७. काणमातुवत्थु
यथापि रहदोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो काणमातरं आरब्भ कथेसि. वत्थु विनये (पाचि. २३०) आगतमेव.
तदा पन काणमातरा अतुच्छहत्थं धीतरं पतिकुलं पेसेतुं पक्केसु पूवेसु चतुक्खत्तुं चतुन्नं भिक्खूनं दिन्नकाले सत्थारा तस्मिं वत्थुस्मिं सिक्खापदे पञ्ञत्ते काणाय सामिकेन अञ्ञाय पजापतिया आनीताय काणा तं पवत्तिं सुत्वा ‘‘इमेहि मे घरावासो नासितो’’ति दिट्ठदिट्ठे भिक्खू अक्कोसति परिभासति. भिक्खू तं वीथिं पटिपज्जितुं न विसहिंसु. सत्था तं पवत्तिं ञत्वा तत्थ अगमासि. काणमाता सत्थारं वन्दित्वा पञ्ञत्तासने निसीदापेत्वा यागुखज्जकं अदासि. सत्था कतपातरासो ‘‘कहं काणा’’ति पुच्छि. ‘‘एसा, भन्ते, तुम्हे दिस्वा मङ्कुभूता रोदन्ती ठिता’’ति. ‘‘किं कारणा’’ति? ‘‘एसा, भन्ते, भिक्खू अक्कोसति परिभासति, तस्मा तुम्हे दिस्वा मङ्कुभूता रोदमाना ठिता’’ति. अथ नं सत्था पक्कोसापेत्वा – ‘‘काणे, कस्मा मं दिस्वा मङ्कुभूता निलीयित्वा रोदसी’’ति. अथस्सा माता ताय कतकिरियं आरोचेसि. अथ नं सत्था आह – ‘‘किं पन काणमाते मम सावका तया दिन्नकं गण्हिंसु, अदिन्नक’’न्ति? ‘‘दिन्नकं, भन्ते’’ति. ‘‘सचे मम सावका पिण्डाय चरन्ता तव गेहद्वारं पत्ता तया दिन्नकं गण्हिंसु, को तेसं दोसो’’ति? ‘‘नत्थि, भन्ते, अय्यानं दोसो’’. ‘‘एतिस्सायेव दोसो’’ति. सत्था काणं आह – ‘‘काणे, मय्हं किर सावका पिण्डाय चरमाना गेहद्वारं आगता, अथ नेसं तव मातरा पूवा दिन्ना, को नामेत्थ मम सावकानं दोसो’’ति? ‘‘नत्थि, भन्ते, अय्यानं दोसो, मय्हमेव दोसो’’ति सत्थारं वन्दित्वा खमापेसि.
अथस्सा सत्था अनुपुब्बिं कथं कथेसि, सा सोतापत्तिफलं पापुणि. सत्था उट्ठायासना विहारं गच्छन्तो राजङ्गणेन पायासि. राजा दिस्वा ‘‘सत्था विय भणे’’ति पुच्छित्वा ‘‘आम, देवा’’ति वुत्ते ‘‘गच्छथ, मम आगन्त्वा वन्दनभावं आरोचेथा’’ति पेसेत्वा राजङ्गणे ठितं सत्थारं उपसङ्कमित्वा वन्दित्वा ‘‘कहं, भन्ते, गतात्था’’ति पुच्छि. ‘‘काणमाताय गेहं, महाराजा’’ति. ‘‘किं कारणा, भन्ते’’ति? ‘‘काणा किर भिक्खू अक्कोसति परिभासति, तंकारणा गतोम्ही’’ति. ‘‘किं पन वो, भन्ते, तस्सा अनक्कोसनभावो कतो’’ति? ‘‘आम, महाराज, भिक्खूनञ्च अनक्कोसिका कता, लोकुत्तरकुटुम्बसामिनी चा’’ति. ‘‘होतु, भन्ते, तुम्हेहि सा लोकुत्तरकुटुम्बसामिनी कता, अहं पन नं लोकियकुटुम्बसामिनिं करिस्सामी’’ति वत्वा राजा सत्थारं वन्दित्वा पटिनिवत्तो पटिच्छन्नमहायोग्गं पहिणित्वा काणं पक्कोसापेत्वा सब्बाभरणेहि अलङ्करित्वा जेट्ठधीतुट्ठाने ठपेत्वा ‘‘मम धीतरं पोसेतुं समत्था गण्हन्तू’’ति आह. अथेको सब्बत्थकमहामत्तो ‘‘अहं देवस्स धीतरं पोसेस्सामी’’ति तं अत्तनो गेहं नेत्वा सब्बं इस्सरियं पटिच्छापेत्वा ‘‘यथारुचि पुञ्ञानि करोही’’ति आह. ततो पट्ठाय काणा चतूसु द्वारेसु पुरिसे ठपेत्वा अत्तना उपट्ठातब्बे भिक्खू च भिक्खुनियो च परियेसमानापि न लभति. काणाय गेहद्वारे पटियादेत्वा ठपितं खादनीयभोजनीयं महोघो विय पवत्तति. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘पुब्बे, आवुसो, चत्तारो महल्लकत्थेरा काणाय विप्पटिसारं करिंसु, सा एवं विप्पटिसारिनी हुत्वापि सत्थारं आगम्म सद्धासम्पदं लभि. सत्थारा पुन तस्सा गेहद्वारं भिक्खूनं उपसङ्कमनारहं कतं. इदानि उपट्ठातब्बे भिक्खू वा भिक्खुनियो वा परियेसमानापि न लभति, अहो बुद्धा नाम अच्छरियगुणा’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव तेहि महल्लकभिक्खूहि काणाय विप्पटिसारो कतो, पुब्बेपि करिंसुयेव. न च इदानेव मया काणा मम वचनकारिका कता, पुब्बेपि कतायेवा’’ति वत्वा तमत्थं सोतुकामेहि भिक्खूहि याचितो –
‘‘यत्थेको लभते बब्बु, दुतियो तत्थ जायति;
ततियो च चतुत्थो च, इदं ते बब्बुका बिल’’न्ति. (जा. १.१.१३७) –
इदं बब्बुजातकं वित्थारेन कथेत्वा ‘‘तदा चत्तारो महल्लकभिक्खू चत्तारो बिळारा अहेसुं, मूसिका काणा, मणिकारो अहमेवा’’ति जातकं समोधानेत्वा ‘‘एवं, भिक्खवे, अतीतेपि काणा दुम्मना आविलचित्ता विक्खित्तचित्ता हुत्वा मम वचनेन पसन्नउदकरहदो विय विप्पसन्नचित्ता अहोसी’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
८२. ‘‘यथापि रहदो गम्भीरो, विप्पसन्नो अनाविलो;
एवं धम्मानि सुत्वान, विप्पसीदन्ति पण्डिता’’ति.
तत्थ रहदोति यो चतुरङ्गिनियापि सेनाय ओगाहन्तिया नखुभति एवरूपो उदकण्णवो, सब्बाकारेन पन चतुरासीतियोजनसहस्सगम्भीरो नीलमहासमुद्दो रहदो नाम. तस्स हि हेट्ठा चत्तालीसयोजनसहस्समत्ते ठाने उदकं मच्छेहि चलति, उपरि तावत्तकेयेव ठाने उदकं वातेन चलति, मज्झे चतुयोजनसहस्समत्ते ठाने उदकं निच्चलं तिट्ठति. अयं गम्भीरो रहदो नाम. एवं धम्मानीति देसनाधम्मानि. इदं वुत्तं होति – यथा नाम रहदो अनाकुलताय विप्पसन्नो, अचलताय अनाविलो, एवं मम देसनाधम्मं सुत्वा सोतापत्तिमग्गादिवसेन निरुपक्किलेसचित्ततं आपज्जन्ता विप्पसीदन्ति पण्डिता, अरहत्तप्पत्ता पन एकन्तविप्पसन्नाव होन्तीति.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
काणमातुवत्थु सत्तमं.