६. अजातसुत्तवण्णना

४३. छट्ठे अत्थि, भिक्खवेति का उप्पत्ति? एकदिवसं किर भगवता अनेकपरियायेन संसारे आदीनवं पकासेत्वा तदुपसमनादिवसेन निब्बानपटिसंयुत्ताय धम्मदेसनाय कताय भिक्खूनं एतदहोसि ‘‘अयं संसारो भगवता अविज्जादीहि कारणेहि सहेतुको वुत्तो, निब्बानस्स पन तदुपसमस्स न किञ्चि कारणं वुत्तं, तयिदं अहेतुकं कथं सच्चिकट्ठपरमत्थेन उपलब्भती’’ति. अथ भगवा तेसं भिक्खूनं विमतिविधमनत्थञ्चेव, ‘‘इध समणब्राह्मणानं ‘निब्बानं निब्बान’न्ति वाचावत्थुमत्तमेव, नत्थि हि परमत्थतो निब्बानं नाम अनुपलब्भमानसभावत्ता’’ति लोकायतिकादयो विय विप्पटिपन्नानं बहिद्धा च पुथुदिट्ठिगतिकानं मिच्छावादभञ्जनत्थञ्च, अमतमहानिब्बानस्स परमत्थतो अत्थिभावदीपनत्थं तस्स च निस्सरणभावादिआनुभाववन्ततादीपनत्थं पीतिवेगेन उदानवसेन इदं सुत्तं अभासि. तथा हि इदं सुत्तं उदानेपि (उदा. ७२-७४) सङ्गीतं.

तत्थ अत्थीति विज्जति परमत्थतो उपलब्भति. अजातं अभूतं अकतं असङ्खतन्ति सब्बानिपि पदानि अञ्ञमञ्ञवेवचनानि. अथ वा वेदनादयो विय हेतुपच्चयसमवायसङ्खाताय कारणसामग्गिया न जातं न निब्बत्तन्ति अजातं. कारणेन विना सयमेव न भूतं न पातुभूतं न उप्पन्नन्ति अभूतं. एवं अजातत्ता अभूतत्ता च येन केनचि कारणेन न कतन्ति अकतं. जातभूतकतसभावो च नामरूपादीनं सङ्खतधम्मानं होति, न असङ्खतसभावस्स निब्बानस्साति दस्सनत्थं असङ्खतन्ति वुत्तं. पटिलोमतो वा समेच्च सम्भुय्य पच्चयेहि कतन्ति सङ्खतं, तथा न सङ्खतं, सङ्खतलक्खणरहितन्ति च असङ्खतन्ति एवं अनेकेहि कारणेहि निब्बत्तितभावे पटिसिद्धे ‘‘सिया नु खो एकेनेव कारणेन कत’’न्ति आसङ्कायं ‘‘न केनचि कत’’न्ति दस्सनत्थं ‘‘अकत’’न्ति वुत्तं. एवं अप्पच्चयम्पि समानं ‘‘सयमेव नु खो इदं भूतं पातुभूत’’न्ति आसङ्कायं तन्निवत्तनत्थं ‘‘अभूत’’न्ति वुत्तं. अयञ्च एतस्स असङ्खताकताभूतभावो सब्बेन सब्बं अजातिधम्मत्ताति दस्सेतुं ‘‘अजात’’न्ति वुत्तन्ति. एवमेतेसं चतुन्नम्पि पदानं सात्थकभावो वेदितब्बो.

इति भगवा ‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खत’’न्ति परमत्थतो निब्बानस्स अत्थिभावं वत्वा तत्थ हेतुं दस्सेन्तो ‘‘नो चेतं, भिक्खवे’’तिआदिमाह. तस्सायं सङ्खेपो – भिक्खवे, यदि अजातादिसभावा असङ्खता धातु न अभविस्स न सिया, इध लोके जातादिसभावस्स रूपादिक्खन्धपञ्चकसङ्खातस्स सङ्खारगतस्स निस्सरणं अनवसेसवट्टुपसमो न पञ्ञायेय्य न उपलब्भेय्य न सम्भवेय्य. निब्बानञ्हि आरम्मणं कत्वा पवत्तमाना सम्मादिट्ठिआदयो अरियमग्गधम्मा अनवसेसतो किलेसे समुच्छिन्दन्ति, तेनेत्थ सब्बस्सपि वट्टदुक्खस्स अप्पवत्ति अपगमो निस्सरणं पञ्ञायति.

एवं ब्यतिरेकवसेन निब्बानस्स अत्थिभावं दस्सेत्वा इदानि अन्वयवसेनपि तं दस्सेतुं ‘‘यस्मा च खो’’तिआदि वुत्तं, तं वुत्तत्थमेव. एत्थ च यस्मा ‘‘अपच्चया धम्मा, असङ्खता धम्मा (ध. स. दुकमातिका ७, ८). अत्थि, भिक्खवे, तदायतनं, यत्थ नेव पथवी (उदा. ७१). इदम्पि खो ठानं दुद्दसं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो (महाव. ७; म. नि. १.२८१). असङ्खतञ्च वो, भिक्खवे, धम्मं देसेस्सामि असङ्खतगामिनिञ्च पटिपद’’न्तिआदीहि (सं. नि. ४.३६६) अनेकेहि सुत्तपदेहि ‘‘अत्थि, भिक्खवे, अजात’’न्ति इमिनापि सुत्तेन निब्बानधातुया परमत्थतो सब्भावो सब्बलोकं अनुकम्पमानेन सम्मासम्बुद्धेन देसितो, तस्मा न पटिक्खिपितब्बं. तत्थ अप्पच्चक्खकारीनम्पि विञ्ञूनं कङ्खा वा विमति वा नत्थि एव. ये पन अबुद्धिपुग्गला, तेसं विमतिविनोदनत्थं अयमेत्थ अधिप्पायनिद्धारणमुखेन युत्तिविचारणा – यथा परिञ्ञेय्यताय सउत्तरानं कामानं रूपानञ्च पटिपक्खभूतं तब्बिधुरसभावं निस्सरणं पञ्ञायति, एवं तंसभावानं सब्बेसं सङ्खतधम्मानं पटिपक्खभूतेन तब्बिधुरसभावेन निस्सरणेन भवितब्बं. यञ्चेतं निस्सरणं, सा असङ्खता धातु. किञ्च भिय्यो, सङ्खतधम्मारम्मणं विपस्सनाञाणं अपि अनुलोमञाणं किलेसे समुच्छेदवसेन पजहितुं न सक्कोति, तथा सम्मुतिसच्चारम्मणं पठमज्झानादीसु ञाणं विक्खम्भनवसेनेव किलेसे पजहति, न समुच्छेदवसेन. इति सङ्खतधम्मारम्मणस्स सम्मुतिसच्चारम्मणस्स च ञाणस्स किलेसानं समुच्छेदप्पहाने असमत्थभावतो तेसं समुच्छेदप्पहानकरस्स अरियमग्गञाणस्स तदुभयविपरीतसभावेन आरम्मणेन भवितब्बं, सा असङ्खता धातु. तथा ‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खत’’न्ति इदं निब्बानस्स परमत्थतो अत्थिभावजोतकवचनं अविपरीतत्थं भगवता भासितत्ता. यञ्हि भगवता भासितं, तं अविपरीतत्थं परमत्थन्ति यथा तं ‘‘सब्बे सङ्खारा अनिच्चा, सब्बे सङ्खारा दुक्खा, सब्बे धम्मा अनत्ता’’ति (ध. प. २७७-२७९; चूळनि. हेमकमाणवपुच्छानिद्देस ५६). तथा निब्बानसद्दो कत्थचि विसये यथाभूतपरमत्थविसयो उपचारवुत्तिसब्भावतो सेय्यथापि सीहसद्दो. अथ वा अत्थेव परमत्थतो असङ्खताधातु इतरतब्बिपरीतविनिमुत्तसभावत्ता सेय्यथापि पथवीधातु वेदनाति. एवमादीहि नयेहि युत्तितोपि असङ्खताय धातुया परमत्थतो अत्थिभावो वेदितब्बो.

गाथासु जातन्ति जायनट्ठेन जातं, जातिलक्खणप्पत्तन्ति अत्थो. भूतन्ति भवनट्ठेन भूतं, अहुत्वा सम्भूतन्ति अत्थो. समुप्पन्नन्ति सहितभावेन उप्पन्नं, सहितेहि धम्मेहि च उप्पन्नन्ति अत्थो. कतन्ति कारणभूतेहि पच्चयेहि निब्बत्तितं. सङ्खतन्ति तेहियेव समेच्च सम्भुय्य कतन्ति सङ्खतं, सब्बमेतं पच्चयनिब्बत्तस्स अधिवचनं. निच्चसारादिविरहिततो अद्धुवं. जराय मरणेन च एकन्तेनेव सङ्घटितं संसट्ठन्ति जरामरणसङ्घातं. ‘‘जरामरणसङ्घट्ट’’न्तिपि पठन्ति, जराय मरणेन च उपद्दुतं पीळितन्ति अत्थो. अक्खिरोगादीनं अनेकेसं रोगानं नीळं कुलावकन्ति रोगनीळं. सरसतो उपक्कमतो च पभङ्गुपरमसीलताय पभङ्गुरं.

चतुब्बिधो आहारो च तण्हासङ्खाता नेत्ति च पभवो समुट्ठानं एतस्साति आहारनेत्तिप्पभवं. सब्बोपि वा पच्चयो आहारो. इध पन तण्हाय नेत्तिग्गहणेन गहितत्ता तण्हावज्जा वेदितब्बा. तस्मा आहारो च नेत्ति च पभवो एतस्साति आहारनेत्तिप्पभवं. आहारो एव वा नयनट्ठेन पवत्तनट्ठेन नेत्तीति एवम्पि आहारनेत्तिप्पभवं. नालं तदभिनन्दितुन्ति तं उपादानक्खन्धपञ्चकं एवं पच्चयाधीनवुत्तिकं, ततो एव अनिच्चं, दुक्खञ्च तण्हादिट्ठीहि अभिनन्दितुं अस्सादेतुं न युत्तं.

तस्स निस्सरणन्ति ‘‘जातं भूत’’न्तिआदिना वुत्तस्स तस्स सक्कायस्स निस्सरणं निक्कमो अनुपसन्तसभावस्स रागादिकिलेसस्स सब्बसङ्खारस्स च अभावेन तदुपसमभावेन पसत्थभावेन च सन्तं, तक्कञाणस्स अगोचरभावतो अतक्कावचरं, निच्चट्ठेन धुवं, ततो एव अजातं असमुप्पन्नं, सोकहेतूनं अभावतो असोकं, विगतरागादिरजत्ता विरजं, संसारदुक्खट्टितेहि पटिपज्जितब्बत्ता पदं, जातिआदिदुक्खधम्मानं निरोधहेतुताय निरोधो दुक्खधम्मानं, सब्बसङ्खारानं उपसमहेतुताय सङ्खारूपसमो, ततो एव अच्चन्तसुखताय सुखोति सब्बपदेहि अमतमहानिब्बानमेव थोमेति. एवं भगवा पठमगाथाय ब्यतिरेकवसेन, दुतियगाथाय अन्वयवसेन च निब्बानं विभावेसि.

छट्ठसुत्तवण्णना निट्ठिता.