२. हंसघातकभिक्खुवत्थु
हत्थसंयतोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो एकं हंसघातकं भिक्खुं आरब्भ कथेसि.
सावत्थिवासिनो किर द्वे सहायका भिक्खूसु पब्बजित्वा लद्धूपसम्पदा येभुय्येन एकतो विचरन्ति. ते एकदिवसं अचिरवतिं गन्त्वा न्हत्वा आतपे तप्पमाना सारणीयकथं कथेन्ता अट्ठंसु. तस्मिं खणे द्वे हंसा आकासेन गच्छन्ति. अथेको दहरभिक्खु सक्खरं गहेत्वा ‘‘एकस्स हंसपोतकस्स अक्खिं पहरिस्सामी’’ति आह, इतरो ‘‘न सक्खिस्सामी’’ति आह. तिट्ठतु इमस्मिं पस्से अक्खि, परपस्से अक्खिं पहरिस्सामीति. इदम्पि न सक्खिस्ससियेवाति. ‘‘तेन हि उपधारेही’’ति दुतियं सक्खरं गहेत्वा हंसस्स पच्छाभागे खिपि, हंसो सक्खरसद्दं सुत्वा निवत्तित्वा ओलोकेसि. अथ नं इतरं वट्टसक्खरं गहेत्वा परपस्से अक्खिम्हि पहरित्वा ओरिमक्खिना निक्खामेसि. हंसो विरवन्तो परिवत्तित्वा तेसं पादमूलेयेव पति. तत्थ तत्थ ठिता भिक्खू दिस्वा, ‘‘आवुसो, बुद्धसासने पब्बजित्वा अननुच्छविकं वो कतं पाणातिपातं करोन्तेही’’ति वत्वा ते आदाय गन्त्वा तथागतस्स दस्सेसुं.
सत्था ‘‘सच्चं किर तया भिक्खु पाणातिपातो कतो’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘भिक्खु कस्मा एवरूपे निय्यानिकसासने पब्बजित्वा एवमकासि, पोराणकपण्डिता अनुप्पन्ने बुद्धे अगारमज्झे वसमाना अप्पमत्तकेसुपि ठानेसु कुक्कुच्चं करिंसु, त्वं पन एवरूपे बुद्धसासने पब्बजित्वा कुक्कुच्चमत्तम्पि न अकासी’’ति वत्वा तेहि याचितो अतीतं आहरि.
अतीते कुरुरट्ठे इन्दपत्तनगरे धनञ्चये रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिस्मिं पटिसन्धिं गहेत्वा अनुपुब्बेन विञ्ञुतं पत्तो तक्कसिलायं सिप्पानि उग्गहेत्वा पितरा उपरज्जे पतिट्ठापितो अपरभागे पितु अच्चयेन रज्जं पत्वा दस राजधम्मे अकोपेन्तो कुरुधम्मे वत्तित्थ. कुरुधम्मो नाम पञ्चसीलानि, तानि बोधिसत्तो परिसुद्धानि कत्वा रक्खि. यथा च बोधिसत्तो, एवमस्स माता अग्गमहेसी कनिट्ठभाता उपराजा पुरोहितो ब्राह्मणो रज्जुगाहको अमच्चो सारथि सेट्ठि दोणमापको महामत्तो दोवारिको नगरसोभिनी वण्णदासीति एवमेतेसु एकादससु जनेसु कुरुधम्मं रक्खन्तेसु कलिङ्गरट्ठे दन्तपुरनगरे कलिङ्गे रज्जं कारेन्ते तस्मिं रट्ठे देवो न वस्सि. महासत्तस्स पन अञ्जनसन्निभो नाम मङ्गलहत्थी महापुञ्ञो होति. रट्ठवासिनो ‘‘तस्मिं आनीते देवो वस्सिस्सती’’ति सञ्ञाय रञ्ञो आरोचयिंसु. राजा तस्स हत्थिस्स आनयनत्थाय ब्राह्मणे पहिणि. ते गन्त्वा महासत्तं हत्थिं याचिंसु. सत्था तेसं याचनकारणं दस्सेतुं आह –
‘‘तव सद्धञ्च सीलञ्च, विदित्वान जनाधिप;
वण्णं अञ्जनवण्णेन, कलिङ्गस्मिं निमिम्हसे’’ति. (जा. १.३.७६) –
इमं तिकनिपाते जातकं कथेसि. हत्थिम्हि पन आनीतेपि देवे अवस्सन्ते ‘‘सो राजा कुरुधम्मं रक्खति, तेनस्स रट्ठे देवो वस्सती’’ति सञ्ञाय ‘‘यं सो कुरुधम्मं रक्खति, तं सुवण्णपट्टे लिखित्वा आनेथा’’ति पुन कालिङ्गो ब्राह्मणे च अमच्चे च पेसेसि. तेसु गन्त्वा याचन्तेसु राजानं आदिं कत्वा सब्बेपि ते अत्तनो अत्तनो सीलेसु किञ्चि कुक्कुच्चमत्तं कत्वा ‘‘अपरिसुद्धं नो सील’’न्ति पटिक्खिपित्वापि ‘‘न एत्तावता सीलभेदो होती’’ति तेहि पुनप्पुनं याचिता अत्तनो अत्तनो सीलानि कथयिंसु. कालिङ्गो सुवण्णपट्टे लिखापेत्वा आभतं कुरुधम्मं दिस्वाव समादाय साधुकं पूरेसि. तस्स रट्ठे देवो पावस्सि, रट्ठं खेमं सुभिक्खं अहोसि. सत्था इमं अतीतं आहरित्वा –
‘‘गणिका उप्पलवण्णा, पुण्णो दोवारिको तदा;
रज्जुगाहो च कच्चानो, दोणमापको च कोलितो.
‘‘सारिपुत्तो तदा सेट्ठी, अनुरुद्धो च सारथी;
ब्राह्मणो कस्सपो थेरो, उपराजानन्दपण्डितो.
‘‘महेसी राहुलमाता, मायादेवी जनेत्तिका;
कुरुराजा बोधिसत्तो, एवं धारेथ जातक’’न्ति. –
जातकं समोधानेत्वा ‘‘भिक्खु एवं पुब्बेपि पण्डिता अप्पमत्तकेपि कुक्कुच्चे उप्पन्ने अत्तनो सीलभेदे आसङ्कं करिंसु, त्वं पन मादिसस्स बुद्धस्स सासने पब्बजित्वा पाणातिपातं करोन्तो अतिभारियं कम्ममकासि, भिक्खुना नाम हत्थेहि पादेहि वाचाय च संयतेन भवितब्ब’’न्ति वत्वा इमं गाथमाह –
३६२. ‘‘हत्थसंयतो पादसंयतो,
वाचासंयतो संयतुत्तमो;
अज्झत्तरतो समाहितो,
एको सन्तुसितो तमाहु भिक्खु’’न्ति.
तत्थ हत्थसंयतोति हत्थकीळापनादीनं वा हत्थेन परेसं पहरणादीनं वा अभावेन हत्थसंयतो. दुतियपदेपि एसेव नयो. वाचाय पन मुसावादादीनं अकरणतो वाचाय संयतो. संयतुत्तमोति संयतत्तभावो, कायचलनसीसुक्खिपनभमुकविकारादीनं अकारकोति अत्थो. अज्झत्तरतोति गोचरज्झत्तसङ्खाताय कम्मट्ठानभावनाय रतो. समाहितोति सुट्ठु ठपितो. एको सन्तुसितोति एकविहारी हुत्वा सुट्ठु तुसितो विपस्सनाचारतो पट्ठाय अत्तनो अधिगमेन तुट्ठमानसो. पुथुज्जनकल्याणकञ्हि आदिं कत्वा सब्बेपि सेखा अत्तनो अधिगमेन सन्तुस्सन्तीति सन्तुसिता, अरहा पन एकन्तसन्तुसितोव. तं सन्धायेतं वुत्तं.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
हंसघातकभिक्खुवत्थु दुतियं.