२. महाकस्सपत्थेरसद्धिविहारिकवत्थु
चरञ्चे नाधिगच्छेय्याति इमं धम्मदेसनं सत्था सावत्थियं जेतवने विहरन्तो महाकस्सपत्थेरस्स सद्धिविहारिकं आरब्भ कथेसि. देसना राजगहे समुट्ठिता.
थेरं किर राजगहं निस्साय पिप्पलिगुहायं वसन्तं द्वे सद्धिविहारिका उपट्ठहिंसु. तेसु एको सक्कच्चं वत्तं करोति, एको तेन कतं कतं अत्तना कतं विय दस्सेन्तो मुखोदकदन्तकट्ठानं पटियादितभावं ञत्वा, ‘‘भन्ते, मुखोदकदन्तकट्ठानि मे पटियादितानि, मुखं धोवथा’’ति वदति, पादधोवनन्हानादिकालेपि एवमेव वदति. इतरो चिन्तेसि – ‘‘अयं निच्चकालं मया कतं कतं अत्तना कतं विय कत्वा दस्सेति, होतु, कत्तब्बयुत्तकमस्स करिस्सामी’’ति. तस्स भुञ्जित्वा सुपन्तस्सेव न्हानोदकं तापेत्वा एकस्मिं घटे कत्वा पिट्ठिकोट्ठके ठपेसि, उदकतापनभाजने पन नाळिमत्तं उदकं सेसेत्वा उसुमं मुञ्चन्तं ठपेसि. तं इतरो सायन्हसमये पबुज्झित्वा उसुमं निक्खन्तं दिस्वा ‘‘उदकं तापेत्वा कोट्ठके ठपितं भविस्सती’’ति वेगेन गन्त्वा थेरं वन्दित्वा, ‘‘भन्ते, कोट्ठके उदकं ठपितं, न्हायथा’’ति वत्वा थेरेन सद्धिंयेव कोट्ठकं पाविसि. थेरो उदकं अपस्सन्तो ‘‘कहं उदकं, आवुसो’’ति आह. दहरो अग्गिसालं गन्त्वा भाजने उळुङ्कं ओतारेत्वा तुच्छभावं ञत्वा ‘‘पस्सथ दुट्ठस्स कम्मं तुच्छभाजनं उद्धने आरोपेत्वा कुहिं गतो, अहं ‘कोट्ठके उदक’न्ति सञ्ञाय आरोचेसि’’न्ति उज्झायन्तो घटं आदाय तित्थं अगमासि. इतरोपि पिट्ठिकोट्ठकतो उदकं आहरित्वा कोट्ठके ठपेसि.
थेरो चिन्तेसि – ‘‘अयं दहरो ‘उदकं मे तापेत्वा कोट्ठके ठपितं, एथ, भन्ते, न्हायथा’ति वत्वा इदानि उज्झायन्तो घटं आदाय तित्थं गच्छति, किं नु खो एत’’न्ति उपधारेन्तो ‘‘एत्तकं कालं एस दहरो इमिना कतं वत्तं अत्तनाव कतं विय पकासेती’’ति ञत्वा सायं आगन्त्वा निसिन्नस्स ओवादमदासि, ‘‘आवुसो, भिक्खुना नाम ‘अत्तना कतमेव कत’न्ति वत्तुं वट्टति, नो अकतं, त्वं इदानेव ‘कोट्ठके उदकं ठपितं, न्हायथ, भन्ते’ति वत्वा मयि पविसित्वा ठिते घटं आदाय उज्झायन्तो गच्छसि, पब्बजितस्स नाम एवं कातुं न वट्टती’’ति. सो ‘‘पस्सथ थेरस्स कम्मं, उदकमत्तकं नाम निस्साय मं एवं वदेसी’’ति कुज्झित्वा पुनदिवसे थेरेन सद्धिं पिण्डाय न पाविसि. थेरो इतरेन सद्धिं एकं पदेसं अगमासि. सो तस्मिं गते थेरस्स उपट्ठाककुलं गन्त्वा ‘‘थेरो कहं, भन्ते’’ति पुट्ठो ‘‘थेरस्स अफासुकं जातं, विहारेयेव निसिन्नो’’ति आह. ‘‘किं पन, भन्ते, लद्धुं वट्टती’’ति? ‘‘एवरूपं किर नाम आहारं देथा’’ति वुत्ते तेन वुत्तनियामेनेव सम्पादेत्वा अदंसु. सो अन्तरामग्गेव तं भत्तं भुञ्जित्वा विहारं गतो. थेरोपि गतट्ठाने महन्तं सुखुमवत्थं लभित्वा अत्तना सद्धिं गतदहरस्स अदासि. सो तं रजित्वा अत्तनो निवासनपारुपनं अकासि.
थेरो पुनदिवसे तं उपट्ठाककुलं गन्त्वा, ‘‘भन्ते, ‘तुम्हाकं किर अफासुकं जात’न्ति अम्हेहि दहरेन वुत्तनियामेनेव पटियादेत्वा आहारो पेसितो, परिभुञ्जित्वा वो फासुकं जात’’न्ति वुत्ते तुण्ही अहोसि. विहारं पन गन्त्वा तं दहरं वन्दित्वा निसिन्नं एवमाह – ‘‘आवुसो, तया किर हिय्यो, इदं नाम कतं, इदं पब्बजितानं न अनुच्छविकं, विञ्ञत्तिं कत्वा भुञ्जितुं न वट्टती’’ति. सो कुज्झित्वा थेरे आघातं बन्धित्वा ‘‘पुरिमदिवसे उदकमत्तं निस्साय मं मुसावादिं कत्वा अज्ज अत्तनो उपट्ठाककुले भत्तमुट्ठिया भुत्तकारणा मं ‘विञ्ञत्तिं कत्वा भुञ्जितुं न वट्टती’ति वदति, वत्थम्पि तेन अत्तनो उपट्ठाकस्सेव दिन्नं, अहो थेरस्स भारियं कम्मं, जानिस्सामिस्स कत्तब्बयुत्तक’’न्ति पुनदिवसे थेरे गामं पविसन्ते सयं विहारे ओहीयित्वा दण्डं गहेत्वा परिभोगभाजनानि भिन्दित्वा थेरस्स पण्णसालाय अग्गिं दत्वा यं न झायति, तं मुग्गरेन पहरन्तो भिन्दित्वा निक्खमित्वा पलातो. सो कालं कत्वा अवीचिमहानिरये निब्बत्ति.
महाजनो कथं समुट्ठापेसि – ‘‘थेरस्स किर सद्धिविहारिको ओवादमत्तं असहन्तो कुज्झित्वा पण्णसालं झापेत्वा पलातो’’ति. अथेको भिक्खु अपरभागे राजगहा निक्खमित्वा सत्थारं दट्ठुकामो जेतवनं गन्त्वा सत्थारं वन्दित्वा सत्थारा पटिसन्थारं कत्वा ‘‘कुतो आगतोसी’’ति पुट्ठो ‘‘राजगहतो, भन्ते’’ति आह. ‘‘मम पुत्तस्स महाकस्सपस्स खमनीय’’न्ति? ‘‘खमनीयं, भन्ते, एको पन सद्धिविहारिको ओवादमत्तेन कुज्झित्वा पण्णसालं झापेत्वा पलातो’’ति. सत्था ‘‘न सो इदानेव ओवादं सुत्वा कुज्झति, पुब्बेपि कुज्झियेव. न इदानेव कुटिं दूसेति, पुब्बेपि दूसेसियेवा’’ति वत्वा अतीतं आहरि –
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते हिमवन्तपदेसे एको सिङ्गिलसकुणो कुलावकं कत्वा वसि. अथेकदिवसं देवे वस्सन्ते एको मक्कटो सीतेन कम्पमानो तं पदेसं अगमासि. सिङ्गिलो तं दिस्वा गाथमाह –
‘‘मनुस्सस्सेव ते सीसं, हत्थपादा च वानर;
अथ केन नु वण्णेन, अगारं ते न विज्जती’’ति. (जा. १.४.८१);
मक्कटो ‘‘किञ्चापि मे हत्थपादा अत्थि, याय पन पञ्ञाय विचारेत्वा अगारं करेय्यं, सा मे पञ्ञा नत्थी’’ति चिन्तेत्वा तमत्थं विञ्ञापेतुकामो इमं गाथमाह –
‘‘मनुस्सस्सेव मे सीसं, हत्थपादा च सिङ्गिल;
याहु सेट्ठा मनुस्सेसु, सा मे पञ्ञा न विज्जती’’ति. (जा. १.४.८२);
अथ नं ‘‘एवरूपस्स तव कथं घरावासो इज्झिस्सती’’ति गरहन्तो सिङ्गिलो इमं गाथाद्वयमाह –
‘‘अनवट्ठितचित्तस्स, लहुचित्तस्स दुब्भिनो;
निच्चं अद्धुवसीलस्स, सुखभावो न विज्जति.
‘‘सो करस्सु आनुभावं, वीतिवत्तस्सु सीलियं;
सीतवातपरित्ताणं, करस्सु कुटवं कपी’’ति. (जा. १.४.८३-८४);
मक्कटो ‘‘अयं मं अनवट्ठितचित्तं लहुचित्तं मित्तदुब्भिं अद्धुवसीलं करोति, इदानिस्स मित्तदुब्भिभावं दस्सेस्सामी’’ति कुलावकं विद्धंसेत्वा विप्पकिरि. सकुणो तस्मिं कुलावकं गण्हन्ते एव एकेन पस्सेन निक्खमित्वा पलायि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा मक्कटो कुटिदूसकभिक्खु अहोसि, सिङ्गिलसकुणो कस्सपो अहोसी’’ति. जातकं समोधानेत्वा ‘‘एवं, भिक्खवे, न इदानेव, पुब्बेपि सो ओवादक्खणे कुज्झित्वा कुटिं दूसेसि, मम पुत्तस्स कस्सपस्स एवरूपेन बालेन सद्धिं वसनतो एककस्सेव निवासो सेय्यो’’ति वत्वा इमं गाथमाह –
६१. ‘‘चरञ्चे नाधिगच्छेय्य, सेय्यं सदिसमत्तनो;
एकचरियं दळ्हं कयिरा, नत्थि बाले सहायता’’ति.
तत्थ चरन्ति इरियापथचारं अग्गहेत्वा मनसाचारो वेदितब्बो, कल्याणमित्तं परियेसन्तोति अत्थो. सेय्यं सदिसमत्तनोति अत्तनो सीलसमाधिपञ्ञागुणेहि अधिकतरं वा सदिसं वा न लभेय्य चे. एकचरियन्ति एतेसु हि सेय्यं लभमानो सीलादीहि वड्ढति, सदिसं लभमानो न परिहायति, हीनेन पन सद्धिं एकतो वसन्तो एकतो संभोगपरिभोगं करोन्तो सीलादीहि परिहायति. तेन वुत्तं – ‘‘एवरूपो पुग्गलो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो अञ्ञत्र अनुद्दया अञ्ञत्र अनुकम्पा’’ति (पु. प. १२१; अ. नि. ३.२६). तस्मा सचे कारुञ्ञं पटिच्च ‘‘अयं मं निस्साय सीलादीहि वड्ढिस्सती’’ति तम्हा पुग्गला किञ्चि अपच्चासीसन्तो तं सङ्गण्हितुं सक्कोति, इच्चेतं कुसलं. नो चे सक्कोति, एकचरियं दळ्हं कयिरा एकीभावमेव थिरं कत्वा सब्बइरियापथेसु एककोव विहरेय्य. किं कारणा? नत्थि बाले सहायताति सहायता नाम चूळसीलं मज्झिमसीलं महासीलं दस कथावत्थूनि तेरस धुतङ्गगुणा विपस्सनागुणा चत्तारो मग्गा चत्तारि फलानि तिस्सो विज्जा छ अभिञ्ञा. अयं सहायतागुणो बालं निस्साय नत्थीति.
देसनावसाने आगन्तुको भिक्खु सोतापत्तिफलं पत्तो, अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसु, देसना महाजनस्स सात्थिका अहोसीति.
महाकस्सपत्थेरसद्धिविहारिकवत्थु दुतियं.