६. पञ्चग्गदायकब्राह्मणवत्थु
सब्बसोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पञ्चग्गदायकं नाम ब्राह्मणं आरब्भ कथेसि.
सो किर सस्से खेत्ते ठितकालेयेव खेत्तग्गं नाम देति, खलकाले खलग्गं नाम देति, खलभण्डकाले खलभण्डग्गं नाम देति, उक्खलिककाले कुम्भग्गं नाम देति, पातियं वड्ढितकाले पातग्गं नाम देतीति इमानि पञ्च अग्गदानानि देति, सम्पत्तस्स अदत्वा नाम न भुञ्जति. तेनस्स पञ्चग्गदायकोत्वेव नामं अहोसि. सत्था तस्स च ब्राह्मणिया चस्स तिण्णं फलानं उपनिस्सयं दिस्वा ब्राह्मणस्स भोजनवेलायं गन्त्वा द्वारे अट्ठासि. सोपि द्वारपमुखे अन्तोगेहाभिमुखो निसीदित्वा भुञ्जति, सत्थारं द्वारे ठितं न पस्सति. ब्राह्मणी पन तं परिविसमाना सत्थारं दिस्वा चिन्तेसि – ‘‘अयं ब्राह्मणो पञ्चसु ठानेसु अग्गं दत्वा भुञ्जति, इदानि च समणो गोतमो आगन्त्वा द्वारे ठितो. सचे ब्राह्मणो एतं दिस्वा अत्तनो भत्तं हरित्वा दस्सति, पुनपाहं पचितुं न सक्खिस्सामी’’ति. सा ‘‘एवं अयं समणं गोतमं न पस्सिस्सती’’ति सत्थु पिट्ठिं दत्वा तस्स पच्छतो तं पटिच्छादेन्ती ओनमित्वा पुण्णचन्दं पाणिना पटिच्छादेन्ती विय अट्ठासि. तथा ठिता एव च पन ‘‘गतो नु खो नो’’ति सत्थारं अड्ढक्खिकेन ओलोकेसि. सत्था तत्थेव अट्ठासि. ब्राह्मणस्स पन सवनभयेन ‘‘अतिच्छथा’’ति न वदेति, ओसक्कित्वा पन सणिकमेव ‘‘अतिच्छथा’’ति आह. सत्था ‘‘न गमिस्सामी’’ति सीसं चालेसि. लोकगरुना बुद्धेन ‘‘न गमिस्सामी’’ति सीसे चालिते सा सन्धारेतुं असक्कोन्ती महाहसितं हसि. तस्मिं खणे सत्था गेहाभिमुखं ओभासं मुञ्चि. ब्राह्मणोपि पिट्ठिं दत्वा निसिन्नोयेव ब्राह्मणिया हसितसद्दं सुत्वा छब्बण्णानञ्च रस्मीनं ओभासं ओलोकेत्वा सत्थारं अद्दस. बुद्धा हि नाम गामे वा अरञ्ञे वा हेतुसम्पन्नानं अत्तानं अदस्सेत्वा न पक्कमन्ति. ब्राह्मणोपि सत्थारं दिस्वा, ‘‘भोति नासितोम्हि तया, राजपुत्तं आगन्त्वा द्वारे ठितं मय्हं अनाचिक्खन्तिया भारियं ते कम्मं कत’’न्ति वत्वा अड्ढभुत्तं भोजनपातिं आदाय सत्थु सन्तिकं गन्त्वा, ‘‘भो गोतम, अहं पञ्चसु ठानेसु अग्गं दत्वाव भुञ्जामि, इतो च मे मज्झे भिन्दित्वा एकोव भत्तकोट्ठासो भुत्तो, एको कोट्ठासो अवसिट्ठो, पटिग्गण्हिस्ससि मे इदं भत्त’’न्ति. सत्था ‘‘न मे तव उच्छिट्ठभत्तेन अत्थो’’ति अवत्वा, ‘‘ब्राह्मण, अग्गम्पि मय्हमेव अनुच्छविकं, मज्झे भिन्दित्वा अड्ढभुत्तभत्तम्पि, चरिमकभत्तपिण्डोपि मय्हमेव अनुच्छविको. मयञ्हि, ब्राह्मण, परदत्तूपजीविपेतसदिसा’’ति वत्वा इमं गाथमाह –
‘‘यदग्गतो मज्झतो सेसतो वा,
पिण्डं लभेथ परदत्तूपजीवी;
नालं थुतुं नोपि निपच्चवादी,
तं वापि धीरा मुनि वेदयन्ती’’ति. (सु. नि. २१९);
ब्राह्मणो तं सुत्वाव पसन्नचित्तो हुत्वा ‘‘अहो अच्छरियं, दीपसामिको नाम राजपुत्तो ‘न मे तव उच्छिट्ठभत्तेन अत्थो’ति अवत्वा एवं वक्खती’’ति द्वारे ठितकोव सत्थारं पञ्हं पुच्छि – ‘‘भो गोतम, तुम्हे अत्तनो सावके भिक्खूति वदथ, कित्तावता भिक्खु नाम होती’’ति. सत्था ‘‘कथंरूपा नु खो इमस्स धम्मदेसना सप्पाया’’ति उपधारेन्तो ‘‘इमे द्वेपि जना कस्सपबुद्धकाले ‘नामरूप’न्ति वदन्तानं कथं सुणिंसु, नामरूपं अविस्सज्जित्वाव नेसं धम्मं देसेतुं वट्टती’’ति, ‘‘ब्राह्मण, नामे च रूपे च अरज्जन्तो असज्जन्तो असोचन्तो भिक्खु नाम होती’’ति वत्वा इमं गाथमाह –
३६७. ‘‘सब्बसो नामरूपस्मिं, यस्स नत्थि ममायितं;
असता च न सोचति, स वे भिक्खूति वुच्चती’’ति.
तत्थ सब्बसोति सब्बस्मिम्पि वेदनादीनं चतुन्नं, रूपक्खन्धस्स चाति पञ्चन्नं खन्धानं वसेन पवत्ते नामरूपे. ममायितन्ति यस्स अहन्ति वा ममन्ति वा गाहो नत्थि. असता च न सोचतीति तस्मिञ्च नामरूपे खयवयं पत्ते ‘‘मम रूपं खीणं…पे… मम विञ्ञाणं खीण’’न्ति न सोचति न विहञ्ञति, ‘‘खयवयधम्मं मे खीण’’न्ति पस्सति. स वेति सो एवरूपो विज्जमानेपि नामरूपे ममायितरहितोपि असतापि तेन असोचन्तो भिक्खूति वुच्चतीति अत्थो.
देसनावसाने उभोपि जयम्पतिका अनागामिफले पतिट्ठहिंसु, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.
पञ्चग्गदायकब्राह्मणवत्थु छट्ठं.