१०. धम्मस्सवनवत्थु
अप्पका ते मनुस्सेसूति इमं धम्मदेसनं सत्था जेतवने विहरन्तो धम्मस्सवनं आरब्भ कथेसि.
सावत्थियं किर एकवीथिवासिनो मनुस्सा समग्गा हुत्वा गणबन्धेन दानं दत्वा सब्बरत्तिं धम्मस्सवनं कारेसुं, सब्बरत्तिं पन धम्मं सोतुं नासक्खिंसु. एकच्चे कामरतिनिस्सिता हुत्वा, पुन गेहमेव गता, एकच्चे दोसनिस्सिता हुत्वा, एकच्चे माननिस्सिता हुत्वा, एकच्चे थिनमिद्धसमङ्गिनो हुत्वा तत्थेव निसीदित्वा पचलायन्ता सोतुं नासक्खिंसु. पुनदिवसे भिक्खू तं पवत्तिं ञत्वा धम्मसभायं कथं समुट्ठापेसुं. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, इमा सत्ता नाम येभुय्येन भवनिस्सिता, भवेसु एव लग्गा विहरन्ति, पारगामिनो नाम अप्पका’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमा गाथा आह –
८५. ‘‘अप्पका ते मनुस्सेसु, ये जना पारगामिनो;
अथायं इतरा पजा, तीरमेवानुधावति.
८६. ‘‘ये च खो सम्मदक्खाते, धम्मे धम्मानुवत्तिनो;
ते जना पारमेस्सन्ति, मच्चुधेय्यं सुदुत्तर’’न्ति.
तत्थ अप्पकाति थोका न बहू. पारगामिनोति निब्बानपारगामिनो. अथायं इतरा पजाति या पनायं अवसेसा पजा सक्कायदिट्ठितीरमेव अनुधावति, अयमेव बहुतराति अत्थो. सम्मदक्खातेति सम्मा अक्खाते सुकथिते. धम्मेति देसनाधम्मे. धम्मानुवत्तिनोति तं धम्मं सुत्वा तदनुच्छविकं पटिपदं पूरेत्वा मग्गफलसच्छिकरणेन धम्मानुवत्तिनो. पारमेस्सन्तीति ते एवरूपा जना निब्बानपारं गमिस्सन्ति. मच्चुधेय्यन्ति किलेसमारसङ्खातस्स मच्चुस्स निवासट्ठानभूतं तेभूमिकवट्टं. सुदुत्तरन्ति ये जना धम्मानुवत्तिनो, ते एतं सुदुत्तरं दुरतिक्कमं मारधेय्यं तरित्वा अतिक्कमित्वा निब्बानपारं गमिस्सन्तीति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
धम्मस्सवनवत्थु दसमं.