७. चूळधनुग्गहपण्डितवत्थु
वितक्कमथितस्साति इमं धम्मदेसनं सत्था जेतवने विहरन्तो चूळधनुग्गहपण्डितं आरब्भ कथेसि.
एको किर दहरभिक्खु सलाकग्गे अत्तनो पत्तसलाकं गहेत्वा सलाकयागुं आदाय आसनसालं गन्त्वा पिवि. तत्थ उदकं अलभित्वा उदकत्थाय एकं घरं अगमासि. तत्थ तं एका कुमारिका दिस्वाव उप्पन्नसिनेहा, ‘‘भन्ते, पुन पानीयेन अत्थे सति इधेव आगच्छेय्याथा’’ति आह. सो ततो पट्ठाय यदा पानीयं न लभति, तदा तत्थेव गच्छति. सापिस्स पत्तं गहेत्वा पानीयं देति. एवं गच्छन्ते काले यागुम्पि दत्वा पुनेकदिवसं तत्थेव निसीदापेत्वा भत्तं अदासि. सन्तिके चस्स निसीदित्वा, ‘‘भन्ते, इमस्मिं गेहे न किञ्चि नत्थि नाम, केवलं मयं विचरणकमनुस्समेव न लभामा’’ति कथं समुट्ठापेसि. सो कथिपाहेनेव तस्सा कथं सुत्वा उक्कण्ठि. अथ नं एकदिवसं आगन्तुका भिक्खू दिस्वा ‘‘कस्मा त्वं, आवुसो, किसो उप्पण्डुपण्डुकजातोसी’’ति पुच्छित्वा ‘‘उक्कण्ठितोम्हि, आवुसो’’ति वुत्ते आचरियुपज्झायानं सन्तिकं नयिंसु. तेपि नं सत्थु सन्तिकं नेत्वा तमत्थं आरोचेसुं. सत्था ‘‘सच्चं किर त्वं, भिक्खु, उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्च’’न्ति वुत्ते ‘‘कस्मा त्वं मादिसस्स आरद्धवीरियस्स बुद्धस्स सासने पब्बजित्वा ‘सोतापन्नो’ति वा ‘सकदागामी’ति वा अत्तानं अवदापेत्वा ‘उक्कण्ठितो’ति वदापेसि, भारियं ते कम्मं कत’’न्ति वत्वा ‘‘किं कारणा उक्कण्ठितोसी’’ति पुच्छि. ‘‘भन्ते, एका मं इत्थी एवमाहा’’ति वुत्ते, ‘‘भिक्खु, अनच्छरियं एतं तस्सा किरियं. सा हि पुब्बे सकलजम्बुदीपे अग्गधनुग्गहपण्डितं पहाय तंमुहुत्तदिट्ठके एकस्मिं सिनेहं उप्पादेत्वा तं जीवितक्खयं पापेसी’’ति वत्वा तस्सत्थस्स पकासनत्थं भिक्खूहि याचितो –
अतीते चूळधनुग्गहपण्डितकाले तक्कसिलायं दिसापामोक्खस्स आचरियस्स सन्तिके सिप्पं उग्गहेत्वा तेन तुट्ठेन दिन्नं धीतरं आदाय बाराणसिं गच्छन्तस्स एकस्मिं अटविमुखे एकूनपञ्ञासाय कण्डेहि एकूनपञ्ञासचोरे मारेत्वा कण्डेसु खीणेसु चोरजेट्ठकं गहेत्वा भूमियं पातेत्वा, ‘‘भद्दे, असिं आहरा’’ति वुत्ते ताय तङ्खणं दिट्ठचोरे सिनेहं कत्वा चोरस्स हत्थे असिथरुं ठपेत्वा चोरेन धनुग्गहपण्डितस्स मारितभावं आविकत्वा चोरेन च तं आदाय गच्छन्तेन ‘‘मम्पि एसा अञ्ञं दिस्वा अत्तनो सामिकं विय मारापेस्सति, किं मे इमाया’’ति एकं नदिं दिस्वा ओरिमतीरे तं ठपेत्वा तस्सा भण्डकं आदाय ‘‘त्वं इधेव होहि, यावाहं भण्डिकं उत्तारेमी’’ति तत्थेव तं पहाय गमनभावञ्च आविकत्वा –
‘‘सब्बं भण्डं समादाय, पारं तिण्णोसि ब्राह्मण;
पच्चागच्छ लहुं खिप्पं, मम्पि तारेहि दानितो.
‘‘असन्थुतं मं चिरसन्थुतेन,
निमीनि भोती अद्धुवं धुवेन;
मयापि भोती निमिनेय्य अञ्ञं,
इतो अहं दूरतरं गमिस्सं.
‘‘कायं एळगलागुम्बे, करोति अहुहासियं;
नयीध नच्चं वा गीतं वा, ताळं वा सुसमाहितं;
अनम्हिकाले सुसोणि, किं नु जग्घसि सोभने.
‘‘सिङ्गाल बाल दुम्मेध, अप्पपञ्ञोसि जम्बुक;
जीनो मच्छञ्च पेसिञ्च, कपणो विय झायसि.
‘‘सुदस्सं वज्जमञ्ञेसं, अत्तनो पन दुद्दसं;
जीना पतिञ्च जारञ्च, मञ्ञे त्वञ्ञेव झायसि.
‘‘एवमेतं मिगराज, यथा भाससि जम्बुक;
सा नूनाहं इतो गन्त्वा, भत्तु हेस्सं वसानुगा.
‘‘यो हरे मत्तिकं थालं, कंसथालम्पि सो हरे;
कतञ्चेव तया पापं, पुनपेवं करिस्ससी’’ति. (जा. १.५.१२८-१३४) –
इमं पञ्चकनिपाते चूळधनुग्गहजातकं वित्थारेत्वा ‘‘तदा चूळधनुग्गहपण्डितो त्वं अहोसि, सा इत्थी एतरहि अयं कुमारिका, सिङ्गालरूपेन आगन्त्वा तस्सा निग्गहकारको सक्को देवराजा अहमेवा’’ति वत्वा ‘‘एवं सा इत्थी तंमुहुत्तदिट्ठके एकस्मिं सिनेहेन सकलजम्बुदीपे अग्गपण्डितं जीविता वोरोपेसि, तं इत्थिं आरब्भ उप्पन्नं तव तण्हं छिन्दित्वा विहराहि भिक्खू’’ति तं ओवदित्वा उत्तरिम्पि धम्मं देसेन्तो इमा द्वे गाथा अभासि –
३४९. ‘‘वितक्कमथितस्स जन्तुनो,
तिब्बरागस्स सुभानुपस्सिनो;
भिय्यो तण्हा पवड्ढति,
एस खो दळ्हं करोति बन्धनं.
३५०. ‘‘वितक्कूपसमे च यो रतो,
असुभं भावयते सदा सतो;
एस खो ब्यन्ति काहिति,
एस छेच्छति मारबन्धन’’न्ति.
तत्थ वितक्कमथितस्साति कामवितक्कादीहि वितक्केहि निम्मथितस्स. तिब्बरागस्साति बहलरागस्स. सुभानुपस्सिनोति इट्ठारम्मणे सुभनिमित्तगाहादिवसेन विस्सट्ठमानसताय सुभन्ति अनुपस्सन्तस्स. तण्हाति एवरूपस्स झानादीसु एकम्पि न वड्ढति, अथ खो छद्वारिका तण्हायेव भिय्यो वड्ढति. एस खोति एसो पुग्गलो तण्हाबन्धनं दळ्हं सुथिरं करोति. वितक्कूपसमेति मिच्छावितक्कादीनं वूपसमसङ्खाते दससु असुभेसु पठमज्झाने. सदा सतोति यो एत्थ अभिरतो हुत्वा निच्चं उपट्ठितसतिताय सतो तं असुभझानं भावेति. ब्यन्ति काहितीति एस भिक्खु तीसु भवेसु उप्पज्जनकं तण्हं विगतन्तं करिस्सति. मारबन्धनन्ति एसो तेभूमकवट्टसङ्खातं मारबन्धनम्पि छिन्दिस्सतीति अत्थो.
देसनावसाने सो भिक्खु सोतापत्तिफले पतिट्ठहि, सम्पत्तानम्पि सात्थिका धम्मदेसना अहोसीति.
चूळधनुग्गहपण्डितवत्थु सत्तमं.