९. एकविहारित्थेरवत्थु

एकासनन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो एकविहारित्थेरं नाम आरब्भ कथेसि.

सो किर थेरो एककोव सेय्यं कप्पेति, एककोव निसीदति, एककोव चङ्कमति, एककोव तिट्ठतीति चतुपरिसन्तरे पाकटो अहोसि. अथ नं भिक्खू, ‘‘भन्ते, एवरूपो नामायं थेरो’’ति तथागतस्सारोचेसुं. सत्था ‘‘साधु साधू’’ति तस्स साधुकारं दत्वा ‘‘भिक्खुना नाम पविवित्तेन भवितब्ब’’न्ति विवेके आनिसंसं कथेत्वा इमं गाथमाह –

३०५. ‘‘एकासनं एकसेय्यं, एको चरमतन्दितो;

एको दमयमत्तानं, वनन्ते रमितो सिया’’ति.

तत्थ एकासनं एकसेय्यन्ति भिक्खुसहस्समज्झेपि मूलकम्मट्ठानं अविजहित्वा तेनेव मनसिकारेन निसिन्नस्स आसनं एकासनं नाम. लोहपासादसदिसेपि च पासादे भिक्खुसहस्समज्झेपि पञ्ञत्ते विचित्रपच्चत्थरणूपधाने महारहे सयने सतिं उपट्ठपेत्वा दक्खिणेन पस्सेन मूलकम्मट्ठानमनसिकारेन निपन्नस्स भिक्खुनो सेय्या एकसेय्या नाम. एवरूपं एकासनञ्च एकसेय्यञ्च भजेथाति अत्थो. अतन्दितोति जङ्घबलं निस्साय जीवितकप्पनेन अकुसीतो हुत्वा सब्बीरियापथेसु एककोव चरन्तोति अत्थो. एको दमयन्ति रत्तिट्ठानादीसु कम्मट्ठानं अनुयुञ्जित्वा मग्गफलाधिगमवसेन एकोव हुत्वा अत्तानं दमेन्तोति अत्थो. वनन्ते रमितो सियाति एवं अत्तानं दमेन्तो इत्थिपुरिससद्दादीहि पविवित्ते वनन्तेयेव अभिरमितो भवेय्य. न हि सक्का आकिण्णविहारिना एवं अत्तानं दमेतुन्ति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसु. ततो पट्ठाय महाजनो एकविहारिकमेव पत्थेसीति.

एकविहारित्थेरवत्थु नवमं.

पकिण्णकवग्गवण्णना निट्ठिता.

एकवीसतिमो वग्गो.