१२. सम्पन्नसीलसुत्तवण्णना

१११. द्वादसमे सम्पन्नसीलाति एत्थ तिविधं सम्पन्नं परिपुण्णसमङ्गीमधुरवसेन. तेसु –

‘‘सम्पन्नं सालिकेदारं, सुवा भुञ्जन्ति कोसिय;

पटिवेदेमि ते ब्रह्मे, न ने वारेतुमुस्सहे’’ति. (जा. १.१४.१) –

एत्थ परिपुण्णत्थो सम्पन्नसद्दो. ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो उपगतो समुपगतो सम्पन्नो समन्नागतो’’ति (विभ. ५११) एत्थ समङ्गिभावत्थो सम्पन्नसद्दो. ‘‘इमिस्सा, भन्ते, महापथविया हेट्ठिमतलं सम्पन्नं – सेय्यथापि खुद्दमधुं अनीलकं, एवमस्साद’’न्ति (पारा. १७) एत्थ मधुरत्थो सम्पन्नसद्दो. इध पन परिपुण्णत्थेपि समङ्गिभावेपि वट्टति, तस्मा सम्पन्नसीलाति परिपुण्णसीला हुत्वातिपि, सीलसमङ्गिनो हुत्वातिपि एवमेत्थ अत्थो वेदितब्बो.

तत्थ ‘‘परिपुण्णसीला’’ति इमिना अत्थेन खेत्तदोसविगमेन खेत्तपारिपूरि विय परिपुण्णं नाम होति. तेन वुत्तं ‘‘खेत्तदोसविगमेन खेत्तपारिपूरि विय सीलदोसविगमेन सीलपारिपूरि वुत्ता’’ति. ‘‘सीलसमङ्गिनो’’ति इमिना पन अत्थेन सीलेन समङ्गीभूता समोधानगता समन्नागता हुत्वा विहरथाति वुत्तं होति. तत्थ द्वीहि कारणेहि सम्पन्नसीलता होति सीलविपत्तिया आदीनवदस्सनेन, सीलसम्पत्तिया आनिसंसदस्सनेन च. तदुभयम्पि विसुद्धिमग्गे (विसुद्धि. १.२०-२१) वुत्तनयेन वेदितब्बं. तत्थ ‘‘सम्पन्नसीला’’ति एत्तावता किर भगवा चतुपारिसुद्धिसीलं उद्दिसित्वा ‘‘पातिमोक्खसंवरसंवुता’’ति इमिना जेट्ठकसीलं दस्सेतीतिआदिना एत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव. किमस्स उत्तरि करणीयन्ति एवं सम्पन्नसीलानं विहरतं तुम्हाकं किन्ति सिया उत्तरि कातब्बं, पटिपज्जितब्बन्ति चेति अत्थो.

एवं ‘‘सम्पन्नसीला, भिक्खवे, विहरथा’’तिआदिना सम्पादनूपायेन सद्धिं सीलसम्पदाय भिक्खू नियोजेन्तो अनेकपुग्गलाधिट्ठानं कत्वा देसनं आरभित्वा इदानि यस्मा एकपुग्गलाधिट्ठानवसेन पवत्तितापि भगवतो देसना अनेकपुग्गलाधिट्ठानाव होति सब्बसाधारणत्ता, तस्मा तं एकपुग्गलाधिट्ठानवसेन दस्सेन्तो ‘‘चरतो चेपि, भिक्खवे, भिक्खुनो’’तिआदिमाह.

तत्थ अभिज्झायति एतायाति अभिज्झा, परभण्डाभिज्झायनलक्खणस्स लोभस्सेतं अधिवचनं. ब्यापज्जति पूतिभवति चित्तं एतेनाति ब्यापादो, ‘‘अनत्थं मे अचरी’’तिआदिनयप्पवत्तस्स एकूनवीसतिआघातवत्थुविसयस्स दोसस्सेतं अधिवचनं. उभिन्नम्पि ‘‘तत्थ कतमो कामच्छन्दो? यो कामेसु कामच्छन्दो कामस्नेहो कामपिपासा कामपरिळाहो काममुच्छा कामज्झोसान’’न्ति (ध. स. ११५९), तथा ‘‘लोभो लुब्भना लुब्भितत्तं सारागो सारज्जना सारज्जितत्तं अभिज्झा लोभो अकुसलमूल’’न्तिआदिना (ध. स. ३९१), ‘‘दोसो दुस्सना दुस्सितत्तं ब्यापत्ति ब्यापज्जना ब्यापज्जितत्तं विरोधो पटिविरोधो चण्डिक्कं असुरोपो अनत्तमनता चित्तस्सा’’तिआदिना (ध. स. ४१८, १२३७) च वित्थारो वेदितब्बो. विगतो होतीति अयञ्च अभिज्झा, अयञ्च ब्यापादो विगतो होति अपगतो, पहीनो होतीति अत्थो. एत्तावता कामच्छन्दनीवरणस्स च ब्यापादनीवरणस्स च पहानं दस्सितं होति.

थिनमिद्धन्ति थिनञ्चेव मिद्धञ्च. तेसु चित्तस्स अकम्मञ्ञता थिनं, आलसियस्सेतं अधिवचनं, वेदनादीनं तिण्णं खन्धानं अकम्मञ्ञता मिद्धं, पचलायिकभावस्सेतं अधिवचनं. उभिन्नम्पि ‘‘तत्थ कतमं थिनं? या चित्तस्स अकल्लता अकम्मञ्ञता ओलीयना सल्लीयना. तत्थ कतमं मिद्धं? या कायस्स अकल्लता अकम्मञ्ञता ओनाहो परियोनाहो’’तिआदिना (ध. स. ११६२-११६३) नयेन वित्थारो वेदितब्बो.

उद्धच्चकुक्कुच्चन्ति उद्धच्चञ्चेव कुक्कुच्चञ्च. तत्थ उद्धच्चं नाम चित्तस्स उद्धताकारो, कुक्कुच्चं नाम अकतकल्याणस्स कतपापस्स तप्पच्चया विप्पटिसारो. उभिन्नम्पि ‘‘तत्थ कतमं उद्धच्चं? यं चित्तस्स उद्धच्चं अवूपसमो चेतसो विक्खेपो भन्तत्तं चित्तस्सा’’तिआदिना (ध. स. ११६५) वित्थारो. ‘‘अकतं वत मे कल्याणं, अकतं कुसलं, अकतं भीरुत्तानं; कतं पापं, कतं लुद्दं, कतं किब्बिस’’न्तिआदिना (म. नि. ३.२४८; नेत्ति. १२०) पवत्तिआकारो वेदितब्बो.

विचिकिच्छाति बुद्धादीसु संसयो. तस्सा ‘‘सत्थरि कङ्खति विचिकिच्छति, नाधिमुच्चति न सम्पसीदती’’तिआदिना (विभ. ९१५), ‘‘तत्थ कतमा विचिकिच्छा? या कङ्खा कङ्खायना कङ्खायितत्तं विमति विचिकिच्छा द्वेळ्हकं द्वेधापथो संसयो अनेकंसग्गाहो आसप्पना परिसप्पना अपरियोगाहना छम्भितत्तं चित्तस्स मनोविलेखो’’तिआदिना (ध. स. १००८) च नयेन वित्थारो वेदितब्बो.

एत्थ च अभिज्झाब्यापादादीनं विगमवसेन च पहानवसेन च तेसं विक्खम्भनमेव वेदितब्बं. यं सन्धाय वुत्तं –

‘‘सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति. ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहरति, ब्यापादपदोसा चित्तं परिसोधेति. थिनमिद्धं पहाय विगतथिनमिद्धो विहरति आलोकसञ्ञी सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेति. उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति अज्झत्तं उपसन्तचित्तो उद्धच्चकुक्कुच्चा चित्तं परिसोधेति. विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेती’’ति (विभ. ५०८).

तत्थ यथा नीवरणानं पहानं होति, तं वेदितब्बं. कथञ्च नेसं पहानं होति? कामच्छन्दस्स ताव असुभनिमित्ते योनिसोमनसिकारेन पहानं होति, सुभनिमित्ते अयोनिसोमनसिकारेनस्स उप्पत्ति. तेनाह भगवा –

‘‘अत्थि, भिक्खवे, सुभनिमित्तं. तत्थ अयोनिसोमनसिकारबहुलीकारो अयमाहारो अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाय, उप्पन्नस्स वा कामच्छन्दस्स भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).

एवं सुभनिमित्ते अयोनिसोमनसिकारेन उप्पज्जन्तस्स कामच्छन्दस्स तप्पटिपक्खतो असुभनिमित्ते योनिसोमनसिकारेन पहानं होति. तत्थ असुभनिमित्तं नाम असुभम्पि असुभारम्मणम्पि, योनिसोमनसिकारो नाम उपायमनसिकारो, पथमनसिकारो, अनिच्चे अनिच्चन्ति वा, दुक्खे दुक्खन्ति वा, अनत्तनि अनत्ताति वा, असुभे असुभन्ति वा मनसिकारो. तं तत्थ बहुलं पवत्तयतो कामच्छन्दो पहीयति. तेनाह भगवा –

‘‘अत्थि, भिक्खवे, असुभनिमित्तं. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा कामच्छन्दस्स अनुप्पादाय, उप्पन्नस्स वा कामच्छन्दस्स पहानाया’’ति (सं. नि. ५.२३२).

अपिच छ धम्मा कामच्छन्दस्स पहानाय संवत्तन्ति – असुभनिमित्तस्स उग्गहो, असुभभावनानुयोगो, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, कल्याणमित्तता, सप्पायकथाति. दसविधञ्हि असुभनिमित्तं उग्गण्हन्तस्सपि कामच्छन्दो पहीयति, भावेन्तस्सपि, इन्द्रियेसु पिहितद्वारस्सपि चतुन्नं पञ्चन्नं आलोपानं ओकासे सति उदकं पिवित्वा यापनसीलताय भोजने मत्तञ्ञुनोपि. तेन वुत्तं –

‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति. (थेरगा. ९८३);

असुभकम्मिकतिस्सत्थेरसदिसे कल्याणमित्ते सेवन्तस्सपि कामच्छन्दो पहीयति, ठाननिसज्जादीसु दसअसुभनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा कामच्छन्दस्स पहानाय संवत्तन्ती’’ति.

पटिघनिमित्ते आयोनिसोमनसिकारेन ब्यापादस्स उप्पादो होति. तत्थ पटिघम्पि पटिघनिमित्तं, पटिघारम्मणम्पि पटिघनिमित्तं. अयोनिसोमनसिकारो सब्बत्थ एकलक्खणो एव. तं तस्मिं निमित्ते बहुलं पवत्तयतो ब्यापादो उप्पज्जति. तेनाह भगवा –

‘‘अत्थि, भिक्खवे, पटिघनिमित्तं. तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा ब्यापादस्स उप्पादाय, उप्पन्नस्स वा ब्यापादस्स भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).

मेत्ताय पन चेतोविमुत्तिया योनिसोमनसिकारेनस्स पहानं होति. तत्थ ‘‘मेत्ता’’ति वुत्ते अप्पनापि उपचारोपि वट्टति, ‘‘चेतोविमुत्ती’’ति पन अप्पनाव. योनिसोमनसिकारो वुत्तलक्खणोव. तं तत्थ बहुलं पवत्तयतो ब्यापादो पहीयति. तेनाह भगवा –

‘‘अत्थि, भिक्खवे, मेत्ताचेतोविमुत्ति. तत्थ योनिसोमनसिकारबहुलीकारो अयमाहारो अनुप्पन्नस्स वा ब्यापादस्स अनुप्पादाय उप्पन्नस्स वा ब्यापादस्स पहानाया’’ति (सं. नि. ५.२३२).

अपिच छ धम्मा ब्यापादस्स पहानाय संवत्तन्ति – मेत्तानिमित्तस्स उग्गहो, मेत्ताभावना, कम्मस्सकतापच्चवेक्खणा, पटिसङ्खानबहुलता, कल्याणमित्तता, सप्पायकथाति. ओधिसकानोधिसकदिसाफरणानञ्हि अञ्ञतरवसेन मेत्तं उग्गण्हन्तस्सपि ब्यापादो पहीयति, ओधिसो अनोधिसो दिसाफरणवसेन मेत्तं भावेन्तस्सपि ब्यापादो पहीयति, ‘‘त्वं एतस्स कुद्धो किं करिस्ससि, किमस्स सीलादीनि विनासेतुं सक्खिस्ससि ननु त्वं अत्तनो कम्मेन आगन्त्वा अत्तनो कम्मेनेव गमिस्ससि, परस्स कुज्झनं नाम वीतच्चिकङ्गारतत्तअयसलाकगूथादीनि गहेत्वा परं पहरितुकामता विय होति. एसोपि तव कुद्धो किं करिस्सति, किं ते सीलादीनि विनासेतुं सक्खिस्सति एस अत्तनो कम्मेन आगन्त्वा अत्तनो कम्मेनेव गमिस्सति, अप्पटिच्छितपहेणकं विय, पटिवातं खित्तरजोमुट्ठि विय च एतस्सेव एस कोधो मत्थके पतिस्सती’’ति एवं अत्तनो च परस्स चाति उभयेसं कम्मस्सकतं पच्चवेक्खतोपि, पच्चवेक्खित्वा पटिसङ्खाने ठितस्सपि, अस्सगुत्तत्थेरसदिसे मेत्ताभावनारते कल्याणमित्ते सेवन्तस्सापि ब्यापादो पहीयति, ठाननिसज्जादीसु मेत्तानिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा ब्यापादस्स पहानाय संवत्तन्ती’’ति.

अरतिआदीसु अयोनिसोमनसिकारेन थिनमिद्धस्स उप्पादो होति. अरति नाम उक्कण्ठितता, तन्दी नाम कायालसियं, विजम्भिता नाम कायविनमना, भत्तसम्मदो नाम भत्तमुच्छा भत्तपरिळाहो, चेतसो लीनत्तं नाम चित्तस्स लीनाकारो. इमेसु अरतिआदीसु अयोनिसोमनसिकारं बहुलं पवत्तयतो थिनमिद्धं उप्पज्जति. तेनाह भगवा –

‘‘अत्थि, भिक्खवे, अरति तन्दी विजम्भिता भत्तसम्मदो चेतसो लीनत्तं. तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा थिनमिद्धस्स उप्पादाय, उप्पन्नस्स वा थिनमिद्धस्स भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).

आरम्भधातुआदीसु पन योनिसोमनसिकारेन थिनमिद्धस्स पहानं होति. आरम्भधातु नाम पठमारम्भवीरियं, निक्कमधातु नाम कोसज्जतो निक्खन्तताय ततो बलवतरं, परक्कमधातु नाम परं परं ठानं अक्कमनतो ततोपि बलवतरं. इमस्मिं तिप्पभेदे वीरिये योनिसोमनसिकारं बहुलं पवत्तयतो थिनमिद्धं पहीयति. तेनाह –

‘‘अत्थि, भिक्खवे, आरम्भधातु, निक्कमधातु, परक्कमधातु. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा थिनमिद्धस्स अनुप्पादाय, उप्पन्नस्स वा थिनमिद्धस्स पहानाया’’ति (सं. नि. ५.२३२).

अपिच छ धम्मा थिनमिद्धस्स पहानाय संवत्तन्ति, अतिभोजने निमित्तग्गाहो – इरियापथसम्परिवत्तनता, आलोकसञ्ञामनसिकारो, अब्भोकासवासो, कल्याणमित्तता, सप्पायकथाति. आहरहत्थकभुत्तवमितकतत्थवट्टकअलंसाटककाकमासकभोजनं भुञ्जित्वा रत्तिट्ठानदिवाट्ठाने निसिन्नस्स हि समणधम्मं करोतो थिनमिद्धं महाहत्थी विय ओत्थरन्तं आगच्छति, चतुपञ्चआलोपओकासं पन ठपेत्वा पानीयं पिवित्वा यापनसीलस्स भिक्खुनो तं न होति. एवं अतिभोजने निमित्तं गण्हन्तस्सपि थिनमिद्धं पहीयति. यस्मिं इरियापथे थिनमिद्धं ओक्कमति, ततो अञ्ञं परिवत्तेन्तस्सपि, रत्तिं चन्दालोकं दीपालोकं उक्कालोकं दिवा सूरियालोकं मनसिकरोन्तस्सपि, अब्भोकासे वसन्तस्सपि महाकस्सपत्थेरसदिसे विगतथिनमिद्धे कल्याणमित्ते सेवन्तस्सपि थिनमिद्धं पहीयति, ठाननिसज्जादीसु धुतङ्गनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा थिनमिद्धस्स पहानाय संवत्तन्ती’’ति.

चेतसो अवूपसमे अयोनिसोमनसिकारेन उद्धच्चकुक्कुच्चस्स उप्पादो होति. अवूपसमो नाम अवूपसन्ताकारो, अत्थतो तं उद्धच्चकुक्कुच्चमेव. तत्थ अयोनिसोमनसिकारं बहुलं पवत्तयतो उद्धच्चकुक्कुच्चं उप्पज्जति. तेनाह –

‘‘अत्थि, भिक्खवे, चेतसो अवूपसमो. तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स उप्पादाय, उप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).

समाधिसङ्खाते पन चेतसो वूपसमे योनिसोमनसिकारेनस्स पहानं होति. तेनाह –

‘‘अत्थि, भिक्खवे, चेतसो वूपसमो. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स अनुप्पादाय, उप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स पहानाया’’ति (सं. नि. ५.२३२).

अपिच छ धम्मा उद्धच्चकुक्कुच्चस्स पहानाय संवत्तन्ति – बहुस्सुतता, परिपुच्छकता, विनये पकतञ्ञुता, वुड्ढसेविता, कल्याणमित्तता, सप्पायकथाति. बाहुसच्चेनपि हि एकं वा द्वे वा तयो वा चत्तारो वा पञ्च वा निकाये पाळिवसेन च अत्थवसेन च उग्गण्हन्तस्सपि उद्धच्चकुक्कुच्चं पहीयति, कप्पियाकप्पियपरिपुच्छाबहुलस्सपि, विनयपञ्ञत्तियं चिण्णवसीभावताय पकतञ्ञुनोपि, वुड्ढे महल्लकत्थेरे उपसङ्कमन्तस्सपि, उपालित्थेरसदिसे विनयधरे कल्याणमित्ते सेवन्तस्सपि उद्धच्चकुक्कुच्चं पहीयति, ठाननिसज्जादीसु कप्पियाकप्पियनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा उद्धच्चकुक्कुच्चस्स पहानाय संवत्तन्ती’’ति.

विचिकिच्छाट्ठानियेसु धम्मेसु अयोनिसोमनसिकारेन विचिकिच्छाय उप्पादो होति. विचिकिच्छाट्ठानिया धम्मा नाम पुनप्पुनं विचिकिच्छाय कारणत्ता विचिकिच्छाव. तत्थ अयोनिसोमनसिकारं बहुलं पवत्तयतो विचिकिच्छा उप्पज्जति. तेनाह –

‘‘अत्थि, भिक्खवे, विचिकिच्छाट्ठानिया धम्मा. तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नाय वा विचिकिच्छाय उप्पादाय, उप्पन्नाय वा विचिकिच्छाय भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).

कुसलादिधम्मेसु पन योनिसोमनसिकारेन विचिकिच्छाय पहानं होति. तेनाह –

‘‘अत्थि, भिक्खवे, कुसलाकुसला धम्मा, सावज्जानवज्जा धम्मा, सेवितब्बासेवितब्बा धम्मा, हीनपणीता धम्मा, कण्हसुक्कसप्पटिभागा धम्मा. तत्थ योनिसोमनसिकारबहुलीकारो अयमाहारो अनुप्पन्नाय वा विचिकिच्छाय अनुप्पादाय, उप्पन्नाय वा विचिकिच्छाय पहानाया’’ति (सं. नि. ५.२३२).

अपिच छ धम्मा विचिकिच्छाय पहानाय संवत्तन्ति बहुस्सुतता, परिपुच्छकता, विनये पकतञ्ञुता, अधिमोक्खबहुलता, कल्याणमित्तता, सप्पायकथाति. बाहुसच्चवसेनपि हि एकं वा…पे… पञ्च वा निकाये पाळिवसेन च अत्थवसेन च उग्गण्हन्तस्सपि विचिकिच्छा पहीयति, तीणि रतनानि आरब्भ कुसलादिभेदेसु धम्मेसु परिपुच्छाबहुलस्सपि, विनये चिण्णवसीभावस्सपि, तीसु रतनेसु ओकप्पनीय, सद्धासङ्खात, अधिमोक्खबहुलस्सपि, सद्धाधिमुत्ते वक्कलित्थेरसदिसे कल्याणमित्ते सेवन्तस्सपि विचिकिच्छा पहीयति, ठाननिसज्जादीसु तिण्णं रतनानं गुणनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा विचिकिच्छाय पहानाय संवत्तन्ती’’ति.

एत्थ च यथावुत्तेहि तेहि तेहि धम्मेहि विक्खम्भनवसेन पहीनानं इमेसं नीवरणानं कामच्छन्दनीवरणस्स ताव अरहत्तमग्गेन अच्चन्तप्पहानं होति, तथा थिनमिद्धनीवरणस्स उद्धच्चनीवरणस्स च. ब्यापादनीवरणस्स पन कुक्कुच्चनीवरणस्स च अनागामिमग्गेन, विचिकिच्छानीवरणस्स सोतापत्तिमग्गेन अच्चन्तप्पहानं होति. तस्मा तेसं तथा पहानाय उपकारधम्मे दस्सेतुं ‘‘आरद्धं होति वीरिय’’न्तिआदि आरद्धं. इदमेव वा यथावुत्तं अभिज्झादीनं नीवरणानं पहानं, यस्मा हीनवीरियताय कुसीतेन, अनुपट्ठितस्सतिताय मुट्ठस्सतिना, अपटिप्पस्सद्धदरथताय सारद्धकायेन, असमाहितताय विक्खित्तचित्तेन न कदाचिपि ते सक्का निब्बत्तेतुं, पगेव इतरं, तस्मा यथा पटिपन्नस्स सो अभिज्झादीनं विगमो पहानं सम्भवति, तं दस्सेतुं ‘‘आरद्धं होति वीरिय’’न्तिआदि आरद्धं. तस्सत्थो – तेसं नीवरणानं पहानाय सब्बेसम्पि वा संकिलेसधम्मानं समुच्छिन्दनत्थाय वीरियं आरद्धं होति, पग्गहितं असिथिलप्पवत्तन्ति वुत्तं होति. आरद्धत्ता एव च अन्तरा सङ्कोचस्स अनापज्जनतो असल्लीनं.

उपट्ठिता सति असम्मुट्ठाति न केवलञ्च वीरियमेव, सतिपि आरम्मणाभिमुखभावेन उपट्ठिता होति, तथा उपट्ठितत्ता एव च चिरकतचिरभासितानं सरणसमत्थताय असम्मुट्ठा. पस्सद्धोति कायचित्तदरथप्पस्सम्भनेन कायोपिस्स पस्सद्धो होति. तत्थ यस्मा नामकाये पस्सद्धे रूपकायोपिस्स पस्सद्धो एव होति, तस्मा ‘‘नामकायो रूपकायो’’ति अविसेसेत्वा ‘‘पस्सद्धो कायो’’ति वुत्तं. असारद्धोति सो च पस्सद्धत्ता एव असारद्धो, विगतदरथोति वुत्तं होति. समाहितं चित्तं एकग्गन्ति चित्तम्पिस्स सम्मा आहितं सुट्ठु ठपितं अप्पितं विय होति, समाहितत्ता एव च एकग्गं अचलं निप्फन्दनं निरिञ्जनन्ति.

एत्तावता झानमग्गानं पुब्बभागपटिपदा कथिता. तेनेवाह –

‘‘चरम्पि, भिक्खवे, भिक्खु एवंभूतो आतापी ओत्तापी सततं समितं आरद्धवीरियो पहितत्तोति वुच्चती’’ति (इतिवु. ११०).

तस्सत्थो हेट्ठा वुत्तो एव.

गाथासु यतं चरेति यतमानो चरेय्य, चङ्कमनादिवसेन गमनं कप्पेन्तोपि ‘‘अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमती’’तिआदिना (सं. नि. ५.६५१-६६२; विभ. ३९०) नयेन वुत्तसम्मप्पधानवीरियवसेन यतन्तो घटेन्तो वायमन्तो यथा अकुसला धम्मा पहीयन्ति, कुसला धम्मा भावनापारिपूरिं गच्छन्ति, एवं गमनं कप्पेय्याति अत्थो. एस नयो सेसेसुपि. केचि पन ‘‘यत’’न्ति एतस्स संयतोति अत्थं वदन्ति. तिट्ठेति तिट्ठेय्य ठानं कप्पेय्य. अच्छेति निसीदेय्य. सयेति निपज्जेय्य. यतमेनं पसारयेति एतं पसारेतब्बं हत्थपादादिं यतं यतमानो यथावुत्तवीरियसमङ्गीयेव हुत्वा पसारेय्य, सब्बत्थ पमादं विजहेय्याति अधिप्पायो.

इदानि यथा पटिपज्जन्तो यतं यतमानो नाम होति, तं पटिपदं दस्सेतुं ‘‘उद्ध’’न्तिआदि वुत्तं. तत्थ उद्धन्ति उपरि. तिरियन्ति तिरियतो, पुरत्थिमदिसादिवसेन समन्ततो दिसाभागेसूति अत्थो. अपाचीनन्ति हेट्ठा. यावता जगतो गतीति यत्तका सत्तसङ्खारभेदस्स लोकस्स पवत्ति, तत्थ सब्बत्थाति अत्थो. एत्तावता अनवसेसतो सम्मसनञाणस्स विसयं सङ्गहेत्वा दस्सेति. समवेक्खिताति सम्मा हेतुना ञायेन अवेक्खिता, अनिच्चादिवसेन विपस्सकोति वुत्तं होति. धम्मानन्ति सत्तसुञ्ञानं. खन्धानन्ति रूपादीनं पञ्चन्नं खन्धानं. उदयब्बयन्ति उदयञ्च वयञ्च. इदं वुत्तं होति – उपरि तिरियं अधोति तिसङ्गहे सब्बस्मिं लोके अतीतादिभेदभिन्नानं पञ्चुपादानक्खन्धसङ्खातानं सब्बेसं रूपारूपधम्मानं अनिच्चतादिसम्मसनाधिगतेन उदयब्बयञाणेन पञ्चवीसतिया आकारेहि उदयं, पञ्चवीसतिया आकारेहि वयञ्च समवेक्खिता समनुपस्सिता भवेय्याति.

चेतोसमथसामीचिन्ति चित्तसंकिलेसानं अच्चन्तवूपसमनतो चेतोसमथसङ्खातस्स अरियमग्गस्स अनुच्छविकपटिपदं ञाणदस्सनविसुद्धिं. सिक्खमानन्ति पटिपज्जमानं भावेन्तं ञाणपरम्परं निब्बत्तेन्तं. सदाति सब्बकालं, रत्तिञ्चेव दिवा च. सतन्ति चतुसम्पजञ्ञेन समन्नागताय सतिया सतोकारिं. सततं पहितत्तोति सब्बकालं पहितत्तो निब्बानं पटिपेसितत्तोति तथाविधं भिक्खुं बुद्धादयो अरिया आहु आचिक्खन्ति कथेन्ति. सेसं वुत्तनयमेव.

द्वादसमसुत्तवण्णना निट्ठिता.