोधो, ततो उद्धं नप्पवत्ततीति अत्थो.
५२२. उत्तासितन्ति आवुतं आरोपितं. पुचिमन्दस्स सूलेति निम्बरुक्खस्स दण्डेन कतसूले. केन वण्णेनाति केन कारणेन. जीव, भो, जीवितमेव सेय्योति, भो पुरिस, जीव. कस्मा? सूलं आरोपितस्सापि हि ते इध जीवितमेव इतो चुतस्स जीविततो सतभागेन सहस्सभागेन सेय्यो सुन्दरतरोति.
एवं तेन रञ्ञा पुच्छितो सो पेतो अत्तनो अधिप्पायं पकासेन्तो –
५२३. ‘‘सालोहितो एस अहोसि मय्हं, अहं सरामि पुरिमाय जातिया;
दिस्वा च मे कारुञ्ञमहोसि राज, मा पापधम्मो निरयं पतायं.
५२४. ‘‘इतो चुतो लिच्छवि एस पोसो, सत्थुस्सदं निरयं घोररूपं;
उपपज्जति दुक्कटकम्मकारी, महाभितापं कटुकं भयानकं.
५२५. ‘‘अनेकभागेन गुणेन सेय्यो, अयमेव सूलो निरयेन तेन;
एकन्तदुक्खं कटुकं भयानकं, एकन्ततिब्बं निरयं पतायं.
५२६. ‘‘इदञ्च सुत्वा वचनं ममेसो, दुक्खूपनीतो विजहेय्य पाणं;
तस्मा अहं सन्तिके न भणामि, मा मेकतो जीवितस्सूपरोधो’’ति. –
चतस्सो गाथा अभासि.
५२३. तत्थ सालोहितो समानलोहितो योनिसम्बन्धेन सम्बन्धो, ञातकोति अत्थो. पुरिमाय जातियाति पुरिमत्तभावे. मा पापधम्मो निरयं पतायन्ति अयं पापधम्मो पुरिसो निरयं मा पति, मा निरयं उपपज्जीति इमं दिस्वा मे कारुञ्ञं अहोसीति योजना.
५२४. सत्तुस्सदन्ति पापकारीहि सत्तेहि उस्सन्नं, अथ वा पञ्चविधबन्धनं, मुखे तत्तलोहसेचनं, अङ्गारपब्बतारोपनं, लोहकुम्भिपक्खेपनं, असिपत्तवनप्पवेसनं, वेत्तरणियं समोतरणं, महानिरये पक्खेपोति. इमेहि सत्तहि पञ्चविधबन्धनादीहि दारुणकारणेहि उस्सन्नं, उपरूपरि निचितन्ति अत्थो. महाभितापन्ति महादुक्खं, महाअग्गिसन्तापं वा. कटुकन्ति अनिट्ठं. भयानकन्ति भयजनकं.
५२५. अनेकभागेन गुणेनाति अनेककोट्ठासेन आनिसंसेन. अयमेव सूलो निरयेन तेनाति ततो इमस्स उप्पत्तिट्ठानभूततो निरयतो अयमेव सूलो सेय्योति. निस्सक्के हि इदं करणवचनं. एकन्त तिब्बन्ति एकन्तेनेव तिखिणदुक्खं, नियतमहादुक्खन्ति अत्थो.
५२६. इदञ्च सुत्वा वचनं ममेसोति ‘‘इतो चुतो’’तिआदिना वुत्तं मम वचनं सुत्वा एसो पुरिसो दुक्खूपनीतो मम वचनेन निरयदुक्खं उपनीतो विय हुत्वा. विजहेय्य पाणन्ति अत्तनो जीवितं परिच्चजेय्य. तस्माति तेन कारणेन. मा मेकतोति ‘‘मया एकतो इमस्स पुरिसस्स जीवितस्स उपरोधो मा होतू’’ति इमस्स सन्तिके इदं वचनं अहं न भणामि, अथ खो ‘‘जीव, भो, जीवितमेव सेय्यो’’ति इदमेव भणामीति अधिप्पायो.
एवं पेतेन अत्तनो अधिप्पाये पकासिते पुन राजा पेतस्स पवत्तिं पुच्छितुं ओकासं करोन्तो इमं गाथमाह –
५२७. ‘‘अञ्ञातो एसो पुरिसस्स अत्थो, अञ्ञम्पि इच्छामसे पुच्छितुं तुवं;
ओकासकम्मं सचे नो करोसि, पुच्छाम तं नो न च कुज्झितब्ब’’न्ति.
५२८. ‘‘अद्धा पटिञ्ञा मे तदा अहु, नाचिक्खणा अप्पसन्नस्स होति;
अकामा सद्धेय्यवचोति कत्वा, पुच्छस्सु मं कामं यथा विसय्ह’’न्ति. –
इमा रञ्ञो पेतस्स च वचनपटिवचनगाथा.
५२७. तत्थ अञ्ञातोति अवगतो. इच्छामसेति इच्छाम. नोति अम्हाकं. न च कुज्झितब्बन्ति ‘‘इमे मनुस्सा यंकिञ्चि पुच्छन्ती’’ति कोधो न कातब्बो.
५२८. अद्धाति एकंसेन. पटिञ्ञा मेति ञाणवसेन मय्हं ‘‘पुच्छस्सू’’ति पटिञ्ञा, ओकासदानन्ति अत्थो. तदा अहूति तस्मिं काले पठमदस्सने अहोसि. नाचिक्खणा अप्पसन्नस्स होतीति अकथना अप्पसन्नस्स होति. पसन्नो एव हि पसन्नस्स किञ्चि कथेति. त्वं पन तदा मयि अप्पसन्नो, अहञ्च तयि, तेन पटिजानित्वा कथेतुकामो नाहोसि. इदानि पनाहं तुय्हं अकामा सद्धेय्यवचो अकामो एव सद्धातब्बवचनो इति कत्वा इमिना कारणेन. पुच्छस्सु मं कामं यथा विसय्हन्ति त्वं यथा इच्छसि, तमत्थं मं पुच्छस्सु. अहं पन यथा विसय्हं यथा मय्हं सहितुं सक्का, तथा अत्तनो ञाणबलानुरूपं कथेस्सामीति अधिप्पायो.
एवं पेतेन पुच्छनाय ओकासे कते राजा –
५२९. ‘‘यं किञ्चहं चक्खुना पस्सिसामि,
सब्बम्पि ताहं अभिसद्दहेय्यं;
दिस्वाव तं नोपि चे सद्दहेय्यं,
करेय्यासि मे यक्ख नियस्सकम्म’’न्ति. –
गाथमाह. तस्सत्थो – अहं यं किञ्चिदेव चक्खुना पस्सिस्सामि, तं सब्बम्पि तथेव अहं अभिसद्दहेय्यं, तं पन दिस्वाव तं वचनं नोपि चे सद्दहेय्यं. यक्ख, मय्हं नियस्सकम्मं निग्गहकम्मं करेय्यासीति. अथ वा यं किञ्चहं चक्खुना पस्सिस्सामीति अहं यं किञ्चिदेव चक्खुना पस्सिस्सामि अचक्खुगोचरस्स अदस्सनतो. सब्बम्पि ताहं अभिसद्दहेय्यन्ति सब्बम्पि ते अहं दिट्ठं सुतं अञ्ञं वा अभिसद्दहेय्यं. तादिसो हि मय्हं तयि अभिप्पसादोति अधिप्पायो. पच्छिमपदस्स पन यथावुत्तोव अत्थो.
तं सुत्वा पेतो –
५३०. ‘‘सच्चप्पटिञ्ञा तव मेसा होतु, सुत्वान धम्मं लभ सुप्पसादं;
अञ्ञत्थिको नो च पदुट्ठचित्तो, यं ते सुतं असुतञ्चापि धम्मं;
सब्बम्पि अक्खिस्सं यथा पजान’’न्ति. – गाथमाह; इतो परं –
५३१. ‘‘सेतेन अस्सेन अलङ्कतेन, उपयासि सूलावुतकस्स सन्तिके;
यानं इदं अब्भुतं दस्सनेय्यं, किस्सेतं कम्मस्स अयं विपाकोति.
५३२. ‘‘वेसालिया नगरस्स मज्झे, चिक्खल्लमग्गे नरकं अहोसि;
गोसीसमेकाहं पसन्नचित्तो, सेतं गहेत्वा नरकस्मिं निक्खिपिं.
५३३. ‘‘एतस्मिं पादानि पतिट्ठपेत्वा, मयञ्च अञ्ञे च अतिक्कमिम्हा;
यानं इदं अब्भुतं दस्सनेय्यं, तस्सेव कम्मस्स अयं विपाकोति.
५३४. ‘‘वण्णो च ते सब्बदिसा पभासति, गन्धो च ते सब्बदिसा पवायति;
यक्खिद्धिपत्तोसि महानुभावो, नग्गो चासि किस्स अयं विपाकोति.
५३५. ‘‘अक्कोधनो निच्चपसन्नचित्तो, सण्हाहि वाचाहि जनं उपेमि;
तस्सेव कम्मस्स अयं विपाको, दिब्बो मे वण्णो सततं पभासति.
५३६. ‘‘यसञ्च कित्तिञ्च धम्मे ठितानं, दिस्वान मन्तेमि पसन्नचित्तो;
तस्सेव कम्मस्स अयं विपाको, दिब्बो मे गन्धो सततं पवायति.
५३७. ‘‘सहायानं तित्थस्मिं न्हायन्तानं, थले गहेत्वा निदहिस्स दुस्सं;
खिड्डत्थिको नो च पदुट्ठचित्तो, तेनम्हि नग्गो कसिरा च वुत्तीति.
५३८. ‘‘यो कीळमानो पकरोति पापं, तस्सेदिसं कम्मविपाकमाहु;
अकीळमानो पन यो करोति, किं तस्स कम्मस्स विपाकमाहूति.
५३९. ‘‘ये दुट्ठसङ्कप्पमना मनुस्सा, कायेन वाचाय च संकिलिट्ठा;
कायस्स भेदा अभिसम्परायं, असंसयं ते निरयं उपेन्ति.
५४०. ‘‘अपरे पन सुगतिमासमाना, दाने रता सङ्गहितत्तभावा;
कायस्स भेदा अभिसम्परायं, असंसयं ते सुगतिं उपेन्ती’’ति. –
तेसं उभिन्नं वचनपटिवचनगाथा होन्ति.
५३०. तत्थ सच्चप्पटिञ्ञा तव मेसा होतूति ‘‘सब्बम्पि ताहं अभिसद्दहेय्य’’न्ति तव एसा पटिञ्ञा मय्हं सच्चं होतु. सुत्वान धम्मं लभ सुप्पसादन्ति मया वुच्चमानं धम्मं सुत्वा सुन्दरं पसादं लभस्सु. अञ्ञत्थिकोति आजाननत्थिको. यथा पजानन्ति यथा अञ्ञोपि पजानन्तो, ‘‘यथापि ञात’’न्ति वा मया यथा ञातन्ति अत्थो.
५३१. किस्सेतं कम्मस्स अयं विपाकोति किस्सेतं किस्स नाम एतं, किस्स कम्मस्स अयं विपाको. एतन्ति वा निपातमत्तं, किस्स कम्मस्साति योजना. ‘‘किस्स ते’’ति च केचि पठन्ति.
५३२-३३. चिक्खल्लमग्गेति चिक्खल्लवति पथम्हि. नरकन्ति आवाटं. एकाहन्ति एकं अहं. नरकस्मिं निक्खिपिन्ति यथा कद्दमो न अक्कमीयति, एवं तस्मिं चिक्खल्लावाटे ठपेसिं. तस्साति तस्स गोसीसेन सेतुकरणस्स.
५३६-७. धम्मे ठितानन्ति धम्मचारीनं समचारीनं. मन्तेमीति कथेमि कित्तयामि. खिड्डत्थिकोति हसाधिप्पायो. नो च पदुट्ठचित्तोति दुस्ससामिके न दूसितचित्तो, न अवहरणाधिप्पायो नापि विनासाधिप्पायोति अत्थो.
५३८. अकीळमानोति अखिड्डाधिप्पायो, लोभादीहि दूसितचित्तो. किं तस्स कम्मस्स विपाकमाहूति तस्स तथा कतस्स पापकम्मस्स कीव कटुकं दुक्खविपाकं पण्डिता आहु.
५३९-४०. दुट्ठसङ्कप्पमनाति कामसङ्कप्पादिवसेन दूसितमनोवितक्का, एतेन मनोदुच्चरितमाह. कायेन वाचाय च संकिलिट्ठाति पाणातिपातादिवसेन कायवाचाहि मलिना. आसमानाति आसीसमाना पत्थयमाना.
एवं पेतेन सङ्खेपेनेव कम्मफलेसु विभजित्वा दस्सितेसु तं असद्दहन्तो राजा –
५४१. ‘‘तं किन्ति जानेय्यमहं अवेच्च, कल्याणपापस्स अयं विपाको;
किं वाहं दिस्वा अभिसद्दहेय्यं, को वापि मं सद्दहापेय्य एत’’न्ति. –
गाथमाह. तत्थ तं किन्ति जानेय्यमहं अवेच्चाति योयं तया ‘‘ये दुट्ठसङ्कप्पमना मनुस्सा, कायेन वाचाय च संकिलिट्ठा’’तिआदिना. ‘‘अपरे पन सुगतिमासमाना’’तिआदिना च कल्याणस्स पापस्स च कम्मस्स विपाको विभजित्वा वुत्तो, तं किन्ति केन कारणेन अहं अवेच्च अपरपच्चयभावेन सद्दहेय्यं. किं वाहं दिस्वा अभिसद्दहेय्यन्ति कीदिसं वा पनाहं पच्चक्खभूतं निदस्सनं दिस्वा पटिसद्दहेय्यं. को वापि मं सद्दहापेय्य एतन्ति को वा विञ्ञू पुरिसो पण्डितो एतमत्थं मं सद्दहापेय्य, तं कथेहीति अत्थो.
तं सुत्वा पेतो कारणेन तमत्थं तस्स पकासेन्तो –
५४२. ‘‘दिस्वा च सुत्वा अभिसद्दहस्सु, कल्याणपापस्स अयं विपाको;
कल्याणपापे उभये असन्ते, सिया नु सत्ता सुगता दुग्गता वा.
५४३. ‘‘नो चेत्थ कम्मानि करेय्युं मच्चा, कल्याणपापानि मनुस्सलोके;
नाहेसुं सत्ता सुगता दुग्गता वा, हीना पणीता च मनुस्सलोके.
५४४. ‘‘यस्मा च कम्मानि करोन्ति मच्चा, कल्याणपापानि मनुस्सलोके;
तस्मा हि सत्ता सुगता दुग्गता वा, हीना पणीता च मनुस्सलोके.
५४५. ‘‘द्वयज्ज कम्मानं विपाकमाहु, सुखस्स दुक्खस्स च वेदनीयं;
ता देवतायो परिचारयन्ति, पच्चेन्ति बाला द्वयतं अपस्सिनो’’ति. –
गाथा अभासि.
५४२. तत्थ दिस्वा चाति पच्चक्खतो दिस्वापि. सुत्वाति धम्मं सुत्वा तदनुसारेन नयं नेन्तो अनुमिनन्तो. कल्याणपापस्साति कुसलस्स अकुसलस्स च कम्मस्स अयं सुखो अयं दुक्खो च विपाकोति अभिसद्दहस्सु. उभये असन्तेति कल्याणे पापे चाति दुविधे कम्मे अविज्जमाने. सिया नु सत्ता सुगता दुग्गता वाति ‘‘इमे सत्ता सुगतिं गता दुग्गतिं गता वा, सुगतियं वा अड्ढा दुग्गतियं दलिद्दा वा’’ति अयमत्थो किं नु सिया कथं सम्भवेय्याति अत्थो.
५४३-४. इदानि यथावुत्तमत्थं ‘‘नो चेत्थ कम्मानी’’ति च ‘‘यस्मा च कम्मानी’’ति च गाथाद्वयेन ब्यतिरेकतो अन्वयतो च विभावेति. तत्थ हीना पणीताति कुलरूपारोग्यपरिवारादीहि हीना उळारा च.
५४५. द्वयज्ज कम्मानं विपाकमाहूति द्वयं दुविधं अज्ज इदानि कम्मानं सुचरितदुच्चरितानं विपाकं वदन्ति कथेन्ति. किं तन्ति आह ‘‘सुखस्स दुक्खस्स च वेदनीय’’न्ति, इट्ठस्स च अनिट्ठस्स च अनुभवनयोग्गं. ता देवतायो परिचारयन्तीति ये उक्कंसवसेन सुखवेदनीयं विपाकं पटिलभन्ति, ते देवलोके ता देवता हुत्वा दिब्बसुखसमप्पिता इन्द्रियानि परिचारेन्ति. पच्चेन्ति बाला द्वयतं अपस्सिनोति ये बाला कम्मञ्च कम्मफलञ्चाति द्वयं अपस्सन्ता असद्दहन्ता, ते पापप्पसुता दुक्खवेदनीयं विपाकं अनुभवन्ता निरयादीसु कम्मुना पच्चेन्ति दुक्खं पापुणन्ति.
एवं कम्मफलं सद्दहन्तो पन त्वं कस्मा एवरूपं दुक्खं पच्चनुभवसीति अनुयोगं सन्धाय –
५४६. ‘‘न मत्थि कम्मानि सयंकतानि, दत्वापि मे नत्थि यो आदिसेय्य;
अच्छादनं सयनमथन्नपानं, तेनम्हि नग्गो कसिरा च वुत्ती’’ति. –
गाथमाह. तत्थ न मत्थि कम्मानि सयंकतानीति यस्मा सयं अत्तना पुब्बे कतानि पुञ्ञकम्मानि मम नत्थि न विज्जन्ति, येहि इदानि अच्छादनादीनि लभेय्यं. दत्वापि मे नत्थि यो आदिसेय्याति यो समणब्राह्मणानं दानं दत्वा ‘‘असुकस्स पेतस्स होतू’’ति मे आदिसेय्य उद्दिसेय्य, सो नत्थि. तेनम्हि नग्गो कसिरा च वुत्तीति तेन दुविधेनापि कारणेन इदानि नग्गो निच्चोळो अम्हि, कसिरा दुक्खा च वुत्ति जीविका होतीति.
तं सुत्वा राजा तस्स अच्छादनादिलाभं आकङ्खन्तो –
५४७. ‘‘सिया नु खो कारणं किञ्चि यक्ख, अच्छादनं येन तुवं लभेथ;
आचिक्ख मे त्वं यदत्थि हेतु, सद्धायिकं हेतुवचो सुणोमा’’ति. –
गाथमाह. तत्थ येनाति येन कारणेन त्वं अच्छादनं लभेथ लभेय्यासि, किञ्चि तं कारणं सिया नु खो भवेय्य नु खोति अत्थो. यदत्थीति यदि अत्थि.
अथस्स पेतो तं कारणं आचिक्खन्तो –
५४८. ‘‘कप्पितको नाम इधत्थि भिक्खु, झायी सुसीलो अरहा विमुत्तो;
गुत्तिन्द्रियो संवुतपातिमोक्खो, सीतिभूतो उत्तमदिट्ठिपत्तो.
५४९. ‘‘सखिलो वदञ्ञू सुवचो सुमुखो, स्वागमो सुप्पटिमुत्तको च;
पुञ्ञस्स खेत्तं अरणविहारी, देवमनुस्सानञ्च दक्खिणेय्यो.
५५०. ‘‘सन्तो विधूमो अनीघो निरासो, मुत्तो विसल्लो अममो अवङ्को;
निरूपधी सब्बपपञ्चखीणो, तिस्सो विज्जा अनुप्पत्तो जुतिमा.
५५१. ‘‘अप्पञ्ञातो दिस्वापि न च सुजानो, मुनीति नं वज्जिसु वोहरन्ति;
जानन्ति तं यक्खभूता अनेजं, कल्याणधम्मं विचरन्तं लोके.
५५२. ‘‘तस्स तुवं एकयुगं दुवे वा, ममुद्दिसित्वान सचे ददेथ;
पटिग्गहीतानि च तानि अस्सु, ममञ्च पस्सेथ सन्नद्धदुस्स’’न्ति. –
गाथा अभासि.
५४८. तत्थ कप्पिततो नामाति जटिलसहस्सस्स अब्भन्तरे आयस्मतो उपालित्थेरस्स उपज्झायं सन्धाय वदति. इधाति इमिस्सा वेसालिया समीपे. झायीति अग्गफलझानेन झायी. सीतिभूतोति सब्बकिलेसदरथपरिळाहवूपसमेन सीतिभावप्पत्तो. उत्तमदिट्ठिपत्तोति उत्तमं अग्गफलं सम्मादिट्ठिं पत्तो.
५४९. सखिलोति मुदु. सुवचोति सुब्बचो. स्वागमोति सुट्ठु आगतागमो. सुप्पटिमुत्तकोति सुट्ठु पटिमुत्तकवाचो, मुत्तभाणीति अत्थो. अरणविहारीति मेत्ताविहारी.
५५०. सन्तोति उपसन्तकिलेसो. विधूमोति विगतमिच्छावितक्कधूमो. अनीघोति निद्दुक्खो. निरासोति नित्तण्हो. मुत्तोति सब्बभवेहि विमुत्तो. विसल्लोति वीतरागादिसल्लो. अममोति ममंकारविरहितो. अवङ्कोति कायवङ्कादिवङ्कविरहितो. निरूपधीति किलेसाभिसङ्खारादिउपधिप्पहायी. सब्बपपञ्चखीणोति परिक्खीणतण्हादिपपञ्चो. जुतिमाति अनुत्तराय ञाणजुतिया जुतिमा. अप्पञ्ञातोति परमप्पिच्छताय पटिच्छन्नगुणताय च न पाकटो.
५५१. दिस्वापि न च सुजानोति गम्भीरभावेन दिस्वापि ‘‘एवंसीलो, एवंधम्मो, एवंपञ्ञो’’ति न सुविञ्ञेय्यो. जानन्ति तं यक्खभूता अनेजन्ति यक्खभूता च अनेजं नित्तण्हं ‘‘अरहा’’ति तं जानन्ति. कल्याणधम्मन्ति सुन्दरसीलादिगुणं.
५५२. तस्साति तस्स कप्पितकमहाथेरस्स. एकयुगन्ति एकं वत्थयुगं. दुवे वाति द्वे वा वत्थयुगानि. ममुद्दिसित्वानाति ममं उद्दिसित्वा. पटिग्गहीतानिच तानि अस्सूति तानि वत्थयुगानि तेन पटिग्गहितानि च अस्सु भवेय्युं. सन्नद्धदुस्सन्ति दुस्सेन कतसन्नाहं, लद्धवत्थं निवत्थपारुतदुस्सन्ति अत्थो.
ततो राजा –
५५३. ‘‘कस्मिं पदेसे समणं वसन्तं, गन्त्वान पस्सेमु मयं इदानि;
यो मज्ज कङ्खं विचिकिच्छितञ्च, दिट्ठीविसूकानि विनोदयेय्या’’ति. –
थेरस्स वसनट्ठानं पुच्छि. तत्थ कस्मिं पदेसेति कतरस्मिं पदेसे. यो मज्जाति यो अज्ज, म-कारो पदसन्धिकरो.
ततो पेतो –
५५४. ‘‘एसो निसिन्नो कपिनच्चनायं, परिवारितो देवताहि बहूहि;
धम्मिं कथं भासति सच्चनामो, सकस्मिमाचेरके अप्पमत्तो’’ति. –
गाथमाह. तत्थ कपिनच्चनायन्ति कपीनं वानरानं नच्चनेन ‘‘कपिनच्चना’’ति लद्धवोहारे पदेसे. सच्चनामोति झायी सुसीलो अरहा विमुत्तोतिआदीहि गुणनामेहि याथावनामो अविपरीतनामो.
एवं पेतेन वुत्ते राजा तावदेव थेरस्स सन्तिकं गन्तुकामो –
५५५. ‘‘तथाहं कस्सामि गन्त्वा इदानि, अच्छादयिस्सं समणं युगेन;
पटिग्गहीतानि च तानि अस्सु, तुवञ्च पस्सेमु सन्नद्धदुस्स’’न्ति. –
गाथमाह. तत्थ कस्सामीति करिस्सामि.
अथ पेतो ‘‘देवतानं थेरो धम्मं देसेति, तस्मा नायं उपसङ्कमनकालो’’ति दस्सेन्तो –
५५६. ‘‘मा अक्खणे पब्बजितं उपागमि, साधु वो लिच्छवि नेस धम्मो;
ततो च काले उपसङ्कमित्वा, तत्थेव पस्साहि रहो निसिन्न’’न्ति. –
गाथमाह. तत्थ साधूति आयाचने निपातो. वो लिच्छवि नेस धम्मोति, लिच्छविराज, तुम्हाकं राजूनं एस धम्मो न होति, यं अकाले उपसङ्कमनं. तत्थेवाति तस्मिंयेव ठाने.
एवं पेतेन वुत्ते राजा ‘‘साधू’’ति सम्पटिच्छित्वा अत्तनो निवेसनमेव गन्त्वा पुन युत्तपत्तकाले अट्ठ वत्थुयुगानि गाहापेत्वा थेरं उपसङ्कमित्वा एकमन्तं निसिन्नो पटिसन्थारं कत्वा ‘‘इमानि, भन्ते, अट्ठ वत्थयुगानि पटिग्गण्हा’’ति आह. तं सुत्वा थेरो कथासमुट्ठापनत्थं ‘‘महाराज, पुब्बे त्वं अदानसीलो समणब्राह्मणानं विहेठनजातिकोव कथं पणीतानि वत्थानि दातुकामो जातो’’ति आह. तं सुत्वा राजा तस्स कारणं आचिक्खन्तो पेतेन समागमं, तेन च अत्तना च कथितं सब्बं थेरस्स आरोचेत्वा वत्थानि दत्वा पेतस्स उद्दिसि. तेन पेतो दिब्बवत्थधरो अलङ्कतपटियत्तो अस्सारुळ्हो थेरस्स च रञ्ञो च पुरतो पातुभवि. तं दिस्वा राजा अत्तमनो पमुदितो पीतिसोमनस्सजातो ‘‘पच्चक्खतो वत मया कम्मफलं दिट्ठं, न दानाहं पापं करिस्सामि, पुञ्ञमेव करिस्सामी’’ति वत्वा तेन पेतेन सक्खिं अकासि. सो च पेतो ‘‘सचे, त्वं लिच्छविराज, इतो पट्ठाय अधम्मं पहाय धम्मं चरसि, एवाहं तव सक्खिं करिस्सामि, सन्तिकञ्च ते आगमिस्सामि, सूलावुतञ्च पुरिसं सीघं सूलतो मोचेहि, एवं सो जीवितं लभित्वा धम्मं चरन्तो दुक्खतो मुच्चिस्सति, थेरञ्च कालेन कालं उपसङ्कमित्वा धम्मं सुणन्तो पुञ्ञानि करोही’’ति वत्वा गतो.
अथ राजा थेरं वन्दित्वा नगरं पविसित्वा सीघं सीघं लिच्छविपरिसं सन्निपातेत्वा ते अनुजानापेत्वा तं पुरिसं सूलतो मोचेत्वा ‘‘इमं अरोगं करोथा’’ति तिकिच्छके आणापेसि. थेरञ्च उपसङ्कमित्वा पुच्छि – ‘‘सिया नु खो, भन्ते, निरयगामिकम्मं कत्वा ठितस्स निरयतो मुत्ती’’ति. सिया, महाराज, सचे उळारं पुञ्ञं करोति, मुच्चतीति वत्वा थेरो राजानं सरणेसु च सीलेसु च पतिट्ठापेसि. सो तत्थ पतिट्ठितो थेरस्स ओवादे ठत्वा सोतापन्नो अहोसि, सूलावुतो पन पुरिसो अरोगो हुत्वा संवेगजातो भिक्खूसु पब्बजित्वा नचिरस्सेव अरहत्तं पापुणि. तमत्थं दस्सेन्ता सङ्गीतिकारा –
५५७. ‘‘तथाति वत्वा अगमासि तत्थ, परिवारितो दासगणेन लिच्छवि;
सो तं नगरं उपसङ्कमित्वा, वासूपगच्छित्थ सके निवेसने.
५५८. ‘‘ततो च काले गिहिकिच्चानि कत्वा,
न्हत्वा पिवित्वा च खणं लभित्वा;