१. ब्राह्मणधम्मयागसुत्तवण्णना
१००. चतुक्कनिपातस्स पठमे अहन्ति अत्तनिद्देसो. यो हि परो न होति, सो नियकज्झत्तसङ्खातो अत्ता ‘‘अह’’न्ति वुच्चति. अस्मीति पटिजानना. यो परमत्थब्राह्मणभावो ‘‘अह’’न्ति वुच्चमानो, तस्स अत्तनि अत्थिभावं पटिजानन्तो हि सत्था ‘‘अस्मी’’ति अवोच. ‘‘अहमस्मी’’ति च यथा ‘‘अहमस्मि ब्रह्मा महाब्रह्मा, सेय्योहमस्मी’’ति च अप्पहीनदिट्ठिमानानुसया पुथुज्जना अत्तनो दिट्ठिमानमञ्ञनाभिनिवेसवसेन अभिवदन्ति, न एवं वुत्तं. सब्बसो पन पहीनदिट्ठिमानानुसयो भगवा समञ्ञं अनतिधावन्तो लोकसमञ्ञानुरोधेन वेनेय्यसन्तानेसु धम्मं पतिट्ठपेन्तो केवलं तादिसस्स गुणस्स अत्तनि विज्जमानतं पटिजानन्तो ‘‘अहमस्मी’’ति आह. ब्राह्मणोति बाहितपापत्ता ब्रह्मस्स च अणनतो ब्राह्मणो. अयञ्हेत्थ अत्थो – भिक्खवे, अहं परमत्थतो ब्राह्मणोस्मीति. भगवा सब्बाकारपरिपुण्णस्स दानसंयमादिवतसमादानस्स निरवसेसाय तपचरियाय पारं गतो सम्मदेव वुसितब्रह्मचरियवासो सकलवेदन्तगू सुविसुद्धविज्जाचरणो सब्बथा निन्हातपापमलो अनुत्तरस्स अरियमग्गसङ्खातस्स ब्राह्मणस्स वत्ता पवत्ता, सुपरिसुद्धस्स च सासनब्रह्मचरियस्स पवेदेता, तस्मा सब्बसो बाहितपापत्ता ब्रह्मस्स च अणनतो कथनतो परमत्थेन ब्राह्मणोति वुच्चति.
इति भगवा सदेवके लोके अत्तनो अनुत्तरं ब्राह्मणभावं पवेदेत्वा यानि तानि ब्राह्मणदानादीनि छ कम्मानि ब्राह्मणस्स पञ्ञापेन्ति, तेसम्पि सुपरिसुद्धानं उक्कंसतो अत्तनि संविज्जमानतं दस्सेतुं ‘‘याचयोगो’’तिआदिमाह.
तत्थ याचयोगोति याचेहि युत्तो. याचन्तीति याचा, याचका, ते पनेत्थ वेनेय्या वेदितब्बा. ते हि ‘‘देसेतु, भन्ते भगवा, धम्मं; देसेतु, सुगतो, धम्म’’न्ति भगवन्तं उपसङ्कमित्वा धम्मदेसनं याचन्ति. भगवा च तेसं इच्छाविघातं अकरोन्तो यथारुचि धम्मं देसेन्तो धम्मदानं देतीति याचयोगो, सदा सब्बकालं तेहि अविरहितो. अथ वा याचयोगोति याचनयोग्गो, अधिप्पायपूरणतो याचितुं युत्तोति अत्थो ‘‘याजयोगो’’तिपि पाठो. तत्थ याजो वुच्चति महादानं, यिट्ठन्ति अत्थो. इध पन धम्मदानं वेदितब्बं, याजे नियुत्तोति याजयोगा. सदाति सब्बदा, अनवरतप्पवत्तसद्धम्ममहादानोति अत्थो. अथ वा याजेन योजेतीतिपि याजयोगो. तिविधदानसङ्खातेन याजेन सत्ते यथारहं योजेति, तत्थ दाने नियोजेतीति अत्थो. ‘‘याजयोगो सतत’’न्तिपि पठन्ति. पयतपाणीति परिसुद्धहत्थो. यो हि दानाधिमुत्तो आमिसदानं देन्तो सक्कच्चं सहत्थेन देय्यधम्मं दातुं सदा धोतहत्थोयेव होति, सो ‘‘पयतपाणी’’ति वुच्चति. भगवापि धम्मदानाधिमुत्तो सक्कच्चं सब्बकालं धम्मदाने युत्तप्पयुत्तोति कत्वा वुत्तं ‘‘पयतपाणी’’ति. ‘‘सदा’’ति च पदं इमिनापि सद्धिं योजेतब्बं ‘‘सदा पयतपाणी’’ति. अविभागेन हि सत्था वेनेय्यलोकस्स सद्धम्मदानं सदा सब्बकालं पवत्तेन्तो तत्थ युत्तप्पयुत्तो हुत्वा विहरति.
अपरो नयो – योगो वुच्चति भावना. यथाह ‘‘योगा वे जायते भूरी’’ति (ध. प. २८२). तस्मा याजयोगोति याजभावनं, परिच्चागभावनं अनुयुत्तोति अत्थो. भगवा हि अभिसम्बोधितो पुब्बे बोधिसत्तभूतोपि करुणासमुस्साहितो अनवसेसतो दानं परिब्रूहेन्तो तत्थ उक्कंसपारमिप्पत्तो हुत्वा अभिसम्बोधिं पापुणि, बुद्धो हुत्वापि तिविधं दानं परिब्रूहेसि विसेसतो धम्मदानं, परेपि तत्थ नियोजेसि. तथा हि सो वेनेय्ययाचकानं कस्सचि सरणानि अदासि, कस्सचि पञ्च सीलानि, कस्सचि दस सीलानि, कस्सचि चतुपारिसुद्धिसीलं, कस्सचि धुतधम्मे, कस्सचि चत्तारि झानानि, कस्सचि अट्ठ समापत्तियो, कस्सचि पञ्चाभिञ्ञायो, चत्तारो मग्गे, चत्तारि सामञ्ञफलानि, तिस्सो विज्जा, चतस्सो पटिसम्भिदाति एवमादिलोकियलोकुत्तरभेदं गुणधनं धम्मदानवसेन यथाधिप्पायं देन्तो परे च ‘‘देथा’’ति नियोजेन्तो परिच्चागभावनं परिब्रूहेसि. तेन वुत्तं ‘‘परिच्चागभावनं अनुयुत्तो’’ति.
पयतपाणीति वा आयतपाणी, हत्थगतं किञ्चि दातुं ‘‘एहि गण्हा’’ति पसारितहत्थो विय आचरियमुट्ठिं अकत्वा सद्धम्मदाने युत्तप्पयुत्तोति अत्थो. पयतपाणीति वा उस्साहितहत्थो, आमिसदानं दातुं उस्साहितहत्थो विय धम्मदाने कतुस्साहोति अत्थो. अन्तिमदेहधरोति ब्रह्मचरियवसेन ब्राह्मणकरणानं धम्मानं पारिपूरिया पच्छिमत्तभावधारी. अवुसितवतो हि वसलकरणानं धम्मानं अप्पहानेन वसलादिसमञ्ञा गति आयतिं गब्भसेय्या सिया. तेन भगवा अत्तनो अच्चन्तवुसितब्राह्मणभावं दस्सेति. अनुत्तरो भिसक्को सल्लकत्तोति दुत्तिकिच्छस्स वट्टदुक्खरोगस्स तिकिच्छनतो उत्तमो भिसक्को, अञ्ञेहि अनुद्धरणीयानं रागादिसल्लानं कन्तनतो समुच्छेदवसेन समुद्धरणतो उत्तमो सल्लकन्तनवेज्जो. इमिना निप्परियायतो ब्राह्मणकरणानं धम्मानं अत्तनि पतिट्ठितानं परसन्ततियं पतिट्ठापनेन परेसम्पि ब्राह्मणकरणमाह.
तस्स मे तुम्हे पुत्ताति तस्स एवरूपस्स मम तुम्हे, भिक्खवे, पुत्ता अत्रजा होथ. ओरसाति उरसि सम्बन्धा. यथा हि सत्तानं ओरसपुत्ता अत्रजा विसेसेन पितुसन्तकस्स दायज्जस्स भागिनो होन्ति, एवमेतेपि अरियपुग्गला सम्मासम्बुद्धस्स धम्मस्सवनन्ते अरियाय जातिया जाता. तस्स सन्तकस्स विमुत्तिसुखस्स अरियधम्मरतनस्स च एकंसभागियताय ओरसा. अथ वा भगवतो धम्मदेसनानुभावेन अरियभूमिं ओक्कममाना ओक्कन्ता च अरियसावका सत्थु उरे वायामजनिताभिजातिताय निप्परियायेन ‘‘ओरसपुत्ता’’ति वत्तब्बतं अरहन्ति. तथा हि ते भगवता आसयानुसयचरियाधिमुत्तिआदिवोलोकनेन वज्जानुचिन्तनेन च हदये कत्वा वज्जतो निवारेत्वा अनवज्जे पतिट्ठपेन्तेन सीलादिधम्मसरीरपोसनेन संवड्ढिता. मुखतो जाताति मुखतो जाताय धम्मदेसनाय अरियाय जातिया जातत्ता मुखतो जाता. अथ वा अनञ्ञसाधारणतो सब्बस्स कुसलधम्मस्स मुखतो पातिमोक्खतो वुट्ठानगामिनिविपस्सनासङ्खाततो विमोक्खमुखतो वा अरियमग्गजातिया जातातिपि मुखतो जाता. सिक्खत्तयसङ्गहे सासनधम्मे अरियमग्गधम्मे वा जाताति धम्मजा. तेनेव धम्मेन निम्मिता मापिताति धम्मनिम्मिता. सतिधम्मविचयादि धम्मदायादा, न लाभसक्कारादि आमिसदायादा, धम्मदायादा नो आमिसदायादा होथाति अत्थो.
तत्थ धम्मो दुविधो – निप्परियायधम्मो, परियायधम्मोति. आमिसम्पि दुविधं – निप्परियायामिसं, परियायामिसन्ति. कथं? मग्गफलनिब्बानप्पभेदो हि नवविधो लोकुत्तरधम्मो निप्परियायधम्मो, निब्बत्तितधम्मोयेव, न केनचि परियायेन कारणेन वा लेसेन वा धम्मो. यं पनिदं विवट्टूपनिस्सितं कुसलं, सेय्यथिदं – इधेकच्चो विवट्टं पत्थेन्तो दानं देति, सीलं समादियति, उपोसथकम्मं करोति, गन्धमालादीहि वत्थुपूजं करोति, धम्मं सुणाति, देसेति, झानसमापत्तियो निब्बत्तेति, एवं करोन्तो अनुपुब्बेन निप्परियायं अमतं निब्बानं पटिलभति, अयं परियायधम्मो. तथा चीवरादयो चत्तारो पच्चया निप्परियायामिसमेव, न अञ्ञेन परियायेन वा कारणेन वा लेसेन वा आमिसं. यं पनिदं वट्टगामिकुसलं, सेय्यथिदं – इधेकच्चो वट्टं पत्थेन्तो सम्पत्तिभवं इच्छमानो दानं देति…पे… समापत्तियो निब्बत्तेति, एवं करोन्तो अनुपुब्बेन देवमनुस्ससम्पत्तियो पटिलभति, इदं परियायामिसं नाम.
तत्थ निप्परियायधम्मोपि भगवतोयेव सन्तको. भगवता हि कथितत्ता भिक्खू मग्गफलनिब्बानानि अधिगच्छन्ति. वुत्तञ्हेतं –
‘‘सो, हि, ब्राह्मण, भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता, असञ्जातस्स मग्गस्स सञ्जनेता…पे… मग्गानुगा च पनेतरहि सावका विहरन्ति पच्छा समन्नागता’’ति (म. नि. ३.७९; चूलनि. मोघराजमाणवपुच्छानिद्देस ८५).
‘‘सो, हावुसो, भगवा जानं जानाति, पस्सं पस्सति, चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो, वत्ता पवत्ता, अत्थस्स निन्नेता, अमतस्स दाता, धम्मस्सामी तथागतो’’ति (म. नि. १.२०३; ३.२८१) च.
परियायधम्मोपि भगवतोयेव सन्तको. भगवता हि कथितत्ता एव जानन्ति ‘‘विवट्टं पत्थेत्वा दानं देन्तो…पे… समापत्तियो निब्बत्तेन्तो अनुक्कमेन अमतं निब्बानं पटिलभती’’ति. निप्परियायामिसम्पि भगवतोयेव सन्तकं. भगवता हि अनुञ्ञातत्तायेव भिक्खूहि जीवकवत्थुं आदिं कत्वा पणीतचीवरं लद्धं. यथाह –
‘‘अनुजानामि, भिक्खवे, गहपतिचीवरं. यो इच्छति, पंसुकूलिको होतु. यो इच्छति, गहपतिचीवरं सादियतु. इतरीतरेनपाहं, भिक्खवे, सन्तुट्ठिंयेव वण्णेमी’’ति (महाव. ३३७).
एवं इतरेपि पच्चया भगवता अनुञ्ञातत्ता एव भिक्खूहि परिभुञ्जितुं लद्धा. परियायामिसम्पि भगवतोयेव सन्तकं. भगवता हि कथितत्ता एव जानन्ति ‘‘सम्पत्तिभवं पत्थेन्तो दानं दत्वा सीलं…पे… समापत्तियो निब्बत्तेत्वा अनुक्कमेन परियायामिसं दिब्बसम्पत्तिं मनुस्ससम्पत्तिञ्च पटिलभती’’ति. यदेव यस्मा निप्परियायधम्मोपि परियायधम्मोपि निप्परियायामिसम्पि परियायामिसम्पि भगवतोयेव सन्तकं, तस्मा तत्थ अत्तनो सामिभावं दस्सेन्तो तत्थ च यं सेट्ठतरं अच्चन्तहितसुखावहं तत्थेव ने नियोजेन्तो एवमाह ‘‘तस्स मे तुम्हे पुत्ता ओरसा…पे… नो आमिसदायादा’’ति.
इति भगवा परिपुण्णवतसमादानं तपचरियं सम्मदेव वुसितब्रह्मचरियं सुविसुद्धविज्जाचरणसम्पन्नं अनवसेसवेदन्तपारगुं बाहितसब्बपापं सततं याचयोगं सदेवके लोके अनुत्तरदक्खिणेय्यभावप्पत्तं अत्तनो परमत्थब्राह्मणभावं अरियसावकानञ्च अत्तनो ओरसपुत्तादिभावं पवेदेसि. भगवा हि ‘‘सीहोति खो, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्सा’’ति (अ. नि. ५.९९) एत्थ सीहसदिसं, ‘‘पुरिसो मग्गकुसलोति खो, तिस्स, तथागतस्सेतं अधिवचन’’न्ति (सं. नि. ३.८४) एत्थ मग्गदेसकपुरिससदिसं, ‘‘राजाहमस्मि सेला’’ति (म. नि. २.३९९; सु. नि. ५५९) एत्थ राजसदिसं, ‘‘भिसक्को सल्लकत्तोति खो, सुनक्खत्त, तथागतस्सेतं अधिवचन’’न्ति (म. नि. ३.६५) एत्थ वेज्जसदिसं, ‘‘ब्राह्मणोति खो, भिक्खवे, तथागतस्सेतं अधिवचन’’न्ति (अ. नि. ८.८५) एत्थ ब्राह्मणसदिसं अत्तानं कथेसि. इधापि ब्राह्मण सदिसं कत्वा कथेसि.
इदानि येहि दानादीहि युत्तस्स इतो बाहिरकब्राह्मणस्स ब्राह्मणकिच्चं परिपुण्णं मञ्ञन्ति, तेहि अत्तनो दानादीनं अग्गसेट्ठभावं पकासेतुं ‘‘द्वेमानि, भिक्खवे, दानानी’’तिआदि आरद्धं. तत्थ यागाति महायञ्ञा, महादानानीति अत्थो, यानि ‘‘यिट्ठानी’’तिपि वुच्चन्ति. तत्थ वेलामदानवेस्सन्तरदानमहाविजितयञ्ञसदिसा आमिसयागा वेदितब्बा, महासमयसुत्तमङ्गलसुत्तचूळराहुलोवादसुत्तसमचित्तसुत्तदेसनादयो धम्मयागा. सेसं हेट्ठा वुत्तनयमेव.
गाथायं अयजीति अदासि. अमच्छरीति सब्बमच्छरियानं बोधिमूलेयेव सुप्पहीनत्ता मच्छेररहितो. सब्बभूतानुकम्पीति महाकरुणाय सब्बसत्ते पियपुत्तं विय अनुग्गण्हनसीलो. वुत्तञ्हेतं –
‘‘वधके देवदत्ते च, चोरे अङ्गुलिमालके;
धनपाले राहुले चेव, समचित्तो महामुनी’’ति. (मि. प. ६.६.५) –
सेसं सुविञ्ञेय्यमेव.
पठमसुत्तवण्णना निट्ठिता.