८. कुक्कुटमित्तनेसादवत्थु

पाणिम्हि चेति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो कुक्कुटमित्तं नाम नेसादं आरब्भ कथेसि.

राजगहे किर एका सेट्ठिधीता वयप्पत्ता सत्तभूमिकपासादस्स उपरि सिरिगब्भे आरक्खणत्थाय एकं परिचारिकं दत्वा मातापितूहि वासियमाना एकदिवसं सायन्हसमये वातपानेन अन्तरवीथिं ओलोकेन्ती पञ्च पाससतानि पञ्च सूलसतानि आदाय मिगे वधित्वा जीवमानं एकं कुक्कुटमित्तं नाम नेसादं पञ्च मिगसतानि वधित्वा तेसं मंसेन महासकटं पूरेत्वा सकटधुरे निसीदित्वा मंसविक्किणनत्थाय नगरं पविसन्तं दिस्वा तस्मिं पटिबद्धचित्ता परिचारिकाय हत्थे पण्णाकारं दत्वा ‘‘गच्छ, एतस्स पण्णाकारं दत्वा गमनकालं ञत्वा एही’’ति पेसेसि. सा गन्त्वा तस्स पण्णाकारं दत्वा पुच्छि – ‘‘कदा गमिस्ससी’’ति? सो ‘‘अज्ज मंसं विक्किणित्वा पातोव असुकद्वारेन नाम निक्खमित्वा गमिस्सामी’’ति आह. सा तेन कथितकथं सुत्वा आगन्त्वा तस्सा आरोचेसि. सेट्ठिधीता अत्तना गहेतब्बयुत्तकं वत्थाभरणजातं संविदहित्वा पातोव मलिनवत्थं निवासेत्वा कुटं आदाय दासीहि सद्धिं उदकतित्थं गच्छन्ती विय निक्खमित्वा तं ठानं गन्त्वा तस्सागमनं ओलोकेन्ती अट्ठासि. सोपि पातोव सकटं पाजेन्तो निक्खमि. सा तस्स पच्छतो पच्छतो पायासि. सो तं दिस्वा ‘‘अहं तं ‘असुकस्स नाम धीता’ति न जानामि, मा मं अनुबन्धि, अम्मा’’ति आह. न मं त्वं पक्कोससि, अहं अत्तनो धम्मताय आगच्छामि, त्वं तुण्ही हुत्वा अत्तनो सकटं पाजेहीति. सो पुनप्पुनं तं निवारेतियेव. अथ नं सा आह – ‘‘सामि, सिरी नाम अत्तनो सन्तिकं आगच्छन्ती निवारेतुं न वट्टती’’ति. सो तस्सा निस्संसयेन आगमनकारणं ञत्वा तं सकटं आरोपेत्वा अगमासि. तस्सा मातापितरो इतो चितो च परियेसापेत्वा अपस्सन्ता ‘‘मता भविस्सती’’ति मतकभत्तं करिंसु. सापि तेन सद्धिं संवासमन्वाय पटिपाटिया सत्त पुत्ते विजायित्वा ते वयप्पत्ते घरबन्धनेन बन्धि.

अथेकदिवसं सत्था पच्चूससमये लोकं वोलोकेन्तो कुक्कुटमित्तं सपुत्तं ससुणिसं अत्तनो ञाणजालस्स अन्तो पविट्ठं दिस्वा, ‘‘किं नु खो एत’’न्ति उपधारेन्तो तेसं पन्नरसन्नम्पि सोतापत्तिमग्गस्स उपनिस्सयं दिस्वा पातोव पत्तचीवरं आदाय तस्स पासट्ठानं अगमासि. तं दिवसं पासे बद्धो एकमिगोपि नाहोसि. सत्था तस्स पासमूले पदवलञ्जं दस्सेत्वा पुरतो एकस्स गुम्बस्स हेट्ठा छायायं निसीदि. कुक्कुटमित्तो पातोव धनुं आदाय पासट्ठानं गन्त्वा आदितो पट्ठाय पासे ओलोकयमानो पासे बद्धं एकम्पि मिगं अदिस्वा सत्थु पदवलञ्जं अद्दस. अथस्स एतदहोसि – ‘‘को मय्हं बद्धमिगे मोचेन्तो विचरती’’ति. सो सत्थरि आघातं बन्धित्वा गच्छन्तो गुम्बमूले निसिन्नं सत्थारं दिस्वा, ‘‘इमिना मम मिगा मोचिता भविस्सन्ति, मारेस्सामि न’’न्ति धनुं आकड्ढि. सत्था धनुं आकड्ढितुं दत्वा विस्सज्जेतुं नादासि. सो सरं विस्सज्जेतुम्पि ओरोपेतुम्पि असक्कोन्तो फासुकाहि भिज्जन्तीहि विय मुखतो खेळेन पग्घरन्तेन किलन्तरूपो अट्ठासि. अथस्स पुत्ता गेहं गन्त्वा ‘‘पिता नो चिरायति, किं नु खो एत’’न्ति वत्वा ‘‘गच्छथ, ताता, पितु सन्तिक’’न्ति मातरा पेसिता धनूनि आदाय गन्त्वा पितरं तथाठितं दिस्वा ‘‘अयं नो पितु पच्चामित्तो भविस्सती’’ति सत्तपि जना धनूनि आकड्ढित्वा बुद्धानुभावेन यथा नेसं पिता ठितो, तथेव अट्ठंसु. अथ नेसं माता ‘‘किं नु खो मे पुत्तापि चिरायन्ती’’ति वत्वा सत्तहि सुणिसाहि सद्धिं गन्त्वा ते तथाठिते दिस्वा ‘‘कस्स नु खो इमे धनूनि आकड्ढित्वा ठिता’’ति ओलोकेन्ती सत्थारं दिस्वा बाहा पग्गय्ह – ‘‘मा मे पितरं नासेथ, मा मे पितरं नासेथा’’ति महासद्दमकासि. कुक्कुटमित्तो तं सद्दं सुत्वा चिन्तेसि – ‘‘नट्ठो वतम्हि, ससुरो किर मे एस, अहो मया भारियं कम्मं कत’’न्ति. पुत्ताविस्स ‘‘अय्यको किर नो एस, अहो भारियं कम्मं कत’’न्ति चिन्तयिंसु. कुक्कुटमित्तो ‘‘अयं ससुरो मे’’ति मेत्तचित्तं उपट्ठपेसि, पुत्तापिस्स ‘‘अय्यको नो’’ति मेत्तचित्तं उपट्ठपेसुं. अथ ते नेसं माता सेट्ठिधीता ‘‘खिप्पं धनूनि छड्डेत्वा पितरं मे खमापेथा’’ति आह.

सत्था तेसं मुदुचित्ततं ञत्वा धनुं ओतारेतुं अदासि. ते सब्बे सत्थारं वन्दित्वा ‘‘खमथ नो, भन्ते’’ति खमापेत्वा एकमन्तं निसीदिंसु. अथ नेसं सत्था अनुपुब्बिं कथं कथेसि. देसनावसाने कुक्कुटमित्तो सद्धिं पुत्तेहि चेव सुणिसाहि च अत्तपञ्चदसमो सोतापत्तिफले पतिट्ठहि. सत्था पिण्डाय चरित्वा पच्छाभत्तं विहारं अगमासि. अथ नं आनन्दत्थेरो पुच्छि – ‘‘भन्ते, कहं गमित्था’’ति. कुक्कुटमित्तस्स सन्तिकं, आनन्दाति. पाणातिपातकम्मस्स वो, भन्ते, अकारको कतोति. आमानन्द, सो अत्तपञ्चदसमो अचलसद्धाय पतिट्ठाय तीसु रतनेसु निक्कङ्खो हुत्वा पाणातिपातकम्मस्स अकारको जातोति. भिक्खू आहंसु – ‘‘ननु, भन्ते, भरियापिस्स अत्थी’’ति. आम, भिक्खवे, सा कुलगेहे कुमारिका हुत्वा सोतापत्तिफलं पत्ताति. भिक्खू कथं समुट्ठापेसुं ‘‘कुक्कुटमित्तस्स किर भरिया कुमारिककाले एव सोतापत्तिफलं पत्वा तस्स गेहं गन्त्वा सत्त पुत्ते लभि, सा एत्तकं कालं सामिकेन ‘धनुं आहर, सरे आहर, सत्तिं आहर, सूलं आहर, जालं आहरा’ति वुच्चमाना तानि अदासि. सोपि ताय दिन्नानि आदाय गन्त्वा पाणातिपातं करोति, किं नु खो सोतापन्नापि पाणातिपातं करोन्ती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘न, भिक्खवे, सोतापन्ना पाणातिपातं करोन्ति, सा पन ‘सामिकस्स वचनं करोमी’ति तथा अकासि. ‘इदं गहेत्वा एस गन्त्वा पाणातिपातं करोतू’ति तस्सा चित्तं नत्थि. पाणितलस्मिञ्हि वणे असति विसं गण्हन्तस्स तं विसं अनुडहितुं न सक्कोति, एवमेवं अकुसलचेतनाय अभावेन पापं अकरोन्तस्स धनुआदीनि नीहरित्वा ददतोपि पापं नाम न होती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

१२४. ‘‘पाणिम्हि चे वणो नास्स, हरेय्य पाणिना विसं;

नाब्बणं विसमन्वेति, नत्थि पापं अकुब्बतो’’ति.

तत्थ नास्साति न भवेय्य. हरेय्याति हरितुं सक्कुणेय्य. किं कारणा? यस्मा नाब्बणं विसमन्वेति अवणञ्हि पाणिं विसं अन्वेतुं न सक्कोति, एवमेव धनुआदीनि नीहरित्वा देन्तस्सापि अकुसलचेतनाय अभावेन पापं अकुब्बतो पापं नाम नत्थि, अवणं पाणिं विसं विय नास्स चित्तं पापं अनुगच्छतीति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

अपरेन समयेन भिक्खू कथं समुट्ठापेसुं – ‘‘को नु खो कुक्कुटमित्तस्स सपुत्तस्स ससुणिसस्स सोतापत्तिमग्गस्सूपनिस्सयो, केन कारणेन नेसादकुले निब्बत्तो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, भिक्खवे, अतीते कस्सपदसबलस्स धातुचेतियं संविदहन्ता एवमाहंसु – ‘‘किं नु खो इमस्स चेतियस्स मत्तिका भविस्सति, किं उदक’’न्ति. अथ नेसं एतदहोसि – ‘‘हरितालमनोसिला मत्तिका भविस्सति, तिलतेलं उदक’’न्ति. ते हरितालमनोसिला कोट्टेत्वा तिलतेलेन संसन्दित्वा इट्ठकाय घटेत्वा सुवण्णेन खचित्वा अन्तो चिनिंसु, बहिमुखे पन एकग्घनसुवण्णइट्ठकाव अहेसुं. एकेका सतसहस्सग्घनिका अहोसि. ते याव धातुनिधाना चेतिये निट्ठिते चिन्तयिंसु – ‘‘धातुनिधानकाले बहुना धनेन अत्थो, कं नु खो जेट्ठकं करोमा’’ति.

अथेको गामवासिको सेट्ठि ‘‘अहं जेट्ठको भविस्सामी’’ति धातुनिधाने एकं हिरञ्ञकोटिं पक्खिपि. तं दिस्वा रट्ठवासिनो ‘‘अयं नगरसेट्ठि धनमेव संहरति, एवरूपे चेतिये जेट्ठको भवितुं न सक्कोति, गामवासी पन कोटिधनं पक्खिपित्वा जेट्ठको जातो’’ति उज्झायिंसु. सो तेसं कथं सुत्वा ‘‘अहं द्वे कोटियो दत्वा जेट्ठको भविस्सामी’’ति द्वे कोटियो अदासि. इतरो ‘‘अहमेव जेट्ठको भविस्सामी’’ति तिस्सो कोटियो अदासि. एवं वड्ढेत्वा वड्ढेत्वा नगरवासी अट्ठ कोटियो अदासि. गामवासिनो पन गेहे नवकोटिधनमेव अत्थि, नगरवासिनो चत्तालीसकोटिधनं. तस्मा गामवासी चिन्तेसि – ‘‘सचाहं नव कोटियो दस्सामि, अयं ‘दस कोटियो दस्सामी’ति वक्खति, अथ मे निद्धनभावो पञ्ञायिस्सती’’ति. सो एवमाह – ‘‘अहं एत्तकञ्च धनं दस्सामि, सपुत्तदारो च चेतियस्स दासो भविस्सामी’’ति सत्त पुत्ते सत्त सुणिसायो भरियञ्च गहेत्वा अत्तना सद्धिं चेतियस्स निय्यादेसि. रट्ठवासिनो ‘‘धनं नाम सक्का उप्पादेतुं, अयं पन सपुत्तदारो अत्तानं निय्यादेसि, अयमेव जेट्ठको होतू’’ति तं जेट्ठकं करिंसु. इति ते सोळसपि जना चेतियस्स दासा अहेसुं. रट्ठवासिनो पन ते भुजिस्से अकंसु. एवं सन्तेपि चेतियमेव पटिजग्गित्वा यावतायुकं ठत्वा ततो चुता देवलोके निब्बत्तिंसु. तेसु एकं बुद्धन्तरं देवलोके वसन्तेसु इमस्मिं बुद्धुप्पादे भरिया ततो चवित्वा राजगहे सेट्ठिनो धीता हुत्वा निब्बत्ति. सा कुमारिकाव हुत्वा सोतापत्तिफलं पापुणि. अदिट्ठसच्चस्स पन पटिसन्धि नाम भारियाति तस्सा सामिको सम्परिवत्तमानो गन्त्वा नेसादकुले निब्बत्ति. तस्स सह दस्सनेनेव सेट्ठिधीतरं पुब्बसिनेहो अज्झोत्थरि. वुत्तम्पि चेतं –

‘‘पुब्बेव सन्निवासेन, पच्चुप्पन्नहितेन वा;

एवं तं जायते पेमं, उप्पलंव यथोदके’’ति. (जा. १.२.१७४);

सा पुब्बसिनेहेनेव नेसादकुलं अगमासि. पुत्तापिस्सा देवलोका चवित्वा तस्सा एव कुच्छिस्मिं पटिसन्धिं गण्हिंसु, सुणिसायोपिस्सा तत्थ तत्थ निब्बत्तित्वा वयप्पत्ता तेसंयेव गेहं अगमंसु. एवं ते सब्बेपि तदा चेतियं पटिजग्गित्वा तस्स कम्मस्सानुभावेन सोतापत्तिफलं पत्ताति.

कुक्कुटमित्तनेसादवत्थु अट्ठमं.