११. सुखसामणेरवत्थु
उदकञ्हि नयन्तीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सुखसामणेरं आरब्भ कथेसि.
अतीतस्मिञ्हि बाराणसिसेट्ठिनो गन्धकुमारो नाम पुत्तो अहोसि. राजा तस्स पितरि कालकते तं पक्कोसापेत्वा समस्सासेत्वा महन्तेन सक्कारेन तस्सेव सेट्ठिट्ठानं अदासि. सो ततो पट्ठाय गन्धसेट्ठीति पञ्ञायि. अथस्स भण्डागारिको धनगब्भद्वारं विवरित्वा, ‘‘सामि, इदं ते एत्तकं पितु धनं, एत्तकं पितामहादीन’’न्ति नीहरित्वा दस्सेसि. सो तं धनरासिं ओलोकेत्वा आह – ‘‘किं पन ते इमं धनं गहेत्वा न गमिंसू’’ति. ‘‘सामि, धनं गहेत्वा गता नाम नत्थि. अत्तना कतं कुसलाकुसलमेव हि आदाय सत्ता गच्छन्ती’’ति. सो चिन्तेसि – ‘‘ते बालताय धनं सण्ठापेत्वा पहाय गता, अहं पनेतं गहेत्वाव गमिस्सामी’’ति. एवं पन चिन्तेन्तो ‘‘दानं वा दस्सामि, पूजं वा करिस्सामी’’ति अचिन्तेत्वा ‘‘इदं सब्बं खादित्वाव गमिस्सामी’’ति चिन्तेसि. सो सतसहस्सं विस्सज्जेत्वा फलिकमयं न्हानकोट्ठकं कारेसि, सतसहस्सं दत्वा फलिकमयमेव न्हानफलकं, सतसहस्सं दत्वा निसीदनपल्लङ्कं, सतसहस्सं दत्वा भोजनपातिं, सतसहस्समेव दत्वा भोजनट्ठाने मण्डपं कारापेसि, सतसहस्सं दत्वा भोजनपातिया आसित्तकूपधानं कारेसि, सतसहस्सेनेव गेहे सीहपञ्जरं सण्ठापेसि, अत्तनो पातरासत्थाय सहस्सं अदासि, सायमासत्थायपि सहस्समेव. पुण्णमदिवसे पन भोजनत्थाय सतसहस्सं दापेसि, तं भत्तं भुञ्जनदिवसे सतसहस्सं विस्सज्जेत्वा नगरं अलङ्करित्वा भेरिं चरापेसि – ‘‘गन्धसेट्ठिस्स किर भत्तभुञ्जनाकारं ओलोकेन्तू’’ति.
महाजनो मञ्चातिमञ्चे बन्धित्वा सन्निपति. सोपि सतसहस्सग्घनके न्हानकोट्ठके सतसहस्सग्घनके फलके निसीदित्वा सोळसहि गन्धोदकघटेहि न्हत्वा तं सीहपञ्जरं विवरित्वा तस्मिं पल्लङ्के निसीदि. अथस्स तस्मिं आसित्तकूपधाने तं पातिं ठपेत्वा सतसहस्सग्घनकं भोजनं वड्ढेसुं. सो नाटकपरिवुतो एवरूपाय सम्पत्तिया तं भोजनं भुञ्जति. अपरेन समयेन एको गामिकमनुस्सो अत्तनो परिब्बयाहरणत्थं दारुआदीनि यानके पक्खिपित्वा नगरं गन्त्वा सहायकस्स गेहे निवासं गण्हि. तदा पन पुण्णमदिवसो होति. ‘‘गन्धसेट्ठिनो भुञ्जनलीळं ओलोकेन्तू’’ति नगरे भेरिं चरापेसि. अथ नं सहायको आह – ‘‘सम्म, गन्धसेट्ठिनो ते भुञ्जनलीळं दिट्ठपुब्ब’’न्ति. ‘‘न दिट्ठपुब्बं, सम्मा’’ति. ‘‘तेन हि एहि, गच्छाम, अयं नगरे भेरी चरति, एतस्स महासम्पत्तिं पस्सामा’’ति नगरवासी जनपदवासिं गहेत्वा अगमासि. महाजनोपि मञ्चातिमञ्चे अभिरुहित्वा पस्सति. गामवासी भत्तगन्धं घायित्वाव नगरवासिं आह – ‘‘मय्हं एताय पातिया भत्तपिण्डे पिपासा जाता’’ति. सम्म, मा एतं पत्थयि, न सक्का लद्धुन्ति. सम्म, अलभन्तो न जीविस्सामीति. सो तं पटिबाहितुं असक्कोन्तो परिसपरियन्ते ठत्वा ‘‘पणमामि ते, सामी’’ति तिक्खत्तुं महासद्दं निच्छारेत्वा ‘‘को एसो’’ति वुत्ते अहं, सामीति. ‘‘किमेत’’न्ति. ‘‘अयं एको गामवासी तुम्हाकं पातियं भत्तपिण्डे पिपासं उपादेसि, एकं भत्तपिण्डं दापेथा’’ति. ‘‘न सक्का लद्धु’’न्ति. ‘‘किं, सम्म, सुतं ते’’ति? ‘‘सुतं मे, अपिच लभन्तो जीविस्सामि, अलभन्तस्स मे मरणं भविस्सती’’ति. सो पुनपि विरवि – ‘‘अयं किर, सामि, अलभन्तो मरिस्सति, जीवितमस्स देथा’’ति. अम्भो भत्तपिण्डो नाम सतम्पि अग्घति, सतद्वयम्पि अग्घति. यो यो याचति, तस्स तस्स ददमानो अहं किं भुञ्जिस्सामीति? सामि, अयं अलभन्तो मरिस्सति, जीवितमस्स देथाति. न सक्काव मुधा लद्धुं, यदि पन अलभन्तो न जीवति, तीणि संवच्छरानि मम गेहे भतिं करोतु, एवमस्स भत्तपातिं दापेस्सामीति. गामवासी तं सुत्वा ‘‘एवं होतु, सम्मा’’ति सहायकं वत्वा पुत्तदारं पहाय ‘‘भत्तपातिअत्थाय तीणि संवच्छरानि भतिं करिस्सामी’’ति सेट्ठिस्स गेहं पाविसि. सो भतिं करोन्तो सब्बकिच्चानि सक्कच्चं अकासि. गेहे वा अरञ्ञे वा रत्तिं वा दिवा वा सब्बानि कत्तब्बकम्मानि कतानेव पञ्ञायिंसु. ‘‘भत्तभतिको’’ति च वुत्ते सकलनगरेपि पञ्ञायि. अथस्स दिवसे परिपुण्णे भत्तवेय्यावटिको ‘‘भत्तभतिकस्स, सामि, दिवसो पुण्णो, दुक्करं तेन कतं तीणि संवच्छरानि भतिं करोन्तेन, एकम्पि कम्मं न कोपितपुब्ब’’न्ति आह.
अथस्स सेट्ठि अत्तनो सायपातरासत्थाय द्वे सहस्सानि, तस्स पातरासत्थाय सहस्सन्ति तीणि सहस्सानि दापेत्वा आह – ‘‘अज्ज मय्हं कत्तब्बं परिहारं तस्सेव करोथा’’ति. वत्वा च पन ठपेत्वा एकं चिन्तामणिं नाम पियभरियं अवसेसजनम्पि ‘‘अज्ज तमेव परिवारेथा’’ति वत्वा सब्बसम्पत्तिं तस्स निय्यादेसि. सो सेट्ठिनो न्हानोदकेन तस्सेव कोट्ठके तस्मिं फलके निसिन्नो न्हत्वा तस्सेव निवासनसाटके निवासेत्वा तस्सेव पल्लङ्के निसीदि. सेट्ठिपि नगरे भेरिं चरापेसि – ‘‘भत्तभतिको गन्धसेट्ठिस्स गेहे तीणि संवच्छरानि भतिं कत्वा पातिं लभि, तस्स भुञ्जनसम्पत्तिं ओलोकेन्तू’’ति. महाजनो मञ्चातिमञ्चे अभिरुहित्वा पस्सति, गामवासिस्स ओलोकितोलोकितट्ठानं कम्पनाकारप्पत्तं अहोसि. नाटका परिवारेत्वा अट्ठसुं, तस्स पुरतो भत्तपातिं वड्ढेत्वा ठपयिंसु. अथस्स हत्थधोवनवेलाय गन्धमादने एको पच्चेकबुद्धो सत्तमे दिवसे समापत्तितो वुट्ठाय ‘‘कत्थ नु खो अज्ज भिक्खाचारत्थाय गच्छामी’’ति उपधारेन्तो भत्तभतिकं अद्दस. अथ सो ‘‘अयं तीणि संवच्छरानि भतिं कत्वा भत्तपातिं लभि, अत्थि नु खो एतस्स सद्धा, नत्थी’’ति उपधारेन्तो ‘‘अत्थी’’ति ञत्वा ‘‘सद्धापि एकच्चे सङ्गहं कातुं न सक्कोन्ति, सक्खिस्सति नु खो मे सङ्गहं कातु’’न्ति चिन्तेत्वा ‘‘सक्खिस्सति चेव मम च सङ्गहकरणं निस्साय महासम्पत्तिं लभिस्सती’’ति ञत्वा चीवरं पारुपित्वा पत्तमादाय वेहासं अब्भुग्गन्त्वा परिसन्तरेन गन्त्वा तस्स पुरतो ठितमेव अत्तानं दस्सेसि.
सो पच्चेकबुद्धं दिस्वा चिन्तेसि – ‘‘अहं पुब्बे अदिन्नभावेन एकिस्सा भत्तपातिया अत्थाय तीणि संवच्छरानि परगेहे भतिं अकासिं, इदानि मे इदं भत्तं एकं रत्तिन्दिवं रक्खेय्य, सचे पन नं अय्यस्स दस्सामि, अनेकानिपि कप्पकोटिसहस्सानि रक्खिस्सति, अय्यस्सेव नं दस्सामी’’ति. सो तीणि संवच्छरानि भतिं कत्वा लद्धभत्तपातितो एकपिण्डम्पि मुखे अट्ठपेत्वा तण्हं विनोदेत्वा सयमेव पातिं उक्खिपित्वा पच्चेकबुद्धस्स सन्तिकं गन्त्वा पातिं अञ्ञस्स हत्थे दत्वा पञ्चपतिट्ठितेन वन्दित्वा पातिं वामहत्थेन गहेत्वा दक्खिणहत्थेन तस्स पत्ते भत्तं आकिरि. पच्चेकबुद्धो भत्तस्स उपड्ढसेसकाले पत्तं हत्थेन पिदहि. अथ नं सो आह – ‘‘भन्ते, एकोव पटिविसो न सक्का द्विधा कातुं, मा मं इधलोकेन सङ्गण्हथ, परलोकेन सङ्गहमेव करोथ, सावसेसं अकत्वा निरवसेसमेव दस्सामी’’ति. अत्तनो हि थोकम्पि अनवसेसेत्वा दिन्नं निरवसेसदानं नाम, तं महप्फलं होति. सो तथा करोन्तो सब्बं दत्वा पुन वन्दित्वा आह – ‘‘भन्ते, एकं भत्तपातिं निस्साय तीणि संवच्छरानि मे परगेहे भतिं करोन्तेन दुक्खं अनुभूतं, इदानि मे निब्बत्तनिब्बत्तट्ठाने सुखमेव होतु, तुम्हेहि दिट्ठधम्मस्सेव भागी अस्स’’न्ति. पच्चेकबुद्धो ‘‘एवं होतु, चिन्तामणि विय ते सब्बकामददो मनोसङ्कप्पा पुण्णचन्दो विय पूरेन्तू’’ति अनुमोदनं करोन्तो –
‘‘इच्छितं पत्थितं तुय्हं, सब्बमेव समिज्झतु;
सब्बे पूरेन्तु सङ्कप्पा, चन्दो पन्नरसो यथा.
‘‘इच्छितं पत्थिकं तुय्हं, खिप्पमेव समिज्झतु;
सब्बे पूरेन्तु सङ्कप्पा, मणि जोतिरसो यथा’’ति. –
वत्वा ‘‘अयं महाजनो याव गन्धमादनपब्बतगमना मं पस्सन्तो तिट्ठतू’’ति अधिट्ठाय आकासेन गन्धमादनं अगमासि.
महाजनोपि नं पस्सन्तोव अट्ठासि. सो तत्थ गन्त्वा तं पिण्डपातं पञ्चसतानं पच्चेकबुद्धानं विभजित्वा अदासि. सब्बे अत्तनो पहोनकं गण्हिंसु. ‘‘अप्पो पिण्डपातो कथं पहोसी’’ति न चिन्तेतब्बं. चत्तारि हि अचिन्तेय्यानि (अ. नि. ४.७७) वुत्तानि, तत्रायं पच्चेकबुद्धविसयोति. महाजनो पच्चेकबुद्धानं पिण्डपातं विभजित्वा दिय्यमानं दिस्वा साधुकारसहस्सानि पवत्तेसि, असनिसतनिपाकसद्दो विय अहोसि. तं सुत्वा गन्धसेट्ठि चिन्तेसि – ‘‘भत्तभतिको मया दिन्नसम्पत्तिं धारेतुं नासक्खि मञ्ञे, तेनायं महाजनो परिहासं करोन्तो सन्निपतितो नदती’’ति. सो तप्पवत्तिजाननत्थं मनुस्से पेसेसि. ते आगन्त्वा ‘‘सम्पत्तिधारका नाम, सामि, एवं होन्तू’’ति वत्वा तं पवत्तिं आरोचेसुं. सेट्ठि तं सुत्वाव पञ्चवण्णाय पीतिया फुट्ठसरीरो हुत्वा ‘‘अहो दुक्करं तेन कतं, अहं एत्तकं कालं एवरूपाय सम्पत्तिया ठितो किञ्चि दातुं नासक्खि’’न्ति तं पक्कोसापेत्वा ‘‘सच्चं किर तया इदं नाम कत’’न्ति पुच्छित्वा ‘‘आम, सामी’’ति वुत्ते, ‘‘हन्द, सहस्सं गहेत्वा तव दाने मय्हम्पि पत्तिं देही’’ति आह. सो तथा अकासि. सेट्ठिपिस्स सब्बं अत्तनो सन्तकं मज्झे भिन्दित्वा अदासि.
चतस्सो हि सम्पदा नाम – वत्थुसम्पदा, पच्चयसम्पदा, चेतनासम्पदा, गुणातिरेकसम्पदाति. तत्थ निरोधसमापत्तिरहो अरहा वा अनागामी वा दक्खिणेय्यो वत्थुसम्पदा नाम. पच्चयानं धम्मेन समेन उप्पत्ति पच्चयसम्पदा नाम. दानतो पुब्बे दानकाले पच्छा भागेति तीसु कालेसु चेतनाय सोमनस्ससहगतञाणसम्पयुत्तभावो चेतनासम्पदा नाम. दक्खिणेय्यस्स समापत्तितो वुट्ठितभावो गुणातिरेकसम्पदा नामाति. इमस्स च खीणासवो पच्चेकबुद्धो दक्खिणेय्या, भतिं कत्वा लद्धभावेन पच्चयो धम्मतो उप्पन्नो, तीसु कालेसु परिसुद्धा चेतना, समापत्तितो वुट्ठितमत्तो पच्चेकबुद्धो गुणातिरेकोति चतस्सोपि सम्पदा निप्फन्ना. एतासं आनुभावेन दिट्ठेव धम्मे महासम्पत्तिं पापुणन्ति. तस्मा सो सेट्ठिनो सन्तिका सम्पत्तिं लभि. अपरभागे च राजापि इमिना कतकम्मं सुत्वा तं पक्कोसापेत्वा सहस्सं दत्वा पत्तिं गहेत्वा तुट्ठमानसो महन्तं भोगक्खन्धं दत्वा सेट्ठिट्ठानं अदासि. भत्तभतिकसेट्ठीतिस्स नामं अकासि. सो गन्धसेट्ठिना सद्धिं सहायो हुत्वा एकतो खादन्तो पिवन्तो यावतायुकं ठत्वा ततो चुतो देवलोके निब्बत्तित्वा एकं बुद्धन्तरं दिब्बसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं सारिपुत्तत्थेरस्सूपट्ठाककुले पटिसन्धिं गण्हि. अथस्स माता लद्धगब्भपरिहारा कतिपाहच्चयेन ‘‘अहो वताहं पञ्चसतेहि भिक्खूहि सद्धिं सारिपुत्तत्थेरस्स सतरसभोजनं दत्वा कासायवत्थनिवत्था सुवण्णसरकं आदाय आसनपरियन्ते निसिन्ना तेसं भिक्खूनं उच्छिट्ठावसेसकं परिभुञ्जेय्य’’न्ति दोहळिनी हुत्वा तथेव कत्वा दोहळं पटिविनोदेसि. सा सेसमङ्गलेसुपि तथारूपमेव दानं दत्वा पुत्तं विजायित्वा नामग्गहणदिवसे ‘‘पुत्तस्स मे, भन्ते, सिक्खापदानि देथा’’ति थेरं आह. थेरो ‘‘किमस्स नाम’’न्ति पुच्छि. ‘‘भन्ते, पुत्तस्स मे पटिसन्धिग्गहणतो पट्ठाय इमस्मिं गेहे कस्सचि दुक्खं नाम न भूतपुब्बं, तेनेवस्स सुखकुमारोति नामं भविस्सती’’ति वुत्ते तदेवस्स नामं गहेत्वा सिक्खापदानि अदासि.
तदा एवञ्चस्स मातु ‘‘नाहं मम पुत्तस्स अज्झासयं भिन्दिस्सामी’’ति चित्तं उप्पज्जि. सा तस्स कण्णविज्झनमङ्गलादीसुपि तथेव दानं अदासि. कुमारोपि सत्तवस्सिककाले ‘‘इच्छामहं, अम्म, थेरस्स सन्तिके पब्बजितु’’न्ति आह. सा ‘‘साधु, तात, नाहं तव अज्झासयं भिन्दिस्सामी’’ति थेरं निमन्तेत्वा भोजेत्वा, ‘‘भन्ते, पुत्तो मे पब्बजितुं इच्छति, इमाहं सायन्हसमये विहारं आनेस्सामी’’ति थेरं उय्योजेत्वा ञातके सन्निपातेत्वा ‘‘पुत्तस्स मे गिहिकाले कत्तब्बं किच्चं अज्जेव करिस्सामा’’ति वत्वा पुत्तं अलङ्करित्वा महन्तेन सिरिसोभग्गेन विहारं नेत्वा थेरस्स निय्यादेसि. थेरोपि तं, ‘‘तात, पब्बज्जा नाम दुक्करा, सक्खिस्ससि अभिरमितु’’न्ति वत्वा ‘‘करिस्सामि वो, भन्ते, ओवाद’’न्ति वुत्ते कम्मट्ठानं दत्वा पब्बाजेसि. मातापितरोपिस्स पब्बज्जाय सक्कारं करोन्ता अन्तोविहारेयेव सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स सतरसभोजनं दत्वा सायं अत्तनो गेहं अगमंसु. अट्ठमे दिवसे सारिपुत्तत्थेरो भिक्खुसङ्घे गामं पविट्ठे विहारे कत्तब्बकिच्चं कत्वा सामणेरं पत्तचीवरं गाहापेत्वा गामं पिण्डाय पाविसि. सामणेरो अन्तरामग्गे मातिकादीनि दिस्वा पण्डितसामणेरो विय पुच्छि. थेरोपि तस्स तथेव ब्याकासि. सामणेरो तानि कारणानि सुत्वा ‘‘सचे तुम्हे अत्तनो पत्तचीवरं गण्हेय्याथ, अहं निवत्तेय्य’’न्ति वत्वा थेरेन तस्स अज्झासयं अभिन्दित्वा, ‘‘सामणेर, देहि मम पत्तचीवर’’न्ति पत्तचीवरे गहिते थेरं वन्दित्वा निवत्तमानो, ‘‘भन्ते, मय्हं आहारं आहरमानो सतरसभोजनं आहरेय्याथा’’ति आह. कुतो तं लभिस्सामीति? अत्तनो पुञ्ञेन अलभन्तो मम पुञ्ञेन लभिस्सथ, भन्तेति. अथस्स थेरो कुञ्चिकं दत्वा गामं पिण्डाय पाविसि. सोपि विहारं आगन्त्वा थेरस्स गब्भं विवरित्वा पविसित्वा द्वारं पिधाय अत्तनो काये ञाणं ओतारेत्वा निसीदि.
तस्स गुणतेजेन सक्कस्स आसनं उण्हाकारं दस्सेसि. सक्को ‘‘किं नु खो एत’’न्ति ओलोकेन्तो सामणेरं दिस्वा ‘‘सुखसामणेरो अत्तनो उपज्झायस्स पत्तचीवरं दत्वा ‘समणधम्मं करिस्सामी’ति निवत्तो, मया तत्थ गन्तुं वट्टती’’ति चिन्तेत्वा चत्तारो महाराजे पक्कोसापेत्वा ‘‘गच्छथ, ताता, विहारस्सूपवने दुस्सद्दके सकुणे पलापेथा’’ति उय्योजेसि. ते तथा कत्वा सामन्ता आरक्खं गण्हिंसु. चन्दिमसूरिये ‘‘अत्तनो विमानानि गहेत्वा तिट्ठथा’’ति आणापेसि. तेपि तथा करिंसु. सयम्पि आविञ्छनट्ठाने आरक्खं गण्हि. विहारो सन्निसिन्नो निरवो अहोसि. सामणेरो एकग्गचित्तेन विपस्सनं वड्ढेत्वा तीणि मग्गफलानि पापुणि. थेरो ‘‘सामणेरेन ‘सतरसभोजनं आहरेय्याथा’ति वुत्तं, कस्स नु खो घरे सक्का लद्धु’’न्ति ओलोकेन्तो एकं अज्झासयसम्पन्नं उपट्ठाकतुलं दिस्वा तत्थ गन्त्वा, ‘‘भन्ते, साधु वो कतं अज्ज इधागच्छन्तेही’’ति तेहि तुट्ठमानसेहि पत्तं गहेत्वा निसीदापेत्वा यागुखज्जकं दत्वा याव भत्तकालं धम्मकथं याचितो तेसं सारणीयधम्मकथं कथेत्वा कालं सल्लक्खेत्वा देसनं निट्ठापेसि. अथस्स सतरसभोजनं दत्वा तं आदाय गन्तुकामं थेरं दिस्वा ‘‘भुञ्जथ, भन्ते, अपरम्पि ते दस्सामा’’ति थेरं भोजेत्वा पुन पत्तपूरं अदंसु. थेरो तं आदाय ‘‘सामणेरो मे छातो’’ति तुरिततुरितो विहारं पायासि. तं दिवसं सत्था पातोव निक्खमित्वा गन्धकुटियं निसिन्नोव आवज्जेसि – ‘‘अज्ज सुखसामणेरो उपज्झायस्स पत्तचीवरं दत्वा ‘समणधम्मं करिस्सामी’ति निवत्तो, निप्फन्नं नु खो तस्स किच्च’’न्ति. सो तिण्णंयेव मग्गफलानं पत्तभावं दिस्वा उत्तरिपि उपधारेन्तो ‘‘सक्खिस्सतायं अज्ज अरहत्तं पापुणितुं, सारिपुत्तो पन ‘सामणेरो मे छातो’ति वेगेन भत्तं आदाय निक्खमति, सचे इमस्मिं अरहत्तं अप्पत्ते भत्तं आहरिस्सति, इमस्स अन्तरायो भविस्सति, मया गन्त्वा द्वारकोट्ठके आरक्खं गण्हितुं वट्टती’’ति चिन्तेत्वा गन्धकुटितो निक्खमित्वा द्वारकोट्ठके ठत्वा आरक्खं गण्हि.
थेरोपि भत्तं आहरि. अथ नं हेट्ठा वुत्तनयेनेव चत्तारो पञ्हे पुच्छि. पञ्हविस्सज्जनावसाने सामणेरो अरहत्तं पापुणि. सत्था थेरं आमन्तेत्वा ‘‘गच्छ, सारिपुत्त, सामणेरस्स ते भत्तं देही’’ति आह. थेरो गन्त्वा द्वारं आकोटेसि. सामणेरोपि निक्खमित्वा उपज्झायस्स वत्तं कत्वा ‘‘भत्तकिच्चं करोही’’ति वुत्ते थेरस्स भत्तेन अनत्थिकभावं ञत्वा सत्तवस्सिककुमारो तङ्खणञ्ञेव अरहत्तं पत्तो नीचासनट्ठानं पच्चवेक्खन्तो भत्तकिच्चं कत्वा पत्तं धोवि. तस्मिं काले चत्तारो महाराजानो आरक्खं विस्सज्जेसुं. चन्दिमसूरियापि विमानानि मुञ्चिंसु. सक्कोपि आविञ्छनट्ठाने आरक्खं विस्सज्जेसि. सूरियो नभमज्झं अतिक्कन्तोयेव पञ्ञायि. भिक्खू ‘‘सायन्हो पञ्ञायति, सामणेरेन च इदानेव भत्तकिच्चं कतं, किं नु खो अज्ज पुब्बण्हो बलवा जातो, सायन्हो मन्दो’’ति वदिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘भन्ते, अज्ज पुब्बण्हो बलवा जातो, सायन्हो मन्दो, सामणेरेन च इदानेव भत्तकिच्चं कतं, अथ च पन सूरियो नभमज्झं अतिक्कन्तोयेव पञ्ञायती’’ति वुत्ते, ‘‘भिक्खवे, एवमेवं होति पुञ्ञवन्तानं समणधम्मकरणकाले. अज्ज हि चत्तारो महाराजानो सामन्ता आरक्खं गण्हिंसु, चन्दिमसूरिया विमानानि गहेत्वा अट्ठंसु, सक्को आविञ्छनके आरक्खं गण्हि, अहम्पि द्वारकोट्ठके आरक्खं गण्हिं, अज्ज सुखसामणेरो मातिकाय उदकं हरन्ते, उसुकारे उसुं उजुं करोन्ते, तच्छके चक्कादीनि करोन्ते दिस्वा अत्तानं दमेत्वा अरहत्तं पत्तो’’ति वत्वा इमं गाथमाह –
१४५. ‘‘उदकञ्हि नयन्ति नेत्तिका, उसुकारा नमयन्ति तेजनं;
दारुं नमयन्ति तच्छका, अत्तानं दमयन्ति सुब्बता’’ति.
तत्थ सुब्बताति सुवदा, सुखेन ओवदितब्बा अनुसासितब्बाति अत्थो. सेसं हेट्ठा वुत्तनयमेव.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
सुखसामणेरवत्थु एकादसमं.
दण्डवग्गवण्णना निट्ठिता.
दसमो वग्गो.