११. सप्पदासत्थेरवत्थु
यो च वस्ससतं जीवेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सप्पदासत्थेरं आरब्भ कथेसि.
सावत्थियं किरेको कुलपुत्तो सत्थु धम्मदेसनं सुत्वा पब्बजित्वा लद्धूपसम्पदो अपरेन समयेन उक्कण्ठित्वा ‘‘मादिसस्स कुलपुत्तस्स गिहिभावो नाम अयुत्तो, पब्बज्जाय ठत्वा मरणम्हि मे सेय्यो’’ति चिन्तेत्वा अत्तनो मरणूपायं चिन्तेन्तो विचरति. अथेकदिवसं पातोव कतभत्तकिच्चा भिक्खू विहारं गन्त्वा अग्गिसालाय सप्पं दिस्वा तं एकस्मिं कुटे पक्खिपित्वा कुटं पिदहित्वा आदाय विहारा निक्खमिंसु. उक्कण्ठितभिक्खुपि भत्तकिच्चं कत्वा आगच्छन्तो ते भिक्खू दिस्वा ‘‘किं इदं, आवुसो’’ति पुच्छित्वा ‘‘सप्पो, आवुसो’’ति वुत्ते इमिना ‘‘किं करिस्सथा’’ति? ‘‘छड्डेस्साम न’’न्ति. तेसं वचनं सुत्वा ‘‘इमिना अत्तानं डंसापेत्वा मरिस्सामी’’ति ‘‘आहरथ, अहं तं छड्डेस्सामी’’ति तेसं हत्थतो कुटं गहेत्वा एकस्मिं ठाने निसिन्नो तेन सप्पेन अत्तानं डंसापेति, सप्पो डंसितुं न इच्छति. सो कुटे हत्थं ओतारेत्वा इतो चितो च आलोलेति, घोरसप्पस्स मुखं विवरित्वा अङ्गुलिं पक्खिपति, नेव नं सप्पो डंसि. सो ‘‘नायं आसीविसो, घरसप्पो एसो’’ति तं पहाय विहारं अगमासि. अथ नं भिक्खू ‘‘छड्डितो ते, आवुसो, सप्पो’’ति आहंसु. ‘‘न सो, आवुसो, घोरसप्पो, घरसप्पो एसो’’ति. ‘‘घोरसप्पोयेवावुसो, महन्तं फणं कत्वा सुसुयन्तो दुक्खेन अम्हेहि गहितो, किं कारणा एवं त्वं वदेसी’’ति आहंसु. ‘‘अहं, आवुसो, तेन अत्तानं डंसापेन्तोपि मुखे अङ्गुलिं पक्खिपेन्तोपि तं डंसापेतुं नासक्खि’’न्ति. तं सुत्वा भिक्खू तुण्ही अहेसुं.
अथेकदिवसं न्हापितो द्वे तयो खुरे आदाय विहारं गन्त्वा एकं भूमियं ठपेत्वा एकेन भिक्खूनं केसे ओहारेति. सो भूमियं ठपितं खुरं गहेत्वा ‘‘इमिना गीवं छिन्दित्वा मरिस्सामी’’ति एकस्मिं रुक्खे गीवं उपनिधाय खुरधारं गलनाळियं कत्वा ठितो उपसम्पदामाळतो पट्ठाय अत्तनो सीलं आवज्जेन्तो विमलचन्दमण्डलं विय सुधोतमणिखन्धमिव च निम्मलं सीलं अद्दस. तस्स तं ओलोकेन्तस्स सकलसरीरं फरन्ती पीति उप्पज्जि. सो पीतिं विक्खम्भेत्वा विपस्सनं वड्ढेन्तो सह पटिसम्भिदाहि अरहत्तं पत्वा खुरं आदाय विहारमज्झं पाविसि. अथ नं भिक्खू ‘‘कहं गतोसि, आवुसो’’ति पुच्छिंसु. ‘‘‘इमिना खुरेन गलनाळिं छिन्दित्वा मरिस्सामी’ति गतोम्हि, आवुसो’’ति. अथ ‘‘कस्मा न मतोसी’’ति? इदानिम्हि सत्थं आहरितुं अभब्बो जातो. अहञ्हि ‘‘इमिना खुरेन गलनाळिं छिन्दिस्सामी’’ति ञाणखुरेन सब्बकिलेसे छिन्दिन्ति. भिक्खू ‘‘अयं अभूतेन अञ्ञं ब्याकरोती’’ति भगवतो आरोचेसुं. भगवा तेसं कथं सुत्वा आह – ‘‘न, भिक्खवे, खीणासवा नाम सहत्था अत्तानं जीविता वोरोपेन्ती’’ति. भन्ते, तुम्हे इमं ‘‘खीणासवो’’ति वदथ, एवं अरहत्तूपनिस्सयसम्पन्नो पनायं कस्मा उक्कण्ठति, किमस्स अरहत्तूपनिस्सयकारणं ‘‘कस्मा सो सप्पो एतं न डंसती’’ति? ‘‘भिक्खवे, सो ताव सप्पो इमस्स इतो ततिये अत्तभावे दासो अहोसि, सो अत्तनो सामिकस्स सरीरं डंसितुं न विसहती’’ति. एवं ताव नेसं सत्था एकं कारणं आचिक्खि. ततो पट्ठाय च सो भिक्खु सप्पदासो नाम जातो.
कस्सपसम्मासम्बुद्धकाले किरेको कुलपुत्तो सत्थु धम्मकथं सुत्वा उप्पन्नसंवेगो पब्बजित्वा लद्धूपसम्पदो अपरेन समयेन अनभिरतिया उप्पन्नाय एकस्स सहायकस्स भिक्खुनो आरोचेसि. सो तस्स अभिण्हं गिहिभावे आदीनवं कथेसि. तं सुत्वा इतरो सासने अभिरमित्वा पुब्बे अनभिरतकाले मलग्गहिते समणपरिक्खारे एकस्मिं सोण्डितीरे निम्मले करोन्तो निसीदि. सहायकोपिस्स सन्तिकेयेव निसिन्नो. अथ नं सो एवमाह – ‘‘अहं, आवुसो, उप्पब्बजन्तो इमे परिक्खारे तुय्हं दातुकामो अहोसि’’न्ति. सो लोभं उप्पादेत्वा चिन्तेसि – ‘‘इमिना मय्हं पब्बजितेन वा उप्पब्बजितेन वा को अत्थो, इदानि परिक्खारे गण्हिस्सामी’’ति. सो ततो पट्ठाय ‘‘किं दानावुसो, अम्हाकं जीवितेन, ये मयं कपालहत्था परकुलेसु भिक्खाय चराम, पुत्तदारेहि सद्धिं आलापसल्लापं न करोमा’’तिआदीनि वदन्तो गिहिभावस्स गुणं कथेसि. सो तस्स कथं सुत्वा पुन उक्कण्ठितो हुत्वा चिन्तेसि – ‘‘अयं मया ‘उक्कण्ठितोम्ही’ति वुत्ते पठमं गिहिभावे आदीनवं कथेत्वा इदानि अभिण्हं गुणं कथेति, ‘किं नु खो कारण’’’न्ति चिन्तेन्तो ‘‘इमेसु समणपरिक्खारेसु लोभेना’’ति ञत्वा सयमेव अत्तनो चित्तं निवत्तेसि. एवमस्स कस्सपसम्मासम्बुद्धकाले एकस्स भिक्खुनो उक्कण्ठापितत्ता इदानि अनभिरति उप्पन्ना. यो पन तेनेव तदा वीसति वस्ससहस्सानि समणधम्मो कतो, स्वस्स एतरहि अरहत्तूपनिस्सयो जातोति.
इममत्थं ते भिक्खू भगवतो सन्तिका सुत्वा उत्तरिं पुच्छिंसु – ‘‘भन्ते, अयं किर भिक्खु खुरधारं गलनाळियं कत्वा ठितोव अरहत्तं पापुणाति, उप्पज्जिस्सति नु खो एत्तकेन खणेन अरहत्तमग्गो’’ति. ‘‘आम, भिक्खवे, आरद्धवीरियस्स भिक्खुनो पादं उक्खिपित्वा भूमियं ठपेन्तस्स पादे भूमियं असम्पत्तेयेव अरहत्तमग्गो उप्पज्जति. कुसीतस्स पुग्गलस्स हि वस्ससतं जीवनतो आरद्धवीरियस्स खणमत्तम्पि जीवितं सेय्यो’’ति वत्वा अनुसन्धिं घटेत्वा इमं गाथमाह –
११२. ‘‘यो च वस्ससतं जीवे, कुसीतो हीनवीरियो;
एकाहं जीविकं सेय्यो, वीरियमारभतो दळ्ह’’न्ति.
तत्थ कुसीतोति कामवितक्कादीहि तीहि वितक्केहि वीतिनामेन्तो पुग्गलो. हीनवीरियोति निब्बीरियो. वीरियमारभतो दळ्हन्ति दुविधज्झाननिब्बत्तनसमत्थं थिरं वीरियं आरभन्तस्स. सेसं पुरिमसदिसमेव.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
सप्पदासत्थेरवत्थु एकादसमं.