५. चूळकुणालवग्गो

[३४१] १. कण्डरीजातकवण्णना

नरानमारामकरासूति इमस्स जातकस्स वित्थारकथा कुणालजातके (जा. २.२१.कुणालजातक) आवि भविस्सति.

कण्डरीजातकवण्णना पठमा.

[३४२] २. वानरजातकवण्णना

असक्खिं वत अत्तानन्ति इदं सत्था वेळुवने विहरन्तो देवदत्तस्स वधाय परिसक्कनं आरब्भ कथेसि. वत्थु (जा. अट्ठ. २.२.सुसुमारजातकवण्णना) हेट्ठा वित्थारितमेव.

अतीते पन बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हिमवन्तपदेसे कपियोनियं निब्बत्तित्वा वयप्पत्तो गङ्गातीरे वसि. अथेका अन्तोगङ्गायं संसुमारी बोधिसत्तस्स हदयमंसे दोहळं उप्पादेत्वा संसुमारस्स कथेसि. सो ‘‘तं कपिं उदके निमुज्जापेत्वा मारेत्वा हदयमंसं गहेत्वा संसुमारिया दस्सामी’’ति चिन्तेत्वा महासत्तं आह – ‘‘एहि, सम्म, अन्तरदीपके फलाफले खादितुं गच्छामा’’ति. ‘‘कथं, सम्म, अहं गमिस्सामी’’ति. ‘‘अहं तं मम पिट्ठियं निसीदापेत्वा नेस्सामी’’ति. सो तस्स चित्तं अजानन्तो लङ्घित्वा पिट्ठियं निसीदि. संसुमारो थोकं गन्त्वा निमुज्जितुं आरभि. अथ नं वानरो ‘‘किंकारणा, भो, मं उदके निमुज्जापेसी’’ति आह. ‘‘अहं तं मारेत्वा तव हदयमंसं मम भरियाय दस्सामी’’ति. ‘‘दन्ध त्वं मम हदयमंसं उरे अत्थीति मञ्ञसी’’ति? ‘‘अथ कहं ते ठपित’’न्ति? ‘‘एतं उदुम्बरे ओलम्बन्तं न पस्ससी’’ति? ‘‘पस्सामि, दस्ससि पन मे’’ति. ‘‘आम, दस्सामी’’ति. संसुमारो दन्धताय तं गहेत्वा नदीतीरे उदुम्बरमूलं गतो. बोधिसत्तो तस्स पिट्ठितो लङ्घित्वा उदुम्बररुक्खे निसिन्नो इमा गाथा अभासि –

१६१. ‘‘असक्खिं वत अत्तानं, उद्धातुं उदका थलं;

न दानाहं पुन तुय्हं, वसं गच्छामि वारिज.

१६२. ‘‘अलमेतेहि अम्बेहि, जम्बूहि पनसेहि च;

यानि पारं समुद्दस्स, वरं मय्हं उदुम्बरो.

१६३. ‘‘यो च उप्पतितं अत्थं, न खिप्पमनुबुज्झति;

अमित्तवसमन्वेति, पच्छा च अनुतप्पति.

१६४. ‘‘यो च उप्पतितं अत्थं, खिप्पमेव निबोधति;

मुच्चते सत्तुसम्बाधा, न च पच्छानुतप्पती’’ति.

तत्थ असक्खिं वताति समत्थो वत अहोसिं. उद्धातुन्ति उद्धरितुं. वारिजाति संसुमारं आलपति. यानि पारं समुद्दस्साति गङ्गं समुद्दनामेनालपन्तो ‘‘यानि समुद्दस्स पारं गन्त्वा खादितब्बानि, अलं तेही’’ति वदति. पच्छा च अनुतप्पतीति उप्पन्नं अत्थं खिप्पं अजानन्तो अमित्तवसं गच्छति, पच्छा च अनुतप्पति.

इति सो चतूहि गाथाहि लोकियकिच्चानं निप्फत्तिकारणं कथेत्वा वनसण्डमेव पाविसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा संसुमारो देवदत्तो अहोसि, वानरो पन अहमेव अहोसि’’न्ति.

वानरजातकवण्णना दुतिया.

[३४३] ३. कुन्तिनीजातकवण्णना

अवसिम्ह तवागारेति इदं सत्था जेतवने विहरन्तो कोसलरञ्ञो गेहे निवुत्थं कुन्तिनीसकुणिकं आरब्भ कथेसि. सा किर रञ्ञो दूतेय्यहारिका अहोसि. द्वे पोतकापिस्सा अत्थि, राजा तं सकुणिकं एकस्स रञ्ञो पण्णं गाहापेत्वा पेसेसि. तस्सा गतकाले राजकुले दारका ते सकुणपोतके हत्थेहि परिमद्दन्ता मारेसुं. सा आगन्त्वा ते पोतके मते पस्सन्ती ‘‘केन मे पुत्तका मारिता’’ति पुच्छि. ‘‘असुकेन च असुकेन चा’’ति. तस्मिञ्च काले राजकुले पोसावनिकब्यग्घो अत्थि कक्खळो फरुसो, बन्धनबलेन तिट्ठति. अथ ते दारका तं ब्यग्घं दस्सनाय अगमंसु. सापि सकुणिका तेहि सद्धिं गन्त्वा ‘‘यथा इमेहि मम पुत्तका मारिता, तथेव ने करिस्सामी’’ति ते दारके गहेत्वा ब्यग्घस्स पादमूले खिपि, ब्यग्घो मुरामुरापेत्वा खादि. सा ‘‘इदानि मे मनोरथो परिपुण्णो’’ति उप्पतित्वा हिमवन्तमेव गता. तं कारणं सुत्वा भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, राजकुले किर असुका नाम कुन्तिनी सकुणिका ये हिस्सा पोतका मारिता, ते दारके ब्यग्घस्स पादमूले खिपित्वा हिमवन्तमेव गता’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेसा अत्तनो पोतकघातके दारके गहेत्वा ब्यग्घस्स पादमूले खिपित्वा हिमवन्तमेव गता’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं बोधिसत्तो धम्मेन समेन रज्जं कारेसि. तस्स निवेसने एका कुन्तिनी सकुणिका दूतेय्यहारिकाति सब्बं पुरिमसदिसमेव. अयं पन विसेसो. अयं कुन्तिनी ब्यग्घेन दारके मारापेत्वा चिन्तेसि ‘‘इदानि न सक्का मया इध वसितुं, गमिस्सामि, गच्छन्ती च पन रञ्ञो अनारोचेत्वा न गमिस्सामि, आरोचेत्वाव गमिस्सामी’’ति. सा राजानं उपसङ्कमित्वा वन्दित्वा एकमन्तं ठिता ‘‘सामि, तुम्हाकं पमादेन मम पुत्तके दारका मारेसुं, अहं कोधवसिका हुत्वा ते दारके पटिमारेसिं, इदानि मया इध वसितुं न सक्का’’ति वत्वा पठमं गाथमाह –

१६५. ‘‘अवसिम्ह तवागारे, निच्चं सक्कतपूजिता,

त्वमेव दानिमकरि, हन्द राज वजामह’’न्ति.

तत्थ त्वमेव दानिमकरीति मं पण्णं गाहापेत्वा पेसेत्वा अत्तनो पमादेन मम पियपुत्तके अरक्खन्तो त्वञ्ञेव इदानि एतं मम दोमनस्सकारणं अकरि. हन्दाति ववस्सग्गत्थे निपातो. राजाति बोधिसत्तं आलपति. वजामहन्ति अहं हिमवन्तं गच्छामीति.

तं सुत्वा राजा दुतियं गाथमाह –

१६६. ‘‘यो वे कते पटिकते, किब्बिसे पटिकिब्बिसे;

एवं तं सम्मती वेरं, वस कुन्तिनि मागमा’’ति.

तस्सत्थो – यो पुग्गलो परेन कते किब्बिसे अत्तनो पुत्तमारणादिके दारुणे कम्मे कते पुन अत्तनो तस्स पुग्गलस्स पटिकते पटिकिब्बिसे ‘‘पटिकतं मया तस्सा’’ति जानाति. एवं तं सम्मती वेरन्ति एत्तकेन तं वेरं सम्मति वूपसन्तं होति, तस्मा वस कुन्तिनि मागमाति.

तं सुत्वा कुन्तिनी ततियं गाथमाह –

१६७. ‘‘न कतस्स च कत्ता च, मेत्ति सन्धीयते पुन;

हदयं नानुजानाति, गच्छञ्ञेव रथेसभा’’ति.

तत्थ न कतस्स च कत्ता चाति कतस्स च अभिभूतस्स उपपीळितस्स पुग्गलस्स, इदानि विभत्तिविपरिणामं कत्वा यो कत्ता तस्स चाति इमेसं द्विन्नं पुग्गलानं पुन मित्तभावो नाम न सन्धीयति न घटीयतीति अत्थो. हदयं नानुजानातीति तेन कारणेन मम हदयं इध वासं नानुजानाति. गच्छञ्ञेव रथेसभाति तस्मा अहं महाराज गमिस्सामियेवाति.

तं सुत्वा राजा चतुत्थं गाथमाह –

१६८. ‘‘कतस्स चेव कत्ता च, मेत्ति सन्धीयते पुन;

धीरानं नो च बालानं, वस कुन्तिनि मागमा’’ति.

तस्सत्थो – कतस्स चेव पुग्गलस्स, यो च कत्ता तस्स मेत्ति सन्धीयते पुन, सा पन धीरानं, नो च बालानं. धीरानञ्हि मेत्ति भिन्नापि पुन घटीयति, बालानं पन सकिं भिन्ना भिन्नाव होति, तस्मा वस कुन्तिनि मागमाति.

सकुणिका ‘‘एवं सन्तेपि न सक्का मया इध वसितुं सामी’’ति राजानं वन्दित्वा उप्पतित्वा हिमवन्तमेव गता.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा कुन्तिनीयेव एतरहि कुन्तिनी अहोसि, बाराणसिराजा पन अहमेव अहोसि’’न्ति.

कुन्तिनीजातकवण्णना ततिया.

[३४४] ४. अम्बजातकवण्णना

यो नीलियं मण्डयतीति इदं सत्था जेतवने विहरन्तो एकं अम्बगोपकत्थेरं आरब्भ कथेसि. सो किर महल्लककाले पब्बजित्वा जेतवनपच्चन्ते अम्बवने पण्णसालं कारेत्वा अम्बे रक्खन्तो पतितानि अम्बपक्कानि खादन्तो विचरति, अत्तनो सम्बन्धमनुस्सानम्पि देति. तस्मिं भिक्खाचारं पविट्ठे अम्बचोरका अम्बानि पातेत्वा खादित्वा च गहेत्वा च गच्छन्ति. तस्मिं खणे चतस्सो सेट्ठिधीतरो अचिरवतियं न्हायित्वा विचरन्तियो तं अम्बवनं पविसिंसु. महल्लको आगन्त्वा ता दिस्वा ‘‘तुम्हेहि मे अम्बानि खादितानी’’ति आह. ‘‘भन्ते, मयं इदानेव आगता, न तुम्हाकं अम्बानि खादामा’’ति. ‘‘तेन हि सपथं करोथा’’ति? ‘‘करोम, भन्ते’’ति सपथं करिंसु. महल्लको ता सपथं कारेत्वा लज्जापेत्वा विस्सज्जेसि. तस्स तं किरियं सुत्वा भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, असुको किर महल्लको अत्तनो वसनकं अम्बवनं पविट्ठा सेट्ठिधीतरो सपथं कारेत्वा लज्जापेत्वा विस्सज्जेसी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस अम्बगोपको हुत्वा चतस्सो सेट्ठिधीतरो सपथं कारेत्वा लज्जापेत्वा विस्सज्जेसी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सक्कत्तं कारेसि. तदा एको कूटजटिलो बाराणसिं उपनिस्साय नदीतीरे अम्बवने पण्णसालं मापेत्वा अम्बे रक्खन्तो पतितानि अम्बपक्कानि खादन्तो सम्बन्धमनुस्सानम्पि देन्तो नानप्पकारेन मिच्छाजीवेन जीविकं कप्पेन्तो विचरति. तदा सक्को देवराजा ‘‘के नु खो लोके मातापितरो उपट्ठहन्ति, कुले जेट्ठापचयनकम्मं करोन्ति, दानं देन्ति, सीलं रक्खन्ति, उपोसथकम्मं करोन्ति, के पब्बजिता समणधम्मे युत्तपयुत्ता विहरन्ति, के अनाचारं चरन्ती’’ति लोकं वोलोकेन्तो इमं अम्बगोपकं अनाचारं कूटजटिलं दिस्वा ‘‘अयं कूटजटिलो कसिणपरिकम्मादिं अत्तनो समणधम्मं पहाय अम्बवनं रक्खन्तो विचरति, संवेजेस्सामि न’’न्ति तस्स गामं भिक्खाय पविट्ठकाले अत्तनो आनुभावेन अम्बे पातेत्वा चोरेहि विलुम्बिते विय अकासि.

तदा बाराणसितो चतस्सो सेट्ठिधीतरो तं अम्बवनं पविसिंसु. कूटजटिलो ता दिस्वा ‘‘तुम्हेहि मे अम्बानि खादितानी’’ति पलिबुद्धि. ‘‘भन्ते, मयं इदानेव आगता, न ते अम्बानि खादामा’’ति. ‘‘तेन हि सपथं करोथा’’ति? ‘‘कत्वा च पन गन्तुं लभिस्सामा’’ति? ‘‘आम, लभिस्सथा’’ति. ‘‘साधु, भन्ते’’ति तासु जेट्ठिका सपथं करोन्ती पठमं गाथमाह –

१६९. ‘‘यो नीलियं मण्डयति, सण्डासेन विहञ्ञति;

तस्स सा वसमन्वेतु, या ते अम्बे अवाहरी’’ति.

तस्सत्थो – यो पुरिसो पलितानं काळवण्णकरणत्थाय नीलफलादीनि योजेत्वा कतं नीलियं मण्डयति, नीलकेसन्तरे च उट्ठितं पलितं उद्धरन्तो सण्डासेन विहञ्ञति किलमति, तस्स एवरूपस्स महल्लकस्स सा वसं अन्वेतु, तथारूपं पतिं लभतु, या ते अम्बे अवाहरीति.

तापसो ‘‘त्वं एकमन्तं तिट्ठाही’’ति वत्वा दुतियं सेट्ठिधीतरं सपथं कारेसि. सा सपथं करोन्ती दुतियं गाथमाह –

१७०. ‘‘वीसं वा पञ्चवीसं वा, ऊनतिंसंव जातिया;

तादिसा पति मा लद्धा, या ते अम्बे अवाहरी’’ति.

तस्सत्थो – नारियो नाम पन्नरससोळसवस्सिककाले पुरिसानं पिया होन्ति. या पन तव अम्बानि अवाहरि, सा एवरूपे योब्बने पतिं अलभित्वा जातिया वीसं वा पञ्चवीसं वा एकेन द्वीहि ऊनताय ऊनतिंसं वा वस्सानि पत्वा तादिसा परिपक्कवया हुत्वापि पतिं मा लद्धाति.

तायपि सपथं कत्वा एकमन्तं ठिताय ततिया ततियं गाथमाह –

१७१. ‘‘दीघं गच्छतु अद्धानं, एकिका अभिसारिका;

सङ्केते पति मा अद्द, या ते अम्बे अवाहरी’’ति.

तस्सत्थो – या ते अम्बे अवाहरि, सा पतिं पत्थयमाना तस्स सन्तिकं अभिसरणताय अभिसारिका नाम हुत्वा एकिका अदुतिया गावुतद्विगावुतमत्तं दीघं अद्धानं गच्छतु, गन्त्वापि च तस्मिं असुकट्ठानं नाम आगच्छेय्यासीति कते सङ्केते तं पतिं मा अद्दसाति.

तायपि सपथं कत्वा एकमन्तं ठिताय चतुत्था चतुत्थं गाथमाह –

१७२. ‘‘अलङ्कता सुवसना, मालिनी चन्दनुस्सदा;

एकिका सयने सेतु, या ते अम्बे अवाहरी’’ति. – सा उत्तानत्थायेव;

तापसो ‘‘तुम्हेहि अतिभारिया सपथा कता, अञ्ञेहि अम्बानि खादितानि भविस्सन्ति, गच्छथ दानि तुम्हे’’ति ता उय्योजेसि. सक्को भेरवरूपारम्मणं दस्सेत्वा कूटतापसं ततो पलापेसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा कूटजटिलो अयं अम्बगोपको महल्लको अहोसि, चतस्सो सेट्ठिधीतरो एतायेव, सक्को पन अहमेव अहोसि’’न्ति.

अम्बजातकवण्णना चतुत्था.

[३४५] ५. राजकुम्भजातकवण्णना

वनं यदग्गि दहतीति इदं सत्था जेतवने विहरन्तो एकं अलसभिक्खुं आरब्भ कथेसि. सो किर सावत्थिवासी कुलपुत्तो सासने उरं दत्वा पब्बजित्वापि अलसो अहोसि उद्देसपरिपुच्छायोनिसोमनसिकारवत्तपटिवत्तादीहि परिबाहिरो नीवरणाभिभूतो. निसिन्नट्ठानादीसु इरियापथेसु तथा एव होति. तस्स तं आलसियभावं आरब्भ भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, असुको नाम भिक्खु एवरूपे निय्यानिकसासने पब्बजित्वा आलसियो कुसीतो नीवरणाभिभूतो विहरती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस आलसियोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अमच्चरतनं अहोसि, बाराणसिराजा आलसियजातिको अहोसि. बोधिसत्तो ‘‘राजानं पबोधेस्सामी’’ति एकं उपमं उपधारेन्तो विचरति. अथेकदिवसं राजा उय्यानं गन्त्वा अमच्चगणपरिवुतो तत्थ विचरन्तो एकं राजकुम्भं नाम आलसियं पस्सि. तथारूपा किर आलसिया सकलदिवसं गच्छन्तापि एकद्वङ्गुलमत्तमेव गच्छन्ति. राजा तं दिस्वा ‘‘वयस्स को नाम सो’’ति बोधिसत्तं पुच्छि. महासत्तो ‘‘राजकुम्भो नामेस, महाराज, आलसियो. एवरूपो हि सकलदिवसं गच्छन्तोपि एकङ्गुलद्वङ्गुलमत्तमेव गच्छती’’ति वत्वा तेन सद्धिं सल्लपन्तो ‘‘अम्भो, राजकुम्भ, तुम्हाकं दन्धगमनं इमस्मिं अरञ्ञे दावग्गिम्हि उट्ठिते किं करोथा’’ति वत्वा पठमं गाथमाह –

१७३. ‘‘वनं यदग्गि दहति, पावको कण्हवत्तनी;

कथं करोसि पचलक, एवं दन्धपरक्कमो’’ति.

तत्थ यदग्गीति यदा अग्गि. पावको कण्हवत्तनीति अग्गिनो वेवचनं. पचलकाति तं आलपति. सो हि चलन्तो चलन्तो गच्छति, निच्चं वा पचलायति, तस्मा ‘‘पचलको’’ति वुच्चति. दन्धपरक्कमोति गरुवीरियो.

तं सुत्वा राजकुम्भो दुतियं गाथमाह –

१७४. ‘‘बहूनि रुक्खछिद्दानि, पथब्या विवरानि च;

तानि चे नाभिसम्भोम, होति नो कालपरियायो’’ति.

तस्सत्थो – पण्डित, अम्हाकं इतो उत्तरिगमनं नाम नत्थि. इमस्मिं पन अरञ्ञे रुक्खछिद्दानि पथवियं विवरानि च बहूनि. यदि तानि न पापुणाम, होति नो कालपरियायोति मरणमेव नो होतीति.

तं सुत्वा बोधिसत्तो इतरा द्वे गाथा अभासि –

१७५. ‘‘यो दन्धकाले तरति, तरणीये च दन्धति;

सुक्खपण्णंव अक्कम्म, अत्थं भञ्जति अत्तनो.

१७६. ‘‘यो दन्धकाले दन्धेति, तरणीये च तारयि;

ससीव रत्तिं विभजं, तस्सत्थो परिपूरती’’ति.

तत्थ दन्धकालेति तेसं तेसं कम्मानं सणिकं कत्तब्बकाले. तरतीति तुरिततुरितो वेगेन तानि कम्मानि करोति. सुक्खपण्णंवाति यथा वातातपसुक्खं तालपण्णं बलवा पुरिसो अक्कमित्वा भञ्जेय्य, तत्थेव चुण्णविचुण्णं करेय्य, एवं सो अत्तनो अत्थं वुद्धिं भञ्जति. दन्धेतीति दन्धयति दन्धकातब्बानि कम्मानि दन्धमेव करोति. तारयीति तुरितकातब्बानि कम्मानि तुरितोव करोति. ससीव रत्तिं विभजन्ति यथा चन्दो जुण्हपक्खं रत्तिं जोतयमानो काळपक्खरत्तितो रत्तिं विभजन्तो दिवसे दिवसे परिपूरति, एवं तस्स पुरिसस्स अत्थो परिपूरतीति वुत्तं होति.

राजा बोधिसत्तस्स वचनं सुत्वा ततो पट्ठाय अनलसो जातो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा राजकुम्भो आलसियभिक्खु अहोसि, पण्डितामच्चो पन अहमेव अहोसि’’न्ति.

राजकुम्भजातकवण्णना पञ्चमा.

[३४६] ६. केसवजातकवण्णना

मनुस्सिन्दं जहित्वानाति इदं सत्था जेतवने विहरन्तो विस्सासभोजनं आरब्भ कथेसि. अनाथपिण्डिकस्स किर गेहे पञ्चन्नं भिक्खुसतानं निबद्धभत्तं होति, गेहं निच्चकालं भिक्खुसङ्घस्स ओपानभूतं कासावपज्जोतं इसिवातपटिवातं. अथेकदिवसं राजा नगरं पदक्खिणं करोन्तो सेट्ठिनो निवेसने भिक्खुसङ्घं दिस्वा ‘‘अहम्पि अरियसङ्घस्स निबद्धं भिक्खं दस्सामी’’ति विहारं गन्त्वा सत्थारं वन्दित्वा पञ्चन्नं भिक्खुसतानं निबद्धं भिक्खं पट्ठपेसि. ततो पट्ठाय राजनिवेसने निबद्धं भिक्खा दिय्यति, तिवस्सिकगन्धसालिभोजनं पणीतं. विस्सासेनपि सिनेहेनपि सहत्था दायका नत्थि, राजयुत्ते दापेसि. भिक्खू निसीदित्वा भुञ्जितुं न इच्छन्ति, नानग्गरसभत्तं गहेत्वा अत्तनो अत्तनो उपट्ठाककुलं गन्त्वा तं भत्तं तेसं दत्वा तेहि दिन्नं लूखं वा पणीतं वा भुञ्जन्ति.

अथेकदिवसं रञ्ञो बहुं फलाफलं आहरिंसु. राजा ‘‘सङ्घस्स देथा’’ति आह. मनुस्सा भत्तग्गं गन्त्वा एकभिक्खुम्पि अदिस्वा ‘‘एको भिक्खुपि नत्थी’’ति रञ्ञो आरोचेसुं. ‘‘ननु वेलायेव तावा’’ति? ‘‘आम, वेला, भिक्खू पन तुम्हाकं गेहे भत्तं गहेत्वा अत्तनो अत्तनो विस्सासिकानं उपट्ठाकानं गेहं गन्त्वा तेसं दत्वा तेहि दिन्नं लूखं वा पणीतं वा भुञ्जन्ती’’ति. राजा ‘‘अम्हाकं भत्तं पणीतं, केन नु खो कारणेन अभुत्वा अञ्ञं भुञ्जन्ति, सत्थारं पुच्छिस्सामी’’ति चिन्तेत्वा विहारं गन्त्वा सत्थारं वन्दित्वा पुच्छि. सत्था ‘‘महाराज, भोजनं नाम विस्सासपरमं, तुम्हाकं गेहे विस्सासं पच्चुपट्ठापेत्वा सिनेहेन दायकानं अभावा भिक्खू भत्तं गहेत्वा अत्तनो अत्तनो विस्सासिकट्ठाने परिभुञ्जन्ति. महाराज, विस्साससदिसो अञ्ञो रसो नाम नत्थि, अविस्सासिकेन दिन्नं चतुमधुरम्पि हि विस्सासिकेन दिन्नं सामाकभत्तं न अग्घति. पोराणकपण्डितापि रोगे उप्पन्ने रञ्ञा पञ्च वेज्जकुलानि गहेत्वा भेसज्जे कारितेपि रोगे अवूपसन्ते विस्सासिकानं सन्तिकं गन्त्वा अलोणकं सामाकनीवारयागुञ्चेव उदकमत्तसित्तं अलोणकपण्णञ्च परिभुञ्जित्वा निरोगा जाता’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे ब्राम्हणकुले निब्बत्ति, ‘‘कप्पकुमारो’’तिस्स नामं अकंसु. सो वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा अपरभागे इसिपब्बज्जं पब्बजि. तदा केसवो नाम तापसो पञ्चहि तापससतेहि परिवुतो गणसत्था हुत्वा हिमवन्ते वसति. बोधिसत्तो तस्स सन्तिकं गन्त्वा पञ्चन्नं अन्तेवासिकसतानं जेट्ठन्तेवासिको हुत्वा विहासि, केसवतापसस्स हितज्झासयो ससिनेहो अहोसि. ते अञ्ञमञ्ञं अतिविय विस्सासिका अहेसुं. अपरभागे केसवो ते तापसे आदाय लोणम्बिलसेवनत्थाय मनुस्सपथं गन्त्वा बाराणसिं पत्वा राजुय्याने वसित्वा पुनदिवसे नगरं भिक्खाय पविसित्वा राजद्वारं अगमासि. राजा इसिगणं दिस्वा पक्कोसापेत्वा अन्तोनिवेसने भोजेत्वा पटिञ्ञं गहेत्वा उय्याने वसापेसि. अथ वस्सारत्ते अतिक्कन्ते केसवो राजानं आपुच्छि. राजा ‘‘भन्ते, तुम्हे महल्लका, अम्हे ताव उपनिस्साय वसथ, दहरतापसे हिमवन्तं पेसेथा’’ति आह. सो ‘‘साधू’’ति जेट्ठन्तेवासिकेन सद्धिं ते हिमवन्तं पेसेत्वा सयं एककोव ओहियि. कप्पो हिमवन्तं गन्त्वा तापसेहि सद्धिं वसि.

केसवो कप्पेन विना वसन्तो उक्कण्ठित्वा तं दट्ठुकामो हुत्वा निद्दं न लभति, तस्स निद्दं अलभन्तस्स सम्मा आहारो न परिणामं गच्छति, लोहितपक्खन्दिका अहोसि, बाळ्हा वेदना वत्तन्ति. राजा पञ्च वेज्जकुलानि गहेत्वा तापसं पटिजग्गि, रोगो न वूपसम्मति. केसवो राजानं आह ‘‘महाराज, किं मय्हं मरणं इच्छथ, उदाहु अरोगभाव’’न्ति? ‘‘अरोगभावं, भन्ते’’ति. ‘‘तेन हि मं हिमवन्तं पेसेथा’’ति. ‘‘साधु, भन्ते’’ति राजा नारदं नाम अमच्चं पक्कासापेत्वा ‘‘नारद, अम्हाकं भदन्तं गहेत्वा वनचरकेहि सद्धिं हिमवन्तं याही’’ति पेसेसि. नारदो तं तत्थ नेत्वा पच्चागमासि. केसवस्सपि कप्पे दिट्ठमत्तेयेव चेतसिकरोगो वूपसन्तो, उक्कण्ठा पटिप्पस्सम्भि. अथस्स कप्पो अलोणकेन अधूपनेन उदकमत्तसित्तपण्णेन सद्धिं सामाकनीवारयागुं अदासि, तस्स तङ्खणञ्ञेव लोहितपक्खन्दिका पटिप्पस्सम्भि.

पुन राजा नारदं पेसेसि ‘‘गच्छ केसवस्स तापसस्स पवत्तिं जानाही’’ति. सो गन्त्वा तं अरोगं दिस्वा ‘‘भन्ते, बाराणसिराजा पञ्च वेज्जकुलानि गहेत्वा पटिजग्गन्तो तुम्हे अरोगे कातुं नासक्खि, कथं ते कप्पो पटिजग्गी’’ति वत्वा पठमं गाथमाह –

१७७. ‘‘मनुस्सिन्दं जहित्वान, सब्बकामसमिद्धिनं;

कथं नु भगवा केसी, कप्पस्स रमति अस्समे’’ति.

तत्थ मनुस्सिन्दन्ति मनुस्सानं इन्दं बाराणसिराजानं. कथं नु भगवा केसीति केन नु खो उपायेन अयं अम्हाकं भगवा केसवतापसो कप्पस्स अस्समे रमतीति.

एवं अञ्ञेहि सद्धिं सल्लपन्तो विय केसवस्स अभिरतिकारणं पुच्छि. तं सुत्वा केसवो दुतियं गाथमाह –

१७८. ‘‘सादूनि रमणीयानि, सन्ति वक्खा मनोरमा;

सुभासितानि कप्पस्स, नारद रमयन्ति म’’न्ति.

तत्थ वक्खाति रुक्खा. पाळियं पन ‘‘रुक्खा’’त्वेव लिखितं. सुभासितानीति कप्पेन कथितानि सुभासितानि मं रमयन्तीति अत्थो.

एवञ्च पन वत्वा ‘‘एवं मं अभिरमापेन्तो कप्पो अलोणकं अधूपनं उदकसित्तपण्णमिस्सं सामाकनीवारयागुं पायेसि, ताय मे सरीरे ब्याधि वूपसमितो, अरोगो जातोम्ही’’ति आह. तं सुत्वा नारदो ततियं गाथमाह –

१७९. ‘‘सालीनं ओदनं भुञ्जे, सुचिं मंसूपसेचनं;

कथं सामाकनीवारं, अलोणं छादयन्ति त’’न्ति.

तत्थ भुञ्जेति भुञ्जसि, अयमेव वा पाठो. छादयन्तीति छादयति पीणेति तोसेति. गाथाबन्धसुखत्थं पन अनुनासिको कतो. इदं वुत्तं होति – यो त्वं सुचिं मंसूपसेचनं राजकुले राजारहं सालिभत्तं भुञ्जसि, तं कथमिदं सामाकनीवारं अलोणं पीणेति तोसेति, कथं ते एतं रुच्चतीति.

तं सुत्वा केसवो चतुत्थं गाथमाह –

१८०. ‘‘सादुं वा यदि वासादुं, अप्पं वा यदि वा बहुं;

विस्सत्थो यत्थ भुञ्जेय्य, विस्सासपरमा रसा’’ति.

तत्थ यदि वासादुन्ति यदि वा असादुं. विस्सत्थोति निरासङ्को विस्सासपत्तो हुत्वा. यत्थ भुञ्जेय्याति यस्मिं निवेसने एवं भुञ्जेय्य, तत्थ एवं भुत्तं यंकिञ्चि भोजनं सादुमेव. कस्मा? यस्मा विस्सासपरमा रसा, विस्सासो परमो उत्तमो एतेसन्ति विस्सासपरमा रसा. विस्साससदिसो हि अञ्ञो रसो नाम नत्थि. अविस्सासिकेन हि दिन्नं चतुमधुरम्पि विस्सासिकेन दिन्नं अम्बिलकञ्जियं न अग्घतीति.

नारदो तस्स वचनं सुत्वा रञ्ञो सन्तिकं गन्त्वा ‘‘केसवो इदं नाम कथेसी’’ति आचिक्खि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, नारदो सारिपुत्तो, केसवो बकब्रह्मा, कप्पो पन अहमेव अहोसि’’न्ति.

केसवजातकवण्णना छट्ठा.

[३४७] ७. अयकूटजातकवण्णना

सब्बायसन्ति इदं सत्था जेतवने विहरन्तो लोकत्थचरियं आरब्भ कथेसि. वत्थु महाकण्हजातके (जा. १.१२.६१ आदयो) आवि भविस्सति.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्तित्वा वयप्पत्तो उग्गहितसब्बसिप्पो पितु अच्चयेन रज्जे पतिट्ठाय धम्मेन रज्जं कारेसि. तदा मनुस्सा देवमङ्गलिका हुत्वा बहू अजेळकादयो मारेत्वा देवतानं बलिकम्मं करोन्ति. बोधिसत्तो ‘‘पाणो न हन्तब्बो’’ति भेरिं चरापेसि. यक्खा बलिकम्मं अलभमाना बोधिसत्तस्स कुज्झित्वा हिमवन्ते यक्खसमागमं गन्त्वा बोधिसत्तस्स मारणत्थाय एकं कक्खळं यक्खं पेसेसुं. सो कण्णिकमत्तं महन्तं आदित्तं अयकूटं गहेत्वा ‘‘इमिना नं पहरित्वा मारेस्सामी’’ति आगन्त्वा मज्झिमयामसमनन्तरे बोधिसत्तस्स सयनमत्थके अट्ठासि. तस्मिं खणे सक्कस्स आसनं उण्हाकारं दस्सेसि. सो आवज्जमानो तं कारणं ञत्वा इन्दवजिरं आदाय गन्त्वा यक्खस्स उपरि अट्ठासि. बोधिसत्तो यक्खं दिस्वा ‘‘किं नु खो एस मं रक्खमानो ठितो, उदाहु मारेतुकामो’’ति तेन सद्धिं सल्लपन्तो पठमं गाथमाह –

१८१. ‘‘सब्बायसं कूटमतिप्पमाणं, पग्गय्ह यो तिट्ठसि अन्तलिक्खे;

रक्खाय मे त्वं विहितो नुसज्ज, उदाहु मे चेतयसे वधाया’’ति.

तत्थ विहितो नुसज्जाति विहितो नु असि अज्ज.

बोधिसत्तो पन यक्खमेव पस्सति, न सक्कं. यक्खो सक्कस्स भयेन बोधिसत्तं पहरितुं न सक्कोति. सो बोधिसत्तस्स कथं सुत्वा ‘‘महाराज, नाहं तव रक्खणत्थाय ठितो, इमिना पन जलितेन अयकूटेन पहरित्वा तं मारेस्सामीति आगतोम्हि, सक्कस्स भयेन तं पहरितुं न सक्कोमी’’ति एतमत्थं दीपेन्तो दुतियं गाथमाह –

१८२. ‘‘दूतो अहं राजिध रक्खसानं, वधाय तुय्हं पहितोहमस्मि;

इन्दो च तं रक्खति देवराजा, तेनुत्तमङ्गं न ते फालयामी’’ति.

तं सुत्वा बोधिसत्तो इतरा द्वे गाथा अभासि –

१८३. ‘‘सचे च मं रक्खति देवराजा, देवानमिन्दो मघवा सुजम्पति;

कामं पिसाचा विनदन्तु सब्बे, न सन्तसे रक्खसिया पजाय.

१८४. ‘‘कामं कन्दन्तु कुम्भण्डा, सब्बे पंसुपिसाचका;

नालं पिसाचा युद्धाय, महती सा विभिंसिका’’ति.

तत्थ रक्खसिया पजायाति रक्खसिसङ्खाताय पजाय, रक्खससत्तानन्ति अत्थो. कुम्भण्डाति कुम्भमत्तरहस्सङ्गा महोदरा यक्खा. पंसुपिसाचकाति सङ्कारट्ठाने पिसाचा. नालन्ति पिसाचा नाम मया सद्धिं युद्धाय न समत्था. महती सा विभिंसिकाति यं पनेते यक्खा सन्निपतित्वा विभिंसिकं दस्सेन्ति, सा महती विभिंसिका भयकारणदस्सनमत्तमेव मय्हं, न पनाहं भायामीति अत्थो.

सक्को यक्खं पलापेत्वा महासत्तं ओवदित्वा ‘‘मा भायि, महाराज, इतो पट्ठाय तव रक्खा ममायत्ता’’ति वत्वा सकट्ठानमेव गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सक्को अनुरुद्धो अहोसि, बाराणसिराजा अहमेव अहोसि’’न्ति.

अयकूटजातकवण्णना सत्तमा.

[३४८] ८. अरञ्ञजातकवण्णना

अरञ्ञा गाममागम्माति इदं सत्था जेतवने विहरन्तो थुल्लकुमारिकापलोभनं आरब्भ कथेसि. वत्थु चूळनारदकस्सपजातके (जा. १.१३.४० आदयो) आवि भविस्सति.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं उग्गहितसिप्पो भरियाय कालकताय पुत्तं गहेत्वा इसिपब्बज्जं पब्बजित्वा हिमवन्ते वसन्तो पुत्तं अस्समपदे ठपेत्वा फलाफलत्थाय गच्छति. तदा चोरेसु पच्चन्तगामं पहरित्वा करमरे गहेत्वा गच्छन्तेसु एका कुमारिका पलायित्वा तं अस्समपदं पत्वा तापसकुमारं पलोभेत्वा सीलविनासं पापेत्वा ‘‘एहि गच्छामा’’ति आह. ‘‘पिता ताव मे आगच्छतु, तं पस्सित्वा गमिस्सामी’’ति. ‘‘तेन हि दिस्वा आगच्छा’’ति निक्खमित्वा अन्तरामग्गे निसीदि. तापसकुमारो पितरि आगते पठमं गाथमाह –

१८५. ‘‘अरञ्ञा गाममागम्म, किंसीलं किंवतं अहं;

पुरिसं तात सेवेय्यं, तं मे अक्खाहि पुच्छितो’’ति.

तत्थ अरञ्ञा गाममागम्माति तात अहं इतो अरञ्ञतो मनुस्सपथं वसनत्थाय गतो वसनगामं पत्वा किं करोमीति.

अथस्स पिता ओवादं ददन्तो तिस्सो गाथा अभासि –

१८६. ‘‘यो तं विस्सासये तात, विस्सासञ्च खमेय्य ते;

सुस्सूसी च तितिक्खी च, तं भजेहि इतो गतो.

१८७. ‘‘यस्स कायेन वाचाय, मनसा नत्थि दुक्कटं;

उरसीव पतिट्ठाय, तं भजेहि इतो गतो.

१८८. ‘‘हलिद्दिरागं कपिचित्तं, पुरिसं रागविरागिनं;

तादिसं तात मा सेवि, निम्मनुस्सम्पि चे सिया’’ति.

तत्थ यो तं विस्सासयेति यो पुरिसो तं विस्सासेय्य न परिसङ्केय्य. विस्सासञ्च खमेय्य तेति यो च अत्तनि कयिरमानं तव विस्सासं पत्तो निरासङ्को तं खमेय्य. सुस्सूसीति यो च तव विस्सासवचनं सोतुमिच्छति. तितिक्खीति यो च तया कतं अपराधं खमति. तं भजेहीति तं पुरिसं भजेय्यासि पयिरुपासेय्यासि. उरसीव पतिट्ठायाति यथा तस्स उरसि पतिट्ठाय वड्ढितो ओरसपुत्तो त्वम्पि तादिसो उरसि पतिट्ठितपुत्तो विय हुत्वा एवरूपं पुरिसं भजेय्यासीति अत्थो.

हलिद्दिरागन्ति हलिद्दिरागसदिसं अथिरचित्तं. कपिचित्तन्ति लहुपरिवत्तिताय मक्कटचित्तं. रागविरागिनन्ति मुहुत्तेनेव रज्जनविरज्जनसभावं. निम्मनुस्सम्पि चे सियाति सचेपि सकलं जम्बुदीपतलं कायदुच्चरितादिविरहितस्स मनुस्सस्स अभावेन निम्मनुस्सं सिया, तथापि, तात, तादिसं लहुचित्तं मा सेवि, सब्बम्पि मनुस्सपथं विचिनित्वा हेट्ठा वुत्तगुणसम्पन्नमेव भजेय्यासीति अत्थो.

तं सुत्वा तापसकुमारो ‘‘अहं, तात, इमेहि गुणेहि समन्नागतं पुरिसं कत्थ लभिस्सामि, न गच्छामि, तुम्हाकञ्ञेव सन्तिके वसिस्सामी’’ति वत्वा निवत्ति. अथस्स पिता कसिणपरिकम्मं आचिक्खि. उभोपि अपरिहीनज्झाना ब्रह्मलोकपरायणा अहेसुं.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा पुत्तो च कुमारिका च एतेयेव अहेसुं, पिता तापसो पन अहमेव अहोसि’’न्ति.

अरञ्ञजातकवण्णना अट्ठमा.

[३४९] ९. सन्धिभेदजातकवण्णना

नेव इत्थीसु सामञ्ञन्ति इदं सत्था जेतवने विहरन्तो पेसुञ्ञसिक्खापदं आरब्भ कथेसि. एकस्मिं किर समये सत्था ‘‘छब्बग्गिया भिक्खू पेसुञ्ञं उपसंहरन्ती’’ति सुत्वा ते पक्कोसापेत्वा ‘‘सच्चं किर तुम्हे, भिक्खवे, भिक्खूनं भण्डनजातानं कलहजातानं विवादापन्नानं पेसुञ्ञं उपसंहरथ, तेन अनुप्पन्नानि चेव भण्डनानि उप्पज्जन्ति, उप्पन्नानि च भिय्योभावाय संवत्तन्ती’’ति पुच्छित्वा ‘‘सच्च’’न्ति वुत्ते ते भिक्खू गरहित्वा ‘‘भिक्खवे, पिसुणा वाचा नाम तिखिणसत्तिपहारसदिसा, दळ्हो विस्सासोपि ताय खिप्पं भिज्जति, तञ्च पन गहेत्वा अत्तनो मेत्तिभिन्दनकजनो सीहउसभसदिसो होती’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स पुत्तो हुत्वा वयप्पत्तो तक्कसिलायं उग्गहितसिप्पो पितु अच्चयेन धम्मेन रज्जं कारेसि. तदा एको गोपालको अरञ्ञे गोकुलेसु गावो पटिजग्गित्वा आगच्छन्तो एकं गब्भिनिं असल्लक्खेत्वा पहाय आगतो. तस्सा एकाय सीहिया सद्धिं विस्सासो उप्पज्जि. ता उभोपि दळ्हमित्ता हुत्वा एकतो विचरन्ति. अपरभागे गावी वच्छकं, सीही सीहपोतकं विजायि. ते उभोपि जना कुलेन आगतमेत्तिया दळ्हमित्ता हुत्वा एकतो विचरन्ति. अथेको वनचरको अरञ्ञं पविसित्वा तेसं विस्सासं दिस्वा अरञ्ञे उप्पज्जनकभण्डं आदाय बाराणसिं गन्त्वा रञ्ञो दत्वा ‘‘अपि ते, सम्म, किञ्चि अरञ्ञे अच्छरियं दिट्ठपुब्ब’’न्ति रञ्ञा पुट्ठो ‘‘देव, अञ्ञं किञ्चि न पस्सामि, एकं पन सीहञ्च उसभञ्च अञ्ञमञ्ञं विस्सासिके एकतो विचरन्ते अद्दस’’न्ति आह. ‘‘एतेसं ततिये उप्पन्ने भयं भविस्सति, यदा तेसं ततियं पस्सति, अथ मे आचिक्खेय्यासी’’ति. ‘‘साधु, देवा’’ति.

वनचरके पन बाराणसिं गते एको सिङ्गालो सीहञ्च उसभञ्च उपट्ठहि. वनचरको अरञ्ञं गन्त्वा तं दिस्वा ‘‘ततियस्स उप्पन्नभावं रञ्ञो कथेस्सामी’’ति नगरं गतो. सिङ्गालो चिन्तेसि ‘‘मया ठपेत्वा सीहमंसञ्च उसभमंसञ्च अञ्ञं अखादितपुब्बं नाम नत्थि, इमे भिन्दित्वा इमेसं मंसं खादिस्सामी’’ति. सो ‘‘अयं तं एवं वदति, अयं तं एवं वदती’’ति उभोपि ते अञ्ञमञ्ञं भिन्दित्वा न चिरस्सेव कलहं कारेत्वा मरणाकारप्पत्ते अकासि. वनचरकोपि गन्त्वा रञ्ञो ‘‘तेसं, देव, ततियो उप्पन्नो’’ति आह. ‘‘को सो’’ति? ‘‘सिङ्गालो, देवा’’ति. राजा ‘‘सो उभो मित्ते भिन्दित्वा मारापेस्सति, मयं तेसं मतकाले सम्पापुणिस्सामा’’ति वत्वा रथं अभिरुय्ह वनचरकेन मग्गदेसकेन गच्छन्तो तेसु अञ्ञमञ्ञं कलहं कत्वा जीवितक्खयं पत्तेसु सम्पापुणि. सिङ्गालो पन हट्ठतुट्ठो एकवारं सीहस्स मंसं खादति, एकवारं उसभस्स मंसं खादति. राजा ते उभोपि जीवितक्खयप्पत्ते दिस्वा रथे ठितोव सारथिना सद्धिं सल्लपन्तो इमा गाथा अभासि –

१८९. ‘‘नेव इत्थीसु सामञ्ञं, नापि भक्खेसु सारथि;

अथस्स सन्धिभेदस्स, पस्स याव सुचिन्तितं.

१९०. ‘‘असि तिक्खोव मंसम्हि, पेसुञ्ञं परिवत्तति;

यत्थूसभञ्च सीहञ्च, भक्खयन्ति मिगाधमा.

१९१. ‘‘इमं सो सयनं सेति, यमिमं पस्ससि सारथि;

यो वाचं सन्धिभेदस्स, पिसुणस्स निबोधति.