१४. बुद्धवग्गो

१. मारधीतरवत्थु

यस्स जितन्ति इमं धम्मदेसनं सत्था बोधिमण्डे विहरन्तो मारधीतरो आरब्भ कथेसि. देसनं पन सावत्थियं समुट्ठापेत्वा पुन कुरुरट्ठे मागण्डियब्राह्मणस्स कथेसि.

कुरुरट्ठे किर मागण्डियब्राह्मणस्स धीता मागण्डियायेव नाम अहोसि उत्तमरूपधरा. तं पत्थयमाना अनेकब्राह्मणमहासाला चेव खत्तियमहासाला च ‘‘धीतरं नो देतू’’ति मागण्डियस्स पहिणिंसु. सोपि ‘‘न तुम्हे मय्हं धीतु अनुच्छविका’’ति सब्बे पटिक्खिपतेव. अथेकदिवसं सत्था पच्चूससमये लोकं वोलोकेन्तो अत्तनो ञाणजालस्स अन्तो पविट्ठं मागण्डियब्राह्मणं दिस्वा ‘‘किं नु खो भविस्सती’’ति उपधारेन्तो ब्राह्मणस्स च ब्राह्मणिया च तिण्णं मग्गफलानं उपनिस्सयं अद्दस. ब्राह्मणोपि बहिगामे निबद्धं अग्गिं परिचरति. सत्था पातोव पत्तचीवरमादाय तं ठानं अगमासि. ब्राह्मणो सत्थु रूपसिरिं ओलोकेन्तो ‘‘इमस्मिं लोके इमिना सदिसो पुरिसो नाम नत्थि, अयं मय्हं धीतु अनुच्छविको, इमस्स मे धीतरं दस्सामा’’ति चिन्तेत्वा सत्थारं आह – ‘‘समण, मम एका धीता अत्थि, अहं तस्सा अनुच्छविकं पुरिसं अपस्सन्तो तं न कस्सचि अदासिं, त्वं पनस्सा अनुच्छविको, अहं ते धीतरं पादपरिचारिकं कत्वा दातुकामो, याव नं आनेमि, ताव इधेव तिट्ठाही’’ति. सत्था तस्स कथं सुत्वा नेव अभिनन्दि, न पटिक्कोसि.

ब्राह्मणोपि गेहं गन्त्वा ब्राह्मणिं आह – ‘‘भोति, अज्ज मे धीतु अनुच्छविको पुरिसो दिट्ठो, तस्स नं दस्सामा’’ति धीतरं अलङ्कारापेत्वा आदाय ब्राह्मणिया सद्धिं तं ठानं अगमासि. महाजनोपि कुतूहलजातो निक्खमि. सत्था ब्राह्मणेन वुत्तट्ठाने अट्ठत्वा तत्थ पदचेतियं दस्सेत्वा अञ्ञस्मिं ठाने अट्ठासि. बुद्धानं किर पदचेतियं ‘‘इदं असुको नाम पस्सतू’’ति अधिट्ठहित्वा अक्कन्तट्ठानेयेव पञ्ञायति, सेसट्ठाने तं पस्सन्तो नाम नत्थि. ब्राह्मणो अत्तना सद्धिं गच्छमानाय ब्राह्मणिया ‘‘कहं सो’’ति पुट्ठो ‘‘इमस्मिं ठाने तिट्ठाहीति तं अवच’’न्ति ओलोकेन्तो पदवलञ्जं दिस्वा ‘‘इदमस्स पद’’न्ति दस्सेसि. सा लक्खणमन्तकुसलताय ‘‘न इदं, ब्राह्मण, कामभोगिनो पद’’न्ति वत्वा ब्राह्मणेन, ‘‘भोति, त्वं उदकपातिम्हि सुसुमारं पस्ससि, मया सो समणो दिट्ठो ‘धीतरं ते दस्सामी’ति वुत्तो, तेनापि अधिवासित’’न्ति वुत्ते, ‘‘ब्राह्मण, किञ्चापि त्वं एवं वदेसि, इदं पन निक्किलेसस्सेव पद’’न्ति वत्वा इमं गाथमाह –

‘‘रत्तस्स हि उक्कुटिकं पदं भवे,

दुट्ठस्स होति सहसानुपीळितं;

मूळ्हस्स होति अवकड्ढितं पदं,

विवट्टच्छदस्स इदमीदिसं पद’’न्ति. (विसुद्धि. १.४५; अ. नि. अट्ठ. १.१.२६०-२६१; ध. प. अट्ठ. १.सामावतीवत्थु);

अथ नं ब्राह्मणो, ‘‘भोति, मा विरवि, तुण्हीभूताव एही’’ति गच्छन्तो सत्थारं दिस्वा ‘‘अयं सो पुरिसो’’ति तस्सा दस्सेत्वा सत्थारं उपसङ्कमित्वा, ‘‘समण, धीतरं ते दस्सामी’’ति आह. सत्था ‘‘न मे तव धीताय अत्थो’’ति अवत्वा, ‘‘ब्राह्मण, एकं ते कारणं कथेस्सामि, सुणिस्ससी’’ति वत्वा ‘‘कथेहि, भो समण, सुणिस्सामी’’ति वुत्ते अभिनिक्खमनतो पट्ठाय अतीतं आहरित्वा दस्सेसि.

तत्रायं सङ्खेपकथा – महासत्तो रज्जसिरिं पहाय कण्टकं आरुय्ह छन्नसहायो अभिनिक्खमन्तो नगरद्वारे ठितेन मारेन ‘‘सिद्धत्थ, निवत्त, इतो ते सत्तमे दिवसे चक्करतनं पातुभविस्सती’’ति वुत्ते, ‘‘अहमेतं, मार, जानामि, न मे तेनत्थो’’ति आह. अथ किमत्थाय निक्खमसीति? सब्बञ्ञुतञ्ञाणत्थायाति. ‘‘तेन हि सचे अज्जतो पट्ठाय कामवितक्कादीनं एकम्पि वितक्कं वितक्केस्ससि, जानिस्सामि ते कत्तब्ब’’न्ति आह. सो ततो पट्ठाय ओतारापेक्खो सत्त वस्सानि महासत्तं अनुबन्धि.

सत्थापि छब्बस्सानि दुक्करकारिकं चरित्वा पच्चत्तपुरिसकारं निस्साय बोधिमूले सब्बञ्ञुतञ्ञाणं पटिविज्झित्वा विमुत्तिसुखं पटिसंवेदयमानो पञ्चमसत्ताहे अजपालनिग्रोधमूले निसीदि. तस्मिं समये मारो ‘‘अहं एत्तकं कालं अनुबन्धित्वा ओतारापेक्खोपि इमस्स किञ्चि खलितं नाद्दसं, अतिक्कन्तो इदानि एस मम विसय’’न्ति दोमनस्सप्पत्तो महामग्गे निसीदि. अथस्स तण्हा अरती रगाति इमा तिस्सो धीतरो ‘‘पिता नो न पञ्ञायति, कहं नु खो एतरही’’ति ओलोकयमाना तं तथा निसिन्नं दिस्वा उपसङ्कमित्वा ‘‘कस्मा, तात, दुक्खी दुम्मनोसी’’ति पुच्छिंसु. सो तासं तमत्थं आरोचेसि. अथ नं ता आहंसु – ‘‘तात, मा चिन्तयि, मयं तं अत्तनो वसे कत्वा आनेस्सामा’’ति. ‘‘न सक्का अम्मा, एस केनचि वसे कातुन्ति. ‘‘तात, मयं इत्थियो नाम इदानेव नं रागपासादीहि बन्धित्वा आनेस्साम, तुम्हे मा चिन्तयित्था’’ति सत्थारं उपसङ्कमित्वा ‘‘पादे ते, समण, परिचारेमा’’ति आहंसु. सत्था नेव तासं वचनं मनसाकासि, न अक्खीनि उम्मीलेत्वा ओलोकेसि.

पुन मारधीतरो ‘‘उच्चावचा खो पुरिसानं अधिप्पाया, केसञ्चि कुमारिकासु पेमं होति, केसञ्चि पठमवये ठितासु, केसञ्चि मज्झिमवये ठितासु, केसञ्चि पच्छिमवये ठितासु, नानप्पकारेहि तं पलोभेस्सामा’’ति एकेका कुमारिकवण्णादिवसेन सतं सतं अत्तभावे अभिनिम्मिनित्वा कुमारियो, अविजाता, सकिं विजाता, दुविजाता, मज्झिमित्थियो, महल्लकित्थियो च हुत्वा छक्खत्तुं भगवन्तं उपसङ्कमित्वा ‘‘पादे ते, समण, परिचारेमा’’ति आहंसु. तम्पि भगवा न मनसाकासि यथा तं अनुत्तरे उपधिसङ्खये विमुत्तोति. अथ सत्था एत्तकेनपि ता अनुगच्छन्तियो ‘‘अपेथ, किं दिस्वा एवं वायमथ, एवरूपं नाम वीतरागानं पुरतो कातुं न वट्टति. तथागतस्स पन रागादयो पहीना. केन तं कारणेन अत्तनो वसं नेस्सथा’’ति वत्वा इमा गाथा अभासि –

१७९. ‘‘यस्स जितं नावजीयति,

जितं यस्स नोयाति कोचि लोके;

तं बुद्धमनन्तगोचरं,

अपदं केन पदेन नेस्सथ.

१८०. ‘‘यस्स जालिनी विसत्तिका,

तण्हा नत्थि कुहिञ्चि नेतवे;

तं बुद्धमनन्तगोचरं,

अपदं केन पदेन नेस्सथा’’ति.

तत्थ यस्स जितं नावजीयतीति यस्स सम्मासम्बुद्धस्स तेन तेन मग्गेन जितं रागादिकिलेसजातं पुन असमुदाचरणतो नावजीयति, दुज्जितं नाम न होति. नोयातीति न उय्याति, यस्स जितं किलेसजातं रागादीसु कोचि एको किलेसोपि लोके पच्छतो वत्ती नाम न होति, नानुबन्धतीति अत्थो. अनन्तगोचरन्ति अनन्तारम्मणस्स सब्बञ्ञुतञ्ञाणस्स वसेन अपरियन्त गोचरं. केन पदेनाति यस्स हि रागपदादीसु एकपदम्पि अत्थि, तं तुम्हे तेन पदेन नेस्सथ. बुद्धस्स पन एकपदम्पि नत्थि, तं अपदं बुद्धं तुम्हे केन पदेन नेस्सथ.

दुतियगाथाय तण्हा नामेसा संसिब्बितपरियोनन्धनट्ठेन जालमस्सा अत्थीतिपि जालकारिकातिपि जालूपमातिपि जालिनी. रूपादीसु आरम्मणेसु विसत्तताय विसत्तमनताय विसाहरताय विसपुप्फताय विसफलताय विसपरिभोगताय विसत्तिका. सा एवरूपा तण्हा यस्स कुहिञ्चि भवे नेतुं नत्थि, तं तुम्हे अपदं बुद्धं केन पदेन नेस्सथाति अत्थो.

देसनावसाने बहूनं देवतानं धम्माभिसमयो अहोसि. मारधीतरोपि तत्थेव अन्तरधायिंसु.

सत्था इमं धम्मदेसनं आहरित्वा, ‘‘मागण्डिय, अहं पुब्बे इमा तिस्सो मारधीतरो अद्दसं सेम्हादीहि अपलिबुद्धेन सुवण्णक्खन्धसदिसेन अत्तभावेन समन्नागता, तदापि मेथुनस्मिं छन्दो नाहोसियेव. तव धीतु सरीरं द्वत्तिंसाकारकुणपपरिपूरं बहिविचित्तो विय असुचिघटो. सचे हि मम पादो असुचिमक्खितो भवेय्य, अयञ्च उम्मारट्ठाने तिट्ठेय्य, तथापिस्सा सरीरे अहं पादे न फुसेय्य’’न्ति वत्वा इमं गाथमाह –

‘‘दिस्वान तण्हं अरतिं रगञ्च,

नाहोसि छन्दो अपि मेथुनस्मिं;

किमेविदं मुत्तकरीसपुण्णं,

पादापि नं सम्फुसितुं न इच्छे’’ति. (सु. नि. ८४१; महानि. ७०);

देसनावसाने उभोपि जयम्पतिका अनागामिफले पतिट्ठहिंसूति.

मारधीतरवत्थु पठमं.

२. देवोरोहणवत्थु

ये झानपसुता धीराति इमं धम्मदेसनं सत्था सङ्कस्सनगरद्वारे बहू देवमनुस्से आरब्भ कथेसि. देसना पन राजगहे समुट्ठिता.

एकस्मिञ्हि समये राजगहसेट्ठि परिस्सयमोचनत्थञ्चेव पमादेन गलितानं आभरणादीनं रक्खणत्थञ्च जालकरण्डकं परिक्खिपापेत्वा गङ्गाय उदककीळं कीळि. अथेको रत्तचन्दनरुक्खो गङ्गाय उपरितीरे जातो गङ्गोदकेन धोतमूलो पतित्वा तत्थ तत्थ पासाणेसु संभज्जमानो विप्पकिरि. ततो एका घटप्पमाणा घटिका पासाणेहि घंसियमाना उदकऊमीहि पोथियमाना मट्ठा हुत्वा अनुपुब्बेन वुय्हमाना सेवालपरियोनद्धा आगन्त्वा तस्स जाले लग्गि. सेट्ठि ‘‘किमेत’’न्ति वत्वा ‘‘रुक्खघटिका’’ति सुत्वा तं आहरापेत्वा ‘‘किं नामेत’’न्ति उपधारणत्थं वासिकण्णेन तच्छापेसि. तावदेव अलत्तकवण्णं रत्तचन्दनं पञ्ञायि. सेट्ठि पन नेव सम्मादिट्ठि न मिच्छादिट्ठि, मज्झत्तधातुको. सो चिन्तेसि – ‘‘मय्हं गेहे रत्तचन्दनं बहु, किं नु खो इमिना करिस्सामी’’ति. अथस्स एतदहोसि – ‘‘इमस्मिं लोके ‘मयं अरहन्तो मयं अरहन्तो’ति वत्तारो बहू, अहं एकं अरहन्तम्पि न पस्सामि. गेहे भमं योजेत्वा पत्तं लिखापेत्वा सिक्काय ठपेत्वा वेळुपरम्पराय सट्ठिहत्थमत्ते आकासे ओलम्बापेत्वा ‘सचे अरहा अत्थि, इमं आकासेनागन्त्वा गण्हातू’ति वक्खामि. यो तं गहेस्सति, तं सपुत्तदारो सरणं गमिस्सामी’’ति. सो चिन्तितनियामेनेव पत्तं लिखापेत्वा वेळुपरम्पराय उस्सापेत्वा ‘‘यो इमस्मिं लोके अरहा, सो आकासेनागन्त्वा इमं पत्तं गण्हातू’’ति आह.

छ सत्थारो ‘‘अम्हाकं एस अनुच्छविको, अम्हाकमेव नं देही’’ति वदिंसु. सो ‘‘आकासेनागन्त्वा गण्हथा’’ति आह. अथ छट्ठे दिवसे निगण्ठो नाटपुत्तो अन्तेवासिके पेसेसि – ‘‘गच्छथ, सेट्ठिं एवं वदेथ – ‘अम्हाकं आचरियस्सेव अनुच्छविकोयं, मा अप्पमत्तकस्स कारणा आकासेनागमनं करि, देहि किर मे तं पत्त’’’न्ति. ते गन्त्वा सेट्ठिं तथा वदिंसु. सेट्ठि ‘‘आकासेनागन्त्वा गण्हितुं समत्थोव गण्हातू’’ति आह. नाटपुत्तो सयं गन्तुकामो अन्तेवासिकानं सञ्ञं अदासि – ‘‘अहं एकं हत्थञ्च पादञ्च उक्खिपित्वा उप्पतितुकामो विय भविस्सामि, तुम्हे मं, ‘आचरिय, किं करोथ, दारुमयपत्तस्स कारणा पटिच्छन्नं अरहत्तगुणं महाजनस्स मा दस्सयित्था’ति वत्वा मं हत्थेसु च पादेसु च गहेत्वा आकड्ढन्ता भूमियं पातेय्याथा’’ति. सो तत्थ गन्त्वा सेट्ठिं आह, ‘‘महासेट्ठि, मय्हं अयं पत्तो अनुच्छविको, अञ्ञेसं नानुच्छविको, मा ते अप्पमत्तकस्स कारणा मम आकासे उप्पतनं रुच्चि, देहि मे पत्त’’न्ति. भन्ते, आकासे उप्पतित्वाव गण्हथाति. ततो नाटपुत्तो ‘‘तेन हि अपेथ अपेथा’’ति अन्तेवासिके अपनेत्वा ‘‘आकासे उप्पतिस्सामी’’ति एकं हत्थञ्च पादञ्च उक्खिपि. अथ नं अन्तेवासिका, ‘‘आचरिय, किं नामेतं करोथ, छवस्स लामकस्स दारुमयपत्तस्स कारणा पटिच्छन्नगुणेन महाजनस्स दस्सितेन को अत्थो’’ति तं हत्थपादेसु गहेत्वा आकड्ढित्वा भूमियं पातेसुं. सो सेट्ठिं आह – ‘‘इमे, महासेट्ठि, उप्पतितुं न देन्ति, देहि मे पत्त’’न्ति. उप्पतित्वा गण्हथ, भन्तेति. एवं तित्थिया छ दिवसानि वायमित्वापि तं पत्तं न लभिंसुयेव.

सत्तमे दिवसे आयस्मतो महामोग्गल्लानस्स च आयस्मतो पिण्डोलभारद्वाजस्स च ‘‘राजगहे पिण्डाय चरिस्सामा’’ति गन्त्वा एकस्मिं पिट्ठिपासाणे ठत्वा चीवरं पारुपनकाले धुत्तका कथं समुट्ठापेसुं ‘‘अम्भो पुब्बे छ सत्थारो लोके ‘मयं अरहन्तम्हा’ति विचरिंसु., राजगहसेट्ठिनो पन अज्ज सत्तमो दिवसो पत्तं उस्सापेत्वा ‘सचे अरहा अत्थि, आकासेनागन्त्वा गण्हातू’ति वदन्तस्स, एकोपि ‘अहं अरहा’ति आकासे उप्पतन्तो नत्थि. अज्ज नो लोके अरहन्तानं नत्थिभावो ञातो’’ति. तं कथं सुत्वा आयस्मा महामोग्गल्लानो आयस्मन्तं पिण्डोलभारद्वाजं आह – ‘‘सुतं ते, आवुसो भारद्वाज, इमेसं वचनं, इमे बुद्धस्स सासनं परिग्गण्हन्ता विय वदन्ति. त्वञ्च महिद्धिको महानुभावो, गच्छ तं पत्तं आकासेन गन्त्वा गण्हाही’’ति. आवुसो महामोग्गल्लान, त्वं इद्धिमन्तानं अग्गो, त्वं एतं गण्हाहि, तयि पन अग्गण्हन्ते अहं गण्हिस्सामीति. ‘‘गण्हावुसो’’ति वुत्ते आयस्मा पिण्डोलभारद्वाजो अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा उट्ठाय तिगावुतं पिट्ठिपासाणं पादन्तेन पटिच्छादेन्तो तुलपिचु विय आकासे उट्ठापेत्वा राजगहनगरस्स उपरि सत्तक्खत्तुं अनुपरियायि. सो तिगावुतपमाणस्स नगरस्स पिधानं विय पञ्ञायि. नगरवासिनो ‘‘पासाणो नो अवत्थरित्वा गण्हाती’’ति भीता सुप्पादीनि मत्थके कत्वा तत्थ तत्थ निलीयिंसु. सत्तमे वारे थेरो पिट्ठिपासाणं भिन्दित्वा अत्तानं दस्सेसि. महाजनो थेरं दिस्वा, ‘‘भन्ते पिण्डोलभारद्वाज, तव पासाणं दळ्हं कत्वा गण्ह, मा नो सब्बे नासयी’’ति. थेरो पासाणं पादन्तेन खिपित्वा विस्सज्जेसि. सो गन्त्वा यथाठानेयेव पतिट्ठासि. थेरो सेट्ठिस्स गेहमत्थके अट्ठासि. तं दिस्वा सेट्ठि उरेन निपज्जित्वा ‘‘ओतरथ सामी’’ति वत्वा आकासतो ओतिण्णं थेरं निसीदापेत्वा पत्तं ओतारापेत्वा चतुमधुरपुण्णं कत्वा थेरस्स अदासि. थेरो पत्तं गहेत्वा विहाराभिमुखो पायासि. अथस्स ये अरञ्ञगता वा सुञ्ञागारगता वा तं पाटिहारियं नाद्दसंसु. ते सन्निपतित्वा, ‘‘भन्ते, अम्हाकम्पि पाटिहारियं दस्सेही’’ति थेरं अनुबन्धिंसु. सो तेसं तेसं पाटिहारियं दस्सेत्वा विहारं अगमासि.

सत्था तं अनुबन्धित्वा उन्नादेन्तस्स महाजनस्स सद्दं सुत्वा, ‘‘आनन्द, कस्सेसो सद्दो’’ति पुच्छित्वा, ‘‘भन्ते, पिण्डोलभारद्वाजेन आकासे उप्पतित्वा चन्दनपत्तो गहितो, तस्स सन्तिके एसो सद्दो’’ति सुत्वा भारद्वाजं पक्कोसापेत्वा ‘‘सच्चं किर तया एवं कत’’न्ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते, ‘‘कस्मा ते, भारद्वाज, एवं कत’’न्ति थेरं गरहित्वा तं पत्तं खण्डाखण्डं भेदापेत्वा भिक्खूनं अञ्जनपिसनत्थाय दापेत्वा पाटिहारियस्स अकरणत्थाय सावकानं सिक्खापदं (चूळव. २५२) पञ्ञापेसि.

तित्थिया ‘‘समणो किर गोतमो तं पत्तं भेदापेत्वा पाटिहारियस्स अकरणत्थाय सावकानं सिक्खापदं पञ्ञापेसी’’ति सुत्वा ‘‘समणस्स गोतमस्स सावका पञ्ञत्तं सिक्खापदं जीवितहेतुपि नातिक्कमन्ति, समणोपि गोतमो तं रक्खिस्सतेव. इदानि अम्हेहि ओकासो लद्धो’’ति नगरवीथीसु आरोचेन्ता विचरिंसु ‘‘मयं अत्तनो गुणं रक्खन्ता पुब्बे दारुमयपत्तस्स कारणा अत्तनो गुणं महाजनस्स न दस्सयिम्हा, समणस्स गोतमस्स सावका पत्तकमत्तस्स कारणा अत्तनो गुणं महाजनस्स दस्सेसुं. समणो गोतमो अत्तनो पण्डितताय पत्तं भेदापेत्वा सिक्खापदं पञ्ञापेसि, इदानि मयं तेनेव सद्धिं पाटिहारियं करिस्सामा’’ति.

राजा बिम्बिसारो तं कथं सुत्वा सत्थु सन्तिकं गन्त्वा ‘‘तुम्हेहि किर, भन्ते, पाटिहारियस्स अकरणत्थाय सावकानं सिक्खापदं पञ्ञत्त’’न्ति? ‘‘आम, महाराजा’’ति. इदानि तित्थिया ‘‘तुम्हेहि सद्धिं पाटिहारियं करिस्सामा’’ति वदन्ति, किं इदानि करिस्सथाति? ‘‘तेसु करोन्तेसु करिस्सामि, महाराजा’’ति. ननु तुम्हेहि सिक्खापदं पञ्ञत्तन्ति. नाहं, महाराज, अत्तनो सिक्खापदं पञ्ञापेसिं, तं ममेव सावकानं पञ्ञत्तन्ति. तुम्हे ठपेत्वा अञ्ञत्थ सिक्खापदं पञ्ञत्तं नाम होति, भन्तेति. तेन हि, महाराज, तमेवेत्थ पटिपुच्छामि, ‘‘अत्थि पन ते, महाराज, विजिते उय्यान’’न्ति. ‘‘अत्थि, भन्ते’’ति. ‘‘सचे ते, महाराज, उय्याने महाजनो अम्बादीनि खादेय्य, किमस्स कत्तब्ब’’न्ति? ‘‘दण्डो, भन्ते’’ति. ‘‘त्वं पन खादितुं लभसी’’ति? ‘‘आम, भन्ते, मय्हं दण्डो नत्थि, अहं अत्तनो सन्तकं खादितुं लभामी’’ति. ‘‘महाराज, यथा तव तियोजनसतिके रज्जे आणा पवत्तति, अत्तनो उय्याने अम्बादीनि खादन्तस्स दण्डो नत्थि, अञ्ञेसं अत्थि, एवं ममपि चक्कवाळकोटिसतसहस्से आणा पवत्तति, अत्तनो सिक्खापदपञ्ञत्तिया अतिक्कमो नाम नत्थि, अञ्ञेसं पन अत्थि, करिस्सामहं पाटिहारिय’’न्ति. तित्थिया तं कथं सुत्वा ‘‘इदानम्हा नट्ठा, समणेन किर गोतमेन सावकानंयेव सिक्खापदं पञ्ञत्तं, न अत्तनो. सयमेव किर पाटिहारियं कत्तुकामो, किं नु खो करोमा’’ति मन्तयिंसु.

राजा सत्थारं पुच्छि – ‘‘भन्ते, कदा पाटिहारियं करिस्सथा’’ति. ‘‘इतो चतुमासच्चयेन आसाळ्हिपुण्णमायं, महाराजा’’ति. ‘‘कत्थ करिस्सथ, भन्ते’’ति? ‘‘सावत्थिं निस्साय, महाराजा’’ति. ‘‘कस्मा पन सत्था एवं दूरट्ठानं अपदिसी’’ति? ‘‘यस्मा तं सब्बबुद्धानं महापाटिहारियकरणट्ठानं, अपिच महाजनस्स सन्निपातनत्थायपि दूरट्ठानमेव अपदिसी’’ति. तित्थिया तं कथं सुत्वा ‘‘इतो किर चतुन्नं मासानं अच्चयेन समणो गोतमो सावत्थियं पाटिहारियं करिस्सति, इदानि तं अमुञ्चित्वाव अनुबन्धिस्साम, महाजनो अम्हे दिस्वा ‘किं इद’न्ति पुच्छिस्सति. अथस्स वक्खाम ‘मयं समणेन गोतमेन सद्धिं पाटिहारियं करिस्सामा’ति वदिम्हा. सो पलायति, मयमस्स पलायितुं अदत्वा अनुबन्धामा’’ति. सत्था राजगहे पिण्डाय चरित्वा निक्खमि. तित्थियापिस्स पच्छतोव निक्खमित्वा भत्तकिच्चट्ठाने वसन्ति. वसितट्ठाने पुनदिवसे पातरासं करोन्ति. ते मनुस्सेहि ‘‘किमिद’’न्ति पुच्छिता हेट्ठा चिन्तितनियामेनेव आरोचेसुं. महाजनोपि ‘‘पाटिहारियं पस्सिस्सामा’’ति अनुबन्धि.

सत्था अनुपुब्बेन सावत्थिं पापुणि. तित्थियापि तेन सद्धिंयेव गन्त्वा उपट्ठाके समादपेत्वा सतसहस्सं लभित्वा खदिरथम्भेहि मण्डपं कारेत्वा नीलुप्पलेहि छादापेत्वा ‘‘इध पाटिहारियं करिस्सामा’’ति निसीदिंसु. राजा पसेनदि कोसलो सत्थारं उपसङ्कमित्वा, ‘‘भन्ते, तित्थियेहि मण्डपो कारितो, अहम्पि तुम्हाकं मण्डपं करिस्सामी’’ति. ‘‘अलं, महाराज, अत्थि मय्हं मण्डपकारको’’ति. ‘‘भन्ते, मं ठपेत्वा को अञ्ञो कातुं सक्खिस्सती’’ति? ‘‘सक्को, देवराजा’’ति. ‘‘कहं पन, भन्ते, पाटिहारियं करिस्सथा’’ति? ‘‘कण्डम्बरुक्खमूले, महाराजा’’ति. तित्थिया ‘‘अम्बरुक्खमूले किर पाटिहारियं करिस्सती’’ति सुत्वा अत्तनो उपट्ठाकानं आरोचेत्वा योजनब्भन्तरे ठाने अन्तमसो तदहुजातम्पि अम्बपोतकं उप्पाटेत्वा अरञ्ञे खिपापेसुं.

सत्था आसाळ्हिपुण्णमदिवसे अन्तोनगरं पाविसि. रञ्ञोपि उय्यानपालो कण्डो नाम एकं पिङ्गलकिपिल्लिकेहि कतपत्तपुटस्स अन्तरे महन्तं अम्बपक्कं दिस्वा तस्स गन्धरसलोभेन सम्पतन्ते वायसे पलापेत्वा रञ्ञो खादनत्थाय आदाय गच्छन्तो अन्तरामग्गे सत्थारं दिस्वा चिन्तेसि – ‘‘राजा इमं अम्बं खादित्वा मय्हं अट्ठ वा सोळस वा कहापणे ददेय्य, तं मे एकत्तभावेपि जीवितवुत्तिया नालं. सचे पनाहं सत्थु इमं दस्सामि, अवस्सं तं मे दीघकालं हितावहं भविस्सती’’ति. सो तं अम्बपक्कं सत्थु उपनामेसि. सत्था आनन्दत्थेरं ओलोकेसि. अथस्स थेरो चतुमहाराजदत्तियं पत्तं नीहरित्वा हत्थे ठपेसि. सत्था पत्तं उपनामेत्वा अम्बपक्कं पटिग्गहेत्वा तत्थेव निसीदनाकारं दस्सेसि. थेरो चीवरं पञ्ञापेत्वा अदासि. अथस्स तस्मिं निसिन्ने थेरो पानीयं परिस्सावेत्वा अम्बपक्कं मद्दित्वा पानकं कत्वा अदासि. सत्था अम्बपानकं पिवित्वा कण्डं आह – ‘‘इमं अम्बट्ठिं इधेव पंसुं वियूहित्वा रोपेही’’ति. सो तथा अकासि. सत्था तस्स उपरि हत्थं धोवि. हत्थे धोवितमत्तेयेव नङ्गलसीसमत्तक्खन्धो हुत्वा उब्बेधेन पण्णासहत्थो अम्बरुक्खो उट्ठहि. चतूसु दिसासु एकेका, उद्धं एकाति पञ्च महासाखा पण्णासहत्था अहेसुं. सो तावदेव पुप्फफलसञ्छन्नो हुत्वा एकेकस्मिं ठाने परिपक्कअम्बपिण्डिधरो अहोसि. पच्छतो आगच्छन्ता भिक्खू अम्बपक्कानि खादन्ता एव आगमिंसु. राजा ‘‘एवरूपो किर अम्बरुक्खो उट्ठितो’’ति सुत्वा ‘‘मा नं कोचि छिन्दी’’ति आरक्खं ठपेसि. सो पन कण्डेन रोपितत्ता कण्डम्बरुक्खोत्वेव पञ्ञायि. धुत्तकापि अम्बपक्कानि खादित्वा ‘‘हरे दुट्ठतित्थिया ‘समणो किर गोतमो कण्डम्बरुक्खमूले पाटिहारियं करिस्सती’ति तुम्हेहि योजनब्भन्तरे तदहुजातापि अम्बपोतका उप्पाटापिता, कण्डम्बो नाम अय’’न्ति वत्वा ते उच्छिट्ठअम्बट्ठीहि पहरिंसु.

सक्को वातवलाहकं देवपुत्तं आणापेसि ‘‘तित्थियानं मण्डपं वातेहि उप्पाटेत्वा उक्कारभूमियं खिपापेही’’ति. सो तथा अकासि. सूरियम्पि देवपुत्तं आणापेसि ‘‘सूरियमण्डलं निकड्ढन्तो तापेही’’ति. सो तथा अकासि. पुन वातवलाहकं आणापेसि ‘‘वातमण्डलं उट्ठापेन्तो याही’’ति. सो तथा करोन्तो तित्थियानं पग्घरितसेदसरीरे रजोवट्टिया ओकिरि. ते तम्बमत्तिकसदिसा अहेसुं. वस्सवलाहकम्पि आणापेसि ‘‘महन्तानि बिन्दूनि पातेही’’ति. सो तथा अकासि. अथ नेसं कायो कबरगाविसदिसो अहोसि. ते निगण्ठा लज्जमाना हुत्वा सम्मुखसम्मुखट्ठानेनेव पलायिंसु. एवं पलायन्तेसु पुराणकस्सपस्स उपट्ठाको एको कस्सको ‘‘इदानि मे अय्यानं पाटिहारियकरणवेला, गन्त्वा पाटिहारियं पस्सिस्सामी’’ति गोणे विस्सज्जेत्वा पातोव आभतं यागुकुटञ्चेव योत्तकञ्च गहेत्वा आगच्छन्तो पुराणं तथा पलायन्तं दिस्वा, भन्ते, अज्ज ‘अय्यानं पाटिहारियं पस्सिस्सामी’ति आगच्छामि, तुम्हे कहं गच्छथा’’ति. किं ते पाटिहारियेन, इमं कुटञ्च योत्तञ्च देहीति. सो तेन दिन्नं कुटञ्च योत्तञ्च आदाय नदीतीरं गन्त्वा कुटं योत्तेन अत्तनो गीवाय बन्धित्वा लज्जन्तो किञ्चि अकथेत्वा रहदे पतित्वा उदकपुब्बुळे उट्ठापेन्तो कालं कत्वा अवीचिम्हि निब्बत्ति.

सक्को आकासे रतनचङ्कमं मापेसि. तस्स एका कोटि पाचीनचक्कवाळमुखवट्टियं अहोसि, एका पच्छिमचक्कवाळमुखवट्टियं. सत्था सन्निपतिताय छत्तिंसयोजनिकाय परिसाय वड्ढमानकच्छायाय ‘‘इदानि पाटिहारियकरणवेला’’ति गन्धकुटितो निक्खमित्वा पमुखे अट्ठासि. अथ नं घरणी नाम इद्धिमन्ती एका अनागामिउपासिका उपसङ्कमित्वा, ‘‘भन्ते, मादिसाय धीतरि विज्जमानाय तुम्हाकं किलमनकिच्चं नत्थि, अहं पाटिहारियं करिस्सामी’’ति आह. ‘‘कथं त्वं करिस्ससि, घरणी’’ति? ‘‘भन्ते, एकस्मिं चक्कवाळगब्भे महापथविं उदकं कत्वा उदकसकुणिका विय निमुज्जित्वा पाचीनचक्कवाळमुखवट्टियं अत्तानं दस्सेस्सामि, तथा पच्छिमउत्तरदक्खिणचक्कवाळमुखवट्टियं, तथा मज्झे’’. महाजनो मं दिस्वा ‘‘का एसा’’ति वुत्ते वक्खति ‘‘घरणी नामेसा, अयं ताव एकिस्सा इत्थिया आनुभावो, बुद्धानुभावो पन कीदिसो भविस्सती’’ति. एवं तित्थिया तुम्हे अदिस्वाव पलायिस्सन्तीति. अथ नं सत्था ‘‘जानामि ते घरणी एवरूपं पाटिहारियं कातुं समत्थभावं, न पनायं तवत्थाय बद्धो मालापुटो’’ति वत्वा पटिक्खिपि. सा ‘‘न मे सत्था अनुजानाति, अद्धा मया उत्तरितरं पाटिहारियं कातुं समत्थो अञ्ञो अत्थी’’ति एकमन्तं अट्ठासि. सत्थापि ‘‘एवमेव तेसं गुणो पाकटो भविस्सतीति एवं छत्तिंसयोजनिकाय परिसाय मज्झे सीहनादं नदिस्सती’’ति मञ्ञमानो अपरेपि पुच्छि – ‘‘तुम्हे कथं पाटिहारियं करिस्सथा’’ति. ते ‘‘एवञ्च एवञ्च करिस्साम, भन्ते’’ति सत्थु पुरतो ठिताव सीहनादं नदिंसु. तेसु किर चूळअनाथपिण्डिको ‘‘मादिसे अनागामिउपासके पुत्ते विज्जमाने सत्थु किलमनकिच्चं नत्थी’’ति चिन्तेत्वा ‘‘अहं, भन्ते, पाटिहारियं करिस्सामी’’ति वत्वा ‘‘कथं करिस्ससी’’ति पुट्ठो ‘‘अहं, भन्ते, द्वादसयोजनिकं ब्रह्मत्तभावं निम्मिनित्वा इमिस्सा परिसाय मज्झे महामेघगज्जितसदिसेन सद्देन ब्रह्मअप्फोटनं नाम अप्फोटेस्सामी’’ति. महाजनो ‘‘किं नामेसो सद्दो’’ति पुच्छित्वा ‘‘चूळअनाथपिण्डिकस्स किर ब्रह्मअप्फोटनसद्दो नामा’’ति वक्खति. तित्थिया ‘‘गहपतिकस्स किर ताव एसो आनुभावो, बुद्धानुभावो कीदिसो भविस्सती’’ति तुम्हे अदिस्वाव पलायिस्सन्तीति. सत्था ‘‘जानामि ते आनुभाव’’न्ति तस्सपि तथेव वत्वा पाटिहारियकरणं नानुजानि.

अथेका पटिसम्भिदप्पत्ता सत्तवस्सिका चीरसामणेरी किर नाम सत्थारं वन्दित्वा ‘‘अहं, भन्ते, पाटिहारियं करिस्सामी’’ति आह. ‘‘कथं करिस्ससि चीरे’’ति? ‘‘भन्ते, सिनेरुञ्च चक्कवाळपब्बतञ्च हिमवन्तञ्च आहरित्वा इमस्मिं ठाने पटिपाटिया ठपेत्वा अहं हंससकुणी विय ततो ततो निक्खमित्वा असज्जमाना गमिस्सामि, महाजनो मं दिस्वा ‘का एसा’ति पुच्छित्वा ‘चीरसामणेरी’ति वक्खति. तित्थिया ‘सत्तवस्सिकाय ताव सामणेरिया अयमानुभावो, बुद्धानुभावो कीदिसो भविस्सती’ति तुम्हे अदिस्वाव पलायिस्सन्ती’’ति. इतो परं एवरूपानि वचनानि वुत्तानुसारेनेव वेदितब्बानि. तस्सापि भगवा ‘‘जानामि ते आनुभाव’’न्ति वत्वा पाटिहारियकरणं नानुजानि. अथेको पटिसम्भिदप्पत्तो खीणासवो चुन्दसामणेरो नाम जातिया सत्तवस्सिको सत्थारं वन्दित्वा ‘‘अहं भगवा पाटिहारियं करिस्सामी’’ति वत्वा ‘‘कथं करिस्ससी’’ति पुट्ठो आह – ‘‘अहं, भन्ते, जम्बुदीपस्स धजभूतं महाजम्बुरुक्खं खन्धे गहेत्वा चालेत्वा महाजम्बुपेसियो आहरित्वा इमं परिसं खादापेस्सामि, पारिच्छत्तककुसुमानि च आहरित्वा तुम्हे वन्दिस्सामी’’ति. सत्था ‘‘जानामि ते आनुभाव’’न्ति तस्स पाटिहारियकरणं पटिक्खिपि.

अथ उप्पलवण्णा थेरी सत्थारं वन्दित्वा ‘‘अहं, भन्ते, पाटिहारियं करिस्सामी’’ति वत्वा ‘‘कथं करिस्ससी’’ति पुट्ठा आह – ‘‘अहं, भन्ते, समन्ता द्वादसयोजनिकं परिसं दस्सेत्वा आवट्टतो छत्तिंसयोजनाय परिसाय परिवुतो चक्कवत्तिराजा हुत्वा आगन्त्वा तुम्हे वन्दिस्सामी’’ति. सत्था ‘‘जानामि ते आनुभाव’’न्ति तस्सापि पाटिहारियकरणं पटिक्खिपि. अथ महामोग्गल्लानत्थेरो भगवन्तं वन्दित्वा ‘‘अहं, भन्ते, पाटिहारियं करिस्सामी’’ति वत्वा ‘‘कथं करिस्ससी’’ति पुट्ठो आह – ‘‘अहं, भन्ते, सिनेरुपब्बतराजानं दन्तन्तरे ठपेत्वा माससासपबीजं विय खादिस्सामी’’ति. ‘‘अञ्ञं किं करिस्ससी’’ति? ‘‘इमं महापथविं कटसारकं विय संवेल्लित्वा अङ्गुलन्तरे निक्खिपिस्सामी’’ति. ‘‘अञ्ञं किं करिस्ससी’’ति? ‘‘महापथविं कुलालचक्कं विय परिवत्तेत्वा महाजनं पथवोजं खादापेस्सामी’’ति. ‘‘अञ्ञं किं करिस्ससी’’ति? ‘‘वामहत्थे पथविं कत्वा इमे सत्ते दक्खिणहत्थेन अञ्ञस्मिं दीपे ठपेस्सामी’’ति. ‘‘अञ्ञं किं करिस्ससी’’ति? ‘‘सिनेरुं छत्तदण्डं विय कत्वा महापथविं उक्खिपित्वा तस्सुपरि ठपेत्वा छत्तहत्थो भिक्खु विय एकहत्थेनादाय आकासे चङ्कमिस्सामी’’ति. सत्था ‘‘जानामि ते आनुभाव’’न्ति तस्सपि पाटिहारियकरणं नानुजानि. सो ‘‘जानाति मञ्ञे सत्था मया उत्तरितरं पाटिहारियं कातुं समत्थ’’न्ति एकमन्तं अट्ठासि.

अथ नं सत्था ‘‘नायं मोग्गल्लानं तवत्थाय बद्धो बालापुटो. अहञ्हि असमधुरो, मम धुरं अञ्ञो वहितुं समत्थो नाम नत्थि. अनच्छरियमेतं, यं इदानि मम धुरं वहितुं समत्थो नाम भवेय्य. अहेतुकतिरच्छानयोनियं निब्बत्तकालेपि मम धुरं अञ्ञो वहितुं समत्थो नाम नाहोसियेवा’’ति वत्वा ‘‘कदा पन, भन्ते’’ति थेरेन पुट्ठो अतीतं आहरित्वा –

‘‘यतो यतो गरु धुरं, यतो गम्भीरवत्तनी;

तदास्सु कण्हं युञ्जन्ति, स्वास्सु तं वहते धुर’’न्ति. –

इदं कण्हउसभजातकं (जा. १.१.२९) वित्थारेत्वा पुन तमेव वत्थुं विसेसेत्वा दस्सेन्तो –

‘‘मनुञ्ञमेव भासेय्य, नामनुञ्ञं कुदाचनं;

मनुञ्ञं भासमानस्स, गरुं भारं उदद्धरि;

धनञ्च नं अलाभेसि, तेन चत्तमनो अहू’’ति. –

इदं नन्दिविसालजातकं वित्थारेत्वा कथेसि. कथेत्वा च पन सत्था रतनचङ्कमं अभिरुहि, पुरतो द्वादसयोजनिका परिसा अहोसि तथा पच्छतो च उत्तरतो च दक्खिणतो च. उजुकं पन चतुवीसतियोजनिकाय परिसाय मज्झे भगवा यमकपाटिहारियं अकासि.

तं पाळितो ताव एवं वेदितब्बं (पटि. म. १.११६) – कतमं तथागतस्स यमकपाटिहारिये ञाणं? इधं तथागतो यमकपाटिहारियं करोति असाधारणं सावकेहि, उपरिमकायतो अग्गिक्खन्धो पवत्तति, हेट्ठिमकायतो उदकधारा पवत्तति. हेट्ठिमकायतो अग्गिक्खन्धो पवत्तति, उपरिमकायतो उदकधारा पवत्तति. पुरत्थिमकायतो, पच्छिमकायतो; पच्छिमकायतो, पुरत्थिमकायतो; दक्खिणअक्खितो, वामअक्खितो; वामअक्खितो, दक्खिणअक्खितो; दक्खिणकण्णसोततो, वामकण्णसोततो; वामकण्णसोततो, दक्खिणकण्णसोततो; दक्खिणनासिकासोततो, वामनासिकासोततो; वामनासिकासोततो, दक्खिणनासिकासोततो; दक्खिणअंसकूटतो, वामअंसकूटतो; वामअंसकूटतो, दक्खिणअंसकूटतो; दक्खिणहत्थतो, वामहत्थतो; वामहत्थतो, दक्खिणहत्थतो; दक्खिणपस्सतो, वामपस्सतो; वामपस्सतो, दक्खिणपस्सतो; दक्खिणपादतो, वामपादतो; वामपादतो, दक्खिणपादतो; अङ्गुलङ्गुलेहि, अङ्गुलन्तरिकाहि; अङ्गुलन्तरिकाहि, अङ्गुलङ्गुलेहि; एकेकलोमकूपतो अग्गिक्खन्धो पवत्तति, एकेकलोमतो उदकधारा पवत्तति. एकेकलोमतो अग्गिक्खन्धो पवत्तति, एकेकलोमकूपतो उदकधारा पवत्तति छन्नं वण्णानं नीलानं पीतकानं लोहितकानं ओदातानं मञ्जेट्ठानं पभस्सरानं. भगवा चङ्कमति, बुद्धनिम्मितो तिट्ठति वा निसीदति वा सेय्यं वा कप्पेति…पे… निम्मितो सेय्यं कप्पेति, भगवा चङ्कमति वा तिट्ठति वा निसीदति वा. इदं तथागतस्स यमकपाटिहारिये ञाणन्ति.

इदं पन पाटिहारियं भगवा तस्मिं चङ्कमे चङ्कमित्वा अकासि. तस्स तेजोकसिणसमापत्तिवसेन उपरिमकायतो अग्गिक्खन्धो पवत्तति, आपोकसिणसमापत्तिवसेन हेट्ठिमकायतो उदकधारा पवत्तति. न पन उदकधाराय पवत्तनट्ठानतो अग्गिक्खन्धो पवत्तति, अग्गिक्खन्धस्स पवत्तनट्ठानतो उदकधारा पवत्ततीति दस्सेतुं ‘‘हेट्ठिमकायतो उपरिमकायतो’’ति वुत्तं. एसेव नयो सब्बपदेसु. अग्गिक्खन्धो पनेत्थ उदकधाराय असम्मिस्सो अहोसि, तथा उदकधारा अग्गिक्खन्धेन. उभयम्पि किर चेतं याव ब्रह्मलोका उग्गन्त्वा चक्कवाळमुखवट्टियं पतति. ‘‘छन्नं वण्णान’’न्ति वुत्ता पनस्स छब्बण्णरंसियो घटेहि आसिञ्चमानं विलीनसुवण्णं विय यन्तनालिकतो निक्खन्तसुवण्णरसधारा विय च एकचक्कवाळगब्भतो उग्गन्त्वा ब्रह्मलोकं आहच्च पटिनिवत्तित्वा चक्कवाळमुखवट्टिमेव गण्हिंसु. एकचक्कवाळगब्भं वङ्कगोपानसिकं विय बोधिघरं अहोसि एकालोकं.

तंदिवसं सत्था चङ्कमित्वा पाटिहारियं करोन्तो अन्तरन्तरा महाजनस्स धम्मं कथेसि. कथेन्तो च जनं निरस्सासं अकत्वा तस्स अस्सासवारं देति. तस्मिं खणे महाजनो साधुकारं पवत्तेसि. तस्स साधुकारपवत्तनकाले सत्था तावमहतिया परिसाय चित्तं ओलोकेन्तो एकेकस्स सोळसन्नं आकारानं वसेन चित्ताचारं अञ्ञासि. एवं लहुकपरिवत्तं बुद्धानं चित्तं. यो यो यस्मिञ्च धम्मे यस्मिञ्च पाटिहीरे पसन्नो, तस्स तस्स अज्झासयवसेनेव धम्मञ्च कथेसि, पाटिहीरञ्च अकासि. एवं धम्मे देसियमाने पाटिहीरे च करियमाने महाजनस्स धम्माभिसमयो अहोसि. सत्था पन तस्मिं समागमे अत्तनो मनं गहेत्वा अञ्ञं पञ्हं पुच्छितुं समत्थं अदिस्वा निम्मितबुद्धं मापेसि. तेन पुच्छितं पञ्हं सत्था विस्सज्जेसि, सत्थारा पुच्छितं सो विस्सज्जेसि. भगवतो चङ्कमनकाले निम्मितो ठानादीसु अञ्ञतरं कप्पेसि, निम्मितस्स चङ्कमनकाले भगवा ठानादीसु अञ्ञतरं कप्पेसि. तमत्थं दस्सेतुं ‘‘निम्मितो चङ्कमति वा’’तिआदि वुत्तं. एवं करोन्तस्स सत्थु पाटिहारियं दिस्वा धम्मकथं सुत्वा तस्मिं समागमे वीसतिया पाणकोटीनं धम्माभिसमयो अहोसि.

सत्था पाटिहीरं करोन्तोव ‘‘कत्थ नु खो अतीतबुद्धा इदं पाटिहीरं कत्वा वस्सं उपेन्ती’’ति आवज्जेत्वा ‘‘तावतिंसभवने वस्सं उपगन्त्वा मातु अभिधम्मपिटकं देसेन्ती’’ति दिस्वा दक्खिणपादं उक्खिपित्वा युगन्धरमत्थके ठपेत्वा इतरं पादं उक्खिपित्वा सिनेरुमत्थके ठपेसि. एवं अट्ठसट्ठियोजनसतसहस्सट्ठाने तयो पदवारा अहेसुं, द्वे पादछिद्दानि. सत्था पादं पसारेत्वा अक्कमीति न सल्लक्खेतब्बं. तस्स हि पादुक्खिपनकालेयेव पब्बता पादमूलं आगन्त्वा सम्पटिच्छिंसु, सत्थारा अक्कमनकाले ते पब्बता उट्ठाय सकट्ठानेयेव अट्ठंसु. सक्को सत्थारं दिस्वा चिन्तेसि – ‘‘पण्डुकम्बलसिलाय मञ्ञे सत्था इमं वस्सावासं उपेस्सति, बहूनञ्च देवतानं उपकारो भविस्सति, सत्थरि पनेत्थ वस्सावासं उपगते अञ्ञा देवता हत्थम्पि ठपेतुं न सक्खिस्सन्ति. अयं खो पन पण्डुकम्बलसिला दीघतो सट्ठियोजना, वित्थारतो पण्णासयोजना, पुथुलतो पन्नरसयोजना, सत्थरि निसिन्नेपि तुच्छं भविस्सती’’ति. सत्था तस्स अज्झासयं विदित्वा अत्तनो सङ्घाटिं सिलासनं पटिच्छादयमानं खिपि. सक्को चिन्तेसि – ‘‘चीवरं ताव पटिच्छादयमानं खिपि, सयं पन परित्तके ठाने निसीदिस्सती’’ति. सत्था तस्स अज्झासयं विदित्वा नीचपीठकं महापंसुकूलिको विय पण्डुकम्बलसिलं अन्तोचीवरभोगेयेव कत्वा निसीदि. महाजनोपि तंखणञ्ञेव सत्थारं ओलोकेन्तो नाद्दस, चन्दस्स अत्थङ्गमितकालो विय सूरियस्स च अत्थङ्गमितकालो विय अहोसि. महाजनो –

‘‘गतो नु चित्तकूटं वा, केलासं वा युगन्धरं;

न नो दक्खेमु सम्बुद्धं, लोकजेट्ठं नरासभ’’न्ति. –

इमं गाथं वदन्तो परिदेवि. अपरे ‘‘सत्था नाम पविवेकरतो, सो ‘एवरूपाय मे परिसाय एवरूपं पाटिहीरं कत’न्ति लज्जाय अञ्ञं रट्ठं वा जनपदं वा गतो भविस्सति, न दानि तं दक्खिस्सामा’’ति परिदेवन्ता इमं गाथमाहंसु –

‘‘पविवेकरतो धीरो, निमं लोकं पुनेहिति;

न नो दक्खेमु सम्बुद्धं, लोकजेट्ठं नरासभ’’न्ति.

ते महामोग्गल्लानं पुच्छिंसु – ‘‘कहं, भन्ते, सत्था’’ति? सो सयं जानन्तोपि ‘‘परेसम्पि गुणा पाकटा होन्तू’’ति अज्झासयेन ‘‘अनुरुद्धं पुच्छथा’’ति आह. ते थेरं तथा पुच्छिंसु – ‘‘कहं, भन्ते, सत्था’’ति? तावतिंसभवने पण्डुकम्बलसिलायं वस्सं उपगन्त्वा मातु अभिधम्मपिटकं देसेतुं गतोति. ‘‘कदा आगमिस्सति, भन्ते’’ति? ‘‘तयो मासे अभिधम्मपिटकं देसेत्वा महापवारणदिवसे’’ति. ते ‘‘सत्थारं अदिस्वा न गमिस्सामा’’ति तत्थेव खन्धावारं बन्धिंसु. आकासमेव किर नेसं छदनं अहोसि. ताय च महतिया परिसाय सरीरनिघंसो नाम न पञ्ञायि, पथवी विवरं अदासि, सब्बत्थ परिसुद्धमेव भूमितलं अहोसि.

सत्था पठममेव मोग्गल्लानत्थेरं अवोच – ‘‘मोग्गल्लान, त्वं एतिस्साय परिसाय धम्मं देसेय्यासि, चूळअनाथपिण्डिको आहारं दस्सती’’ति. तस्मा तं तेमासं चूळअनाथपिण्डिकोव तस्सा परिसाय यापनं यागुभत्तं खादनीयं तम्बुलतेलगन्धमालापिलन्धनानि च अदासि. महामोग्गल्लानो धम्मं देसेसि, पाटिहारियदस्सनत्थं आगतागतेहि पुट्ठपञ्हे च विस्सज्जेसि. सत्थारम्पि मातु अभिधम्मदेसनत्थं पण्डुकम्बलसिलायं वस्सं उपगतं दससहस्सचक्कवाळदेवता परिवारयिंसु. तेन वुत्तं –

‘‘तावतिंसे यदा बुद्धो, सिलायं पण्डुकम्बले;

पारिच्छत्तकमूलम्हि, विहासि पुरिसुत्तमो.

‘‘दससु लोकधातूसु, सन्निपतित्वान देवता;

पयिरुपासन्ति सम्बुद्धं, वसन्तं नागमुद्धनि.

‘‘न कोचि देवो वण्णेन, सम्बुद्धस्स विरोचति;

सब्बे देवे अतिक्कम्म, सम्बुद्धोव विरोचती’’ति. (पे. व. ३१७-३१९);

एवं सब्बा देवता अत्तनो सरीरप्पभाय अभिभवित्वा निसिन्नस्स पनस्स माता तुसितविमानतो आगन्त्वा दक्खिणपस्से निसीदि. इन्दकोपि देवपुत्तो आगन्त्वा दक्खिणपस्सेयेव निसीदि, अङ्कुरो वामपस्से निसीदि. सो महेसक्खासु देवतासु सन्निपतन्तीसु अपगन्त्वा द्वादसयोजनिके ठाने ओकासं लभि, इन्दको तत्थेव निसीदि. सत्था ते उभोपि ओलोकेत्वा अत्तनो सासने दक्खिणेय्यपुग्गलानं दिन्नदानस्स महप्फलभावं ञापेतुकामो एवमाह – ‘‘अङ्कुर, तया दीघमन्तरे दसवस्ससहस्सपरिमाणकाले द्वादसयोजनिकं उद्धनपन्तिं कत्वा महादानं दिन्नं, इदानि मम समागमं आगन्त्वा द्वादसयोजनिके ठाने ओकासं लभि, किं नु खो एत्थ कारण’’न्ति? वुत्तम्पि चेतं –

‘‘ओलोकेत्वान सम्बुद्धो, अङ्कुरञ्चापि इन्दकं;

दक्खिणेय्यं सम्भावेन्तो, इदं वचनमब्रवि.

‘‘महादानं तया दिन्नं, अङ्कुर दीघमन्तरे;

अतिदूरे निसिन्नोसि, आगच्छ मम सन्तिके’’ति. (पे. व. ३२१-३२२);

सो सद्धो पथवीतलं पापुणि. सब्बापि नं सा परिसा अस्सोसि. एवं वुत्ते –

‘‘चोदितो भावितत्तेन, अङ्कुरो एतमब्रवि;

किं मय्हं तेन दानेन, दक्खिणेय्येन सुञ्ञतं.

‘‘अयं सो इन्दको यक्खो, दज्जा दानं परित्तकं;

अतिरोचति अम्हेहि, चन्दो तारागणे यथा’’ति. (पे. व. ३२३-३२४);

तत्थ दज्जाति दत्वा. एवं वुत्ते सत्था इन्दकं आह – ‘‘इन्दक, त्वं मम दक्खिणपस्से निसिन्नो, कस्मा अनपगन्त्वाव निसीदसी’’ति? सो ‘‘अहं, भन्ते, सुखेत्ते अप्पकबीजं वपनकस्सको विय दक्खिणेय्यसम्पदं अलत्थ’’न्ति दक्खिणेय्यं पभावेन्तो आह –

‘‘उज्जङ्गले यथा खेत्ते, बीजं बहुम्पि रोपितं;

न फलं विपुलं होति, नपि तोसेति कस्सकं.

‘‘तथेव दानं बहुकं, दुस्सीलेसु पतिट्ठितं;

न फलं विपुलं होति, नपि तोसेति दायकं.

‘‘यथापि भद्दके खेत्ते, बीजं अप्पम्पि रोपितं;

सम्मा धारं पवेच्छन्ते, फलं तोसेति कस्सकं.

‘‘तथेव सीलवन्तेसु, गुणवन्तेसु तादिसु;

अप्पकम्पि कतं कारं, पुञ्ञं होति महप्फल’’न्ति. (पे. व. ३२५-३२८);

किं पनेतस्स पुब्बकम्मन्ति? सो किर अनुरुद्धत्थेरस्स अन्तोगामं पिण्डाय पविट्ठस्स अत्तनो आभतं कटच्छुभिक्खं दापेसि. तदा तस्स पुञ्ञं अङ्कुरेन दसवस्ससहस्सानि द्वादसयोजनिकं उद्धनपन्तिं कत्वा दिन्नदानतो महप्फलतरं जातं. तस्मा एवमाह.

एवं वुत्ते सत्था, ‘‘अङ्कुर, दानं नाम विचेय्य दातुं वट्टति, एवं तं सुखेत्तेसु वुत्तबीजं विय महप्फलं होति. त्वं पन न तथा अकासि, तेन ते दानं महप्फलं न जात’’न्ति इममत्थं विभावेन्तो –

‘‘विचेय्य दानं दातब्बं, यत्थ दिन्नं महप्फलं…पे….

‘‘विचेय्य दानं सुगतप्पसत्थं,

ये दक्खिणेय्या इध जीवलोके;

एतेसु दिन्नानि महप्फलानि,

बीजानि वुत्तानि यथा सुखेत्ते’’ति. (पे. व. ३२९-३३०) –

वत्वा उत्तरिम्पि धम्मं देसेन्तो इमा गाथा अभासि –

‘‘तिणदोसानि खेत्तानि, रागदोसा अयं पजा;

तस्मा हि वीतरागेसु, दिन्नं होति महप्फलं.

‘‘तिणदोसानि खेत्तानि, दोसदोसा अयं पजा;

तस्मा हि वीतदोसेसु, दिन्नं होति महप्फलं.

‘‘तिणदोसानि खेत्तानि, मोहदोसा अयं पजा;

तस्मा हि वीतमोहेसु, दिन्नं होति महप्फलं.

‘‘तिणदोसानि खेत्तानि, इच्छादोसा अयं पजा;

तस्मा हि विगतिच्छेसु, दिन्नं होति महप्फल’’न्ति.

देसनावसाने अङ्कुरो च इन्दको च सोतापत्तिफले पतिट्ठहिंसु, महाजनस्सापि सात्थिका धम्मदेसना अहोसीति.

अथ सत्था देवपरिसाय मज्झे निसिन्नो मातरं आरब्भ ‘‘कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्मा’’ति अभिधम्मपिटकं पट्ठपेसि. एवं तयो मासे निरन्तरं अभिधम्मपिटकं कथेसि. कथेन्तो पन भिक्खाचारवेलाय ‘‘याव ममागमना एत्तकं नाम धम्मं देसेतू’’ति निम्मितबुद्धं मापेत्वा हिमवन्तं गन्त्वा नागलतादन्तकट्ठं खादित्वा अनोतत्तदहे मुखं धोवित्वा उत्तरकुरुतो पिण्डपातं आहरित्वा महासालमाळके निसिन्नो भत्तकिच्चं अकासि. सारिपुत्तत्थेरो तत्थ गन्त्वा सत्थु वत्तं करोति. सत्था भत्तकिच्चपरियोसाने, ‘‘सारिपुत्त, अज्ज मया एत्तको नाम धम्मो भासितो, त्वं अत्तनो अन्तेवासिकानं भिक्खूनं वाचेही’’ति थेरस्स कथेसि. यमकपाटिहीरे किर पसीदित्वा पञ्चसता कुलपुत्ता थेरस्स सन्तिके पब्बजिंसु. ते सन्धाय थेरं एवमाह. वत्वा च पन देवलोकं गन्त्वा निम्मितबुद्धेन देसितट्ठानतो पट्ठाय सयं धम्मं देसेसि. थेरोपि गन्त्वा तेसं भिक्खूनं धम्मं देसेसि. ते सत्थरि देवलोके विहरन्तेयेव सत्तपकरणिका अहेसुं.

ते किर कस्सपबुद्धकाले खुद्दकवग्गुलियो हुत्वा एकस्मिं पब्भारे ओलम्बन्ता द्विन्नं थेरानं चङ्कमित्वा अभिधम्मं सज्झायन्तानं सद्दं सुत्वा सरे निमित्तं अग्गहेसुं. ते ‘‘इमे खन्धा नाम, इमा धातुयो नामा’’ति अजानित्वा सरे निमित्तगहणमत्तेनेव ततो चुता देवलोके निब्बत्ता, एकं बुद्धन्तरं दिब्बसम्पत्तिं अनुभवित्वा ततो चवित्वा सावत्थियं कुलघरेसु निब्बत्ता. यमकपाटिहीरे उप्पन्नपसादा थेरस्स सन्तिके पब्बजित्वा सब्बपठमं सत्तपकरणिका अहेसुं. सत्थापि तेनेव नीहारेन तं तेमासं अभिधम्मं देसेसि. देसनावसाने असीतिकोटिसहस्सानं देवतानं धम्माभिसमयो अहोसि, महामायापि सोतापत्तिफले पतिट्ठहि.

सापि खो छत्तिंसयोजनपरिमण्डला परिसा ‘‘इदानि सत्तमे दिवसे महापवारणा भविस्सती’’ति महामोग्गल्लानत्थेरं उपसङ्कमित्वा आह – ‘‘भन्ते सत्थु, ओरोहणदिवसं सञ्ञातुं वट्टति, न हि मयं सत्थारं अदिस्वा गमिस्सामा’’ति. आयस्मा महामोग्गल्लानो तं कथं सुत्वा ‘‘साधावुसो’’ति वत्वा तत्थेव पथवियं निमुग्गो सिनेरुपादं गन्त्वा ‘‘मं अभिरुहन्तं परिसा पस्सतू’’ति अधिट्ठाय मणिरतनेन आवुतं पण्डुकम्बलसुत्तं विय पञ्ञायमानरूपोव सिनेरुमज्झेन अभिरुहि. मनुस्सापि नं ‘‘एकयोजनं अभिरुळ्हो, द्वियोजनं अभिरुळ्हो’’ति ओलोकयिंसु. थेरोपि सत्थु पादे सीसेन उक्खिपन्तो विय अभिरुहित्वा वन्दित्वा एवमाह – ‘‘भन्ते, परिसा तुम्हे दिस्वाव गन्तुकामा, कदा ओरोहिस्सथा’’ति. ‘‘कहं पन ते, मोग्गल्लान, जेट्ठभातिको सारिपुत्तो’’ति. ‘‘भन्ते, सङ्कस्सनगरे वस्सं उपगतो’’ति. मोग्गल्लान, अहं इतो सत्तमे दिवसे महापवारणाय सङ्कस्सनगरद्वारे ओतरिस्सामि, मं दट्ठुकामा तत्थ आगच्छन्तु, सावत्थितो सङ्कस्सनगरद्वारं तिंसयोजनानि, एत्तके मग्गे कस्सचि पाथेय्यकिच्चं नत्थि, उपोसथिका हुत्वा धुरविहारं धम्मस्सवनत्थाय गच्छन्ता विय आगच्छेय्याथाति तेसं आरोचेय्यासीति. थेरो ‘‘साधु, भन्ते’’ति गन्त्वा तथा आरोचेसि.

सत्था वुट्ठवस्सो पवारेत्वा सक्कस्स आरोचेसि – ‘‘महाराज, मनुस्सपथं गमिस्सामी’’ति. सक्को सुवण्णमयं मणिमयं रजतमयन्ति तीणि सोपानानि मापेसि. तेसं पादा सङ्कस्सनगरद्वारे पतिट्ठहिंसु, सीसानि सिनेरुमुद्धनि. तेसु दक्खिणपस्से सुवण्णमयं सोपानं देवतानं अहोसि, वामपस्से रजतमयं सोपानं महाब्रह्मानं अहोसि, मज्झे मणिमयं सोपानं तथागतस्स अहोसि. सत्थापि सिनेरुमुद्धनि ठत्वा देवोरोहणसमये यमकपाटिहारियं कत्वा उद्धं ओलोकेसि, याव ब्रह्मलोका एकङ्गणा अहेसुं. अधो ओलोकेसि, याव अवीचितो एकङ्गणं अहोसि. दिसाविदिसा ओलोकेसि, अनेकानि चक्कवाळसतसहस्सानि एकङ्गणानि अहेसुं. देवा मनुस्से पस्सिंसु, मनुस्सापि देवे पस्सिंसु, सब्बे सम्मुखाव पस्सिंसु.

भगवा छब्बण्णरंसियो विस्सज्जेसि. तं दिवसं बुद्धसिरिं ओलोकेत्वा छत्तिंसयोजन परिमण्डलाय परिसाय एकोपि बुद्धभावं अपत्थेन्तो नाम नत्थि. सुवण्णसोपानेन देवा ओतरिंसु, रजतसोपानेन महाब्रह्मानो ओतरिंसु, मणिसोपानेन सम्मासम्बुद्धो ओतरि. पञ्चसिखो गन्धब्बदेवपुत्तो बेलुवपण्डुवीणं आदाय दक्खिणपस्से ठत्वा सत्थु गन्धब्बमधुरदिब्बवीणाय सद्देन पूजं करोन्तो ओतरि, मातलि, सङ्गाहको वामपस्से ठत्वा दिब्बगन्धमालापुप्फं गहेत्वा नमस्समानो पूजं कत्वा ओतरि, महाब्रह्मा छत्तं धारेसि, सुयामो वालबीजनिं धारेसि. सत्था इमिना परिवारेन सद्धिं ओतरित्वा सङ्कस्सनगरद्वारे पतिट्ठहि. सारिपुत्तत्थेरोपि आगन्त्वा सत्थारं वन्दित्वा यस्मा सारिपुत्तत्थेरेन तथारूपाय बुद्धसिरिया ओतरन्तो सत्था इतो पुब्बे न दिट्ठपुब्बो, तस्मा –

‘‘न मे दिट्ठो इतो पुब्बे, न सुतो उद कस्सचि;

एवं वग्गुवदो सत्था, तुसिता गणिमागतो’’ति. (सु. नि. ९६१; महानि. १९०) –

आदीहि अत्तनो तुट्ठिं पकासेत्वा, ‘‘भन्ते, अज्ज सब्बेपि देवमनुस्सा तुम्हाकं पिहयन्ति, पत्थेन्ती’’ति आह. अथ नं सत्था, ‘‘सारिपुत्त, एवरूपेहि गुणेहि समन्नागता बुद्धा देवमनुस्सानं पिया होन्तियेवा’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –

१८१. ‘‘ये झानपसुता धीरा, नेक्खम्मूपसमे रता;

देवापि तेसं पिहयन्ति, सम्बुद्धानं सतीमत’’न्ति.

तत्थ ये झानपसुताति लक्खणूपनिज्झानं आरम्मणूपनिज्झानन्ति इमेसु द्वीसु झानेसु आवज्जनसमापज्जनअधिट्ठानवुट्ठानपच्चवेक्खणेहि युत्तप्पयुत्ता. नेक्खम्मूपसमे रताति एत्थ पब्बज्जा नेक्खम्मन्ति न गहेतब्बा, किलेसवूपसमनिब्बानरतिं पन सन्धायेतं वुत्तं. देवापीति देवापि मनुस्सापि तेसं पिहयन्ति पत्थेन्ति. सतीमतन्ति एवरूपगुणानं तेसं सतिया समन्नागतानं सम्बुद्धानं. ‘‘अहो वत मयं बुद्धा भवेय्यामा’’ति बुद्धभावं इच्छमाना पिहयन्तीति अत्थो.

देसनावसाने तिंसमत्तानं पाणकोटीनं धम्माभिसमयो अहोसि, थेरस्स सद्धिविहारिका पञ्चसतभिक्खू अरहत्ते पतिट्ठहिंसु.

सब्बबुद्धानं किर अविजहितमेव यमकपाटिहीरं कत्वा देवलोके वस्सं वसित्वा सङ्कस्सनगरद्वारे ओतरणं. तत्थ पन दक्खिणपादस्स पतिट्ठितट्ठानं अचलचेतियट्ठानं नाम होति. सत्था तत्थ ठत्वा पुथुज्जनादीनं विसये पञ्हं पुच्छि, पुथुज्जना अत्तनो विसये पञ्हे विस्सज्जेत्वा सोतापन्नविसये पञ्हं विस्सज्जेतुं नासक्खिंसु. तथा सकदागामिआदीनं विसये सोतापन्नादयो, महामोग्गल्लानविसये सेसमहासावका, सारिपुत्तत्थेरस्स विसये महामोग्गल्लानो, बुद्धविसये च सारिपुत्तोपि विस्सज्जेतुं नासक्खियेव. सो पाचीनदिसं आदिं कत्वा सब्बदिसा ओलोकेसि, सब्बत्थ एकङ्गणमेव अहोसि. अट्ठसु दिसासु देवमनुस्सा उद्धं याव ब्रह्मलोका हेट्ठा भूमट्ठा च यक्खनागसुपण्णा अञ्जलिं पग्गहेत्वा, ‘‘भन्ते, इध तस्स पञ्हस्स विस्सज्जेता नत्थि, एत्थेव उपधारेथा’’ति आहंसु. सत्था सारिपुत्तो किलमति. किञ्चापि हेस –

‘‘ये च सङ्खातधम्मासे, ये च सेखा पुथू इध;

तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा’’ति. (सु. नि. १०४४; चूळनि. अजितमाणवपुच्छानिद्देस ७) –

इमं बुद्धविसये पुट्ठपञ्हं सुत्वा ‘सत्था मं सेखासेखानं आगमनपटिपदं पुच्छती’ति पञ्हे निक्कङ्खो, खन्धादीसु पन कतरेन नु खो मुखेन इमं पटिपदं कथेन्तो ‘अहं सत्थु अज्झासयं गण्हितुं न सक्खिस्सामी’ति मम अज्झासये कङ्खति, सो मया नये अदिन्ने कथेतुं न सक्खिस्सति, नयमस्स दस्सामीति नयं दस्सेन्तो ‘‘भूतमिदं, सारिपुत्त, समनुपस्ससी’’ति आह. एवं किरस्स अहोसि ‘‘सारिपुत्तो मम अज्झासयं गहेत्वा कथेन्तो खन्धवसेन कथेस्सती’’ति. थेरस्स सह नयदानेन सो पञ्हो नयसतेन नयसहस्सेन नयसतसहस्सेन उपट्ठासि. सो सत्थारा दिन्ननये ठत्वा तं पञ्हं कथेसि. ठपेत्वा किर सम्मासम्बुद्धं अञ्ञो सारिपुत्तत्थेरस्स पञ्ञं पापुणितुं समत्थो नाम नत्थि. तेनेव किर थेरो सत्थु पुरतो ठत्वा सीहनादं नदि – ‘‘अहं, भन्ते, सकलकप्पम्पि देवे वुट्ठे ‘एत्तकानि बिन्दूनि महासमुद्दे पतितानि, एत्तकानि भूमियं, एत्तकानि पब्बते’ति गणेत्वा लेखं आरोपेतुं समत्थो’’ति. सत्थापि नं ‘‘जानामि, सारिपुत्त, गणेतुं समत्थभाव’’न्ति आह. तस्स आयस्मतो पञ्ञाय उपमा नाम नत्थि. तेनेवाह –

‘‘गङ्गाय वालुका खीये, उदकं खीये महण्णवे;

महिया मत्तिका खीये, न खीये मम बुद्धिया’’ति.

इदं वुत्तं होति – सचे हि, भन्ते, बुद्धिसम्पन्नलोकनाथ, मया एकस्मिं पञ्हे विस्सज्जिते एकं वा वालुकं एकं वा उदकबिन्दुं एकं वा पंसुखण्डं अखिपित्वा पञ्हानं सतेन वा सहस्सेनवा सतसहस्सेन वा विस्सज्जिते गङ्गाय वालुकादीसु एकेकं एकमन्ते खिपेय्य, खिप्पतरं गङ्गादीसु वालुकादयो परिक्खयं गच्छेय्युं, न त्वेव मम पञ्हानं विस्सज्जनन्ति. एवं महापञ्ञोपि हि भिक्खु बुद्धविसये पञ्हस्स अन्तं वा कोटिं वा अदिस्वा सत्थारा दिन्ननये ठत्वाव पञ्हं विस्सज्जेसि. तं सुत्वा भिक्खू कथं समुट्ठापेसुं – ‘‘यं पञ्हं पुट्ठो सब्बोपि जनो कथेतुं न सक्खि, तं धम्मसेनापति सारिपुत्तो एककोव कथेसी’’ति. सत्था तं कथं सुत्वा ‘‘न इदानेव सारिपुत्तो यं पञ्हं महाजनो विस्सज्जेतुं नासक्खि, तं विस्सज्जेसि, पुब्बेपि अनेन विस्सज्जितोयेवा’’ति वत्वा अतीतं आहरितुं –

‘‘परोसहस्सम्पि समागतानं,

कन्देय्युं ते वस्ससतं अपञ्ञा;

एकोव सेय्यो पुरिसो सपञ्ञो,

यो भासितस्स विजानाति अत्थ’’न्ति. (जा. १.१.९९) –

इमं जातकं वित्थारेन कथेसीति.

देवोरोहणवत्थु दुतियं.

३. एरकपत्तनागराजवत्थु

किच्छो मनुस्सपटिलाभोति इमं धम्मदेसनं सत्था बाराणसियं उपनिस्साय सत्तसिरीसकरुक्खमूले विहरन्तो एरकपत्तं नाम नागराजं आरब्भ कथेसि.

सो किर पुब्बे कस्सपबुद्धसासने दहरभिक्खु हुत्वा गङ्गाय नावं अभिरुय्ह गच्छन्तो एकस्मिं एरकगुम्बे एरकपत्तं गहेत्वा नावाय वेगसा गच्छमानायपि न मुञ्चि, एरकपत्तं छिज्जित्वा गतं. सो ‘‘अप्पमत्तकं एत’’न्ति आपत्तिं अदेसेत्वा वीसति वस्ससहस्सानि अरञ्ञे समणधम्मं कत्वापि मरणकाले एरकपत्तेन गीवाय गहितो विय आपत्तिं देसेतुकामोपि अञ्ञं भिक्खुं अपस्समानो ‘‘अपरिसुद्धं मे सील’’न्ति उप्पन्नविप्पटिसारो ततो चवित्वा एकरुक्खदोणिकनावप्पमाणो नागराजा हुत्वा निब्बत्ति, एरकपत्तोत्वेवस्स नामं अहोसि. सो निब्बत्तक्खणेयेव अत्तभावं ओलोकेत्वा ‘‘एत्तकं नाम कालं समणधम्मं कत्वा अहेतुकयोनियं मण्डूकभक्खट्ठाने निब्बत्तोम्ही’’ति विप्पटिसारी अहोसि. सो अपरभागे एकं धीतरं लभित्वा मज्झे गङ्गाय उदकपिट्ठे महन्तं फलं उक्खिपित्वा धीतरं तस्मिं ठपेत्वा नच्चापेत्वा गायापेसि. एवं किरस्स अहोसि – ‘‘अद्धा अहं इध इमिना उपायेन बुद्धे उप्पन्ने तस्स उप्पन्नभावं सुणिस्सामी’’ति. यो मे गीतस्स पटिगीतं आहरति, तस्स महन्तेन नागभवनेन सद्धिं धीतरं दस्सामीति अन्वड्ढमासं उपोसथदिवसे तं धीतरं फणे ठपेसि. सा तत्थ ठिता नच्चन्ती –

‘‘किंसु अधिप्पती राजा, किंसु राजा रज्जिस्सरो;

कथंसु विरजो होति, कथं बालोति वुच्चती’’ति. –

इमं गीतं गायति.

सकलजम्बुदीपवासिनो ‘‘नागमाणविकं गण्हिस्सामा’’ति गन्त्वा अत्तनो अत्तनो पञ्ञाबलेन पटिगीतं कत्वा गायन्ति. सा तं पटिक्खिपति. तस्सा अन्वड्ढमासं फणे ठत्वा एवं गायन्तियाव एकं बुद्धन्तरं वीतिवत्तं. अथ अम्हाकं सत्था लोके उप्पज्जित्वा एकदिवसं पच्चूसकाले लोकं वोलोकेन्तो एरकपत्तं आदिं कत्वा उत्तरमाणवं नाम अत्तनो ञाणजालस्स अन्तो पविट्ठं दिस्वा ‘‘किं नु खो भविस्सती’’ति आवज्जेन्तो ‘‘अज्ज एरकपत्तस्स धीतरं फणे ठपेत्वा नच्चापनदिवसो, अयं उत्तरमाणवो मया दिन्नं पटिगीतं गण्हन्तोव सोतापन्नो हुत्वा तं आदाय नागराजस्स सन्तिकं गमिस्सति. सो तं सुत्वा ‘बुद्धो उप्पन्नो’ति ञत्वा मम सन्तिकं आगमिस्सति, अहं तस्मिं आगते महासमागमे गाथं कथेस्सामि, गाथापरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो भविस्सती’’ति अद्दस. सो तत्थ गन्त्वा बाराणसितो अविदूरे सत्त सिरीसकरुक्खा अत्थि, तेसु एकस्स मूले निसीदि. जम्बुदीपवासिनो गीतपटिगीतं आदाय सन्निपतिंसु. सत्था अविदूरे ठाने गच्छन्तं उत्तरमाणवं दिस्वा ‘‘एहि, उत्तरा’’ति आह. ‘‘किं, भन्ते’’ति? ‘‘इतो ताव एही’’ति. अथ नं आगन्त्वा वन्दित्वा निसिन्नं आह ‘‘कहं गच्छसी’’ति? ‘‘एरकपत्तस्स धीतु गायनट्ठान’’न्ति. ‘‘जानासि पन गीतपटिगीत’’न्ति? ‘‘जानामि, भन्ते’’ति. ‘‘वदेहि ताव न’’न्ति? अथ नं अत्तनो जानननियामेनेव वदन्तं ‘‘न उत्तरं एतं पटिगीतं, अहं ते पटिगीतं दस्सामि, आदाय नं गमिस्ससी’’ति. ‘‘साधु, भन्ते’’ति. अथ नं सत्था, उत्तर, त्वं नागमाणविकाय गीतकाले –

‘‘छद्वाराधिप्पती राजा, रज्जमानो रज्जिस्सरो;

अरज्जं विरजो होति, रज्जं बालोति वुच्चती’’ति. –

इमं पटिगीतं गायेय्यासीति आह.

माणविकाय गीतस्स अत्थो – किंसु अधिप्पती राजाति किं अधिप्पति राजा नाम होति? किंसु राजा रज्जिस्सरोति कथं पन राजा रज्जिस्सरो नाम होति? कथंसु विरजो होतीति कथं नु खो सो राजा विरजो नाम होतीति?

पटिगीतस्स पन अत्थो – छद्वाराधिप्पती राजाति यो छन्नं द्वारानं अधिप्पति, एकद्वारेपि रूपादीहि अनभिभूतो, अयं राजा नाम. रज्जमानो रज्जिस्सरोति यो पन तेसु आरम्मणेसु रज्जति, सो रज्जमानो रज्जिस्सरो नाम. अरज्जन्ति अरज्जमानो पन विरजो नाम होति. रज्जन्ति रज्जमानो बालोति वुच्चतीति.

एवमस्स सत्था पटिगीतं दत्वा, उत्तर, तया इमस्मिं गीते गायिते इमस्स गीतस्स इमं पटिगीतं गायिस्सति –

‘‘केनस्सु वुय्हति बालो, कथं नुदति पण्डितो;

योगक्खेमी कथं होति, तं मे अक्खाहि पुच्छितो’’ति.

अथस्स त्वं इदं पटिगीतं गायेय्यासि –

‘‘ओघेन वुय्हति बालो, योगा नुदति पण्डितो;

सब्बयोगविसंयुत्तो, योगक्खेमीति वुच्चती’’ति.