४. पसेनदिकोसलवत्थु
मिद्धी यदा होतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो राजानं पसेनदिकोसलं आरब्भ कथेसि.
एकस्मिञ्हि समये राजा तण्डुलदोणस्स ओदनं तदुपियेन सूपब्यञ्जनेन भुञ्जति. सो एकदिवसं भुत्तपातरासो भत्तसम्मदं अविनोदेत्वाव सत्थु सन्तिकं गन्त्वा किलन्तरूपो इतो चितो च सम्परिवत्तति, निद्दाय अभिभुय्यमानोपि उजुकं निपज्जितुं असक्कोन्तो एकमन्तं निसीदि. अथ नं सत्था आह – ‘‘किं, महाराज, अविस्समित्वाव आगतोसी’’ति? ‘‘आम, भन्ते, भुत्तकालतो पट्ठाय मे महादुक्खं होती’’ति. अथ नं सत्था, ‘‘महाराज, अतिबहुभोजनं एवं दुक्खं होती’’ति वत्वा इमं गाथमाह –
३२५. ‘‘मिद्धी यदा होति महग्घसो च,
निद्दायिता सम्परिवत्तसायी;
महावराहोव निवापपुट्ठो,
पुनप्पुनं गब्भमुपेति मन्दो’’ति.
तत्थ मिद्धीति थिनमिद्धाभिभूतो. महग्घसो चाति महाभोजनो आहरहत्थकअलंसाटकतत्रवट्टककाकमासकभुत्तवमितकानं अञ्ञतरो विय. निवापपुट्ठोति कुण्डकादिना सूकरभत्तेन पुट्ठो. घरसूकरो हि दहरकालतो पट्ठाय पोसियमानो थूलसरीरकाले गेहा बहि निक्खमितुं अलभन्तो हेट्ठामञ्चादीसु सम्परिवत्तित्वा अस्ससन्तो पस्ससन्तो सयतेव. इदं वुत्तं होति – यदा पुरिसो मिद्धी च होति महग्घसो च, निवापपुट्ठो महावराहो विय च अञ्ञेन इरियापथेन यापेतुं असक्कोन्तो निद्दायनसीलो सम्परिवत्तसायी, तदा सो ‘‘अनिच्चं दुक्खं अनत्ता’’ति तीणि लक्खणानि मनसिकातुं न सक्कोति. तेसं अमनसिकारा मन्दपञ्ञो पुनप्पुनं गब्भमुपेति, गब्भवासतो न परिमुच्चतीति. देसनावसाने सत्था रञ्ञो उपकारवसेन –
‘‘मनुजस्स सदा सतीमतो, मत्तं जानतो लद्धभोजने;
तनुकस्स भवन्ति वेदना, सणिकं जीरति आयु पालय’’न्ति. (सं. नि. १.१२४);
इमं गाथं वत्वा उत्तरमाणवं उग्गण्हापेत्वा ‘‘इमं गाथं रञ्ञो भोजनवेलाय पवेदेय्यासि, इमिना उपायेन भोजनं परिहापेय्यासी’’ति उपायं आचिक्खि, सो तथा अकासि. राजा अपरेन समयेन नाळिकोदनपरमताय सण्ठितो सुसल्लहुकसरीरो सुखप्पत्तो सत्थरि उप्पन्नविस्सासो सत्ताहं असदिसदानं पवत्तेसि. दानानुमोदनाय महाजनो महन्तं विसेसं पापुणीति.
पसेनदिकोसलवत्थु चतुत्थं.