१२. गरहदिन्नवत्थु
यथा सङ्कारट्ठानस्मिन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो गरहदिन्नं नाम निगण्ठसावकं आरब्भ कथेसि.
सावत्थियञ्हि सिरिगुत्तो च गरहदिन्नो चाति द्वे सहायका अहेसुं. तेसु सिरिगुत्तो उपासको बुद्धसावको, गरहदिन्नो निगण्ठसावको. तं निगण्ठा अभिक्खणं एवं वदन्ति – ‘‘तव सहायकं सिरिगुत्तं ‘किं त्वं समणं गोतमं उपसङ्कमसि, तस्स सन्तिके किं लभिस्ससी’ति वत्वा यथा अम्हे उपसङ्कमित्वा अम्हाकञ्च देय्यधम्मं दस्सति, किं एवं ओवदितुं न वट्टती’’ति. गरहदिन्नो तेसं वचनं सुत्वा अभिक्खणं गन्त्वा ठितनिसिन्नट्ठानादीसु सिरिगुत्तं एवं ओवदति – ‘‘सम्म, किं ते समणेन गोतमेन, तं उपसङ्कमित्वा किं लभिस्ससि, किं ते मम, अय्ये, उपसङ्कमित्वा तेसं दानं दातुं न वट्टती’’ति? सिरिगुत्तो तस्स कथं सुत्वापि बहू दिवसे तुण्ही हुत्वा निब्बिज्जित्वा एकदिवसं, ‘‘सम्म, त्वं अभिक्खणं आगन्त्वा मं ठितट्ठानादीसु एवं वदेसि, ‘समणं गोतमं उपसङ्कमित्वा किं लभिस्ससि, मम, अय्ये, उपसङ्कमित्वा तेसं दानं देही’ति, कथेहि ताव मे, तव, अय्या, किं जानन्ती’’ति? ‘‘‘अहो, सामि, मा एवं वद, मम अय्यानं अञ्ञातं नाम नत्थि, सब्बं अतीतानागतपच्चुप्पन्नं सब्बं कायवचीमनोकम्मं इदं भविस्सति, इदं न भविस्सती’ति सब्बं भब्बाभब्बं जानन्ती’’ति? ‘‘एवं वदेसी’’ति. ‘‘आम, वदेमी’’ति. ‘‘यदि एवं, अतिभारियं ते कतं, एत्तकं कालं मय्हं एतमत्थं अनाचिक्खन्तेन, अज्ज मया अय्यानं ञाणानुभावो ञातो, गच्छ, सम्म, अय्ये, मम वचनेन निमन्तेही’’ति. सो निगण्ठानं सन्तिकं गन्त्वा ते वन्दित्वा ‘‘मय्हं सहायको सिरिगुत्तो स्वातनाय तुम्हे निमन्तेती’’ति आह. ‘‘सिरिगुत्तेन सामं त्वं वुत्तो’’ति? ‘‘आम, अय्या’’ति. ते हट्ठतुट्ठा हुत्वा ‘‘निप्फन्नं नो किच्चं, सिरिगुत्तस्स अम्हेसु पसन्नकालतो पट्ठाय का नाम सम्पत्ति अम्हाकं न भविस्सती’’ति वदिंसु.
सिरिगुत्तस्सापि महन्तं निवेसनं. सो तस्मिं द्विन्नं गेहानं अन्तरे उभतो दीघं आवाटं खणापेत्वा गूथकललस्स पूरापेसि. बहिआवाटे द्वीसु परियन्तेसु खाणुके कोट्टापेत्वा तेसु रज्जुयो बन्धापेत्वा आसनानं पुरिमपादे आवाटस्स पुरिमपस्से ठपापेत्वा पच्छिमपादे रज्जुकेसु ठपापेसि. ‘‘एवं निसिन्नकाले एवं अवंसिरा पतिस्सन्ती’’ति मञ्ञमानो यथा आवाटो न पञ्ञायति, एवं आसनानं उपरि पच्चत्थरणानि दापेसि. महन्ता महन्ता चाटियो ठपापेत्वा कदलिपण्णेहि च सेतपिलोतिकाहि च मुखानि बन्धापेत्वा ता तुच्छा एव गेहस्स पच्छिमभागे बहि यागुभत्तसित्थसप्पितेलमधुफाणितपूवचुण्णमक्खिता कत्वा ठपापेसि. गरहदिन्नो पातोव तस्स घरं वेगेन गन्त्वा, ‘‘अय्यानं सक्कारो सज्जितो’’ति पुच्छि. ‘‘आम, सम्म, सज्जितो’’ति. ‘‘कहं पन एसो’’ति. ‘‘एतासु एत्तिकासु चाटीसु यागु, एत्तिकासु भत्तं, एत्तिकासु सप्पिफाणितपूवादीनि पूरितानि, आसनानि पञ्ञत्तानी’’ति. सो ‘‘साधू’’ति वत्वा गतो तस्स गतकाले पञ्चसता निगण्ठा आगमिंसु. सिरिगुत्तो गेहा निक्खमित्वा पञ्चपतिट्ठितेन निगण्ठे वन्दित्वा तेसं पुरतो अञ्जलिं पग्गय्ह ठितो एवं चिन्तेसि – ‘‘तुम्हे किर अतीतादिभेदं सब्बं जानाथ, एवं तुम्हाकं उपट्ठाकेन मय्हं कथितं. सचे सब्बं तुम्हे जानाथ, मय्हं गेहं मा पविसित्थ. मम गेहं पविट्ठानञ्हि वो नेव यागु अत्थि, न भत्तादीनि. सचे अजानित्वा पविसिस्सथ, गूथआवाटे वो पातेत्वा पोथेस्सामी’’ति एवं चिन्तेत्वा पुरिसानं सञ्ञं अदासि. एवं तेसं निसीदनभावं ञत्वा पच्छिमपस्से ठत्वा आसनानं उपरि पच्चत्थरणानि अपनेय्याथ, मा तानि असुचिना मक्खयिंसूति.
अथ निगण्ठे ‘‘इतो एथ, भन्ते’’ति आह. निगण्ठा पविसित्वा पञ्ञत्तासनेसु निसीदितुं आरभिंसु. अथ ने मनुस्सा वदिंसु – ‘‘आगमेथ, भन्ते, मा ताव निसीदथा’’ति. ‘‘किं कारणा’’ति? ‘‘अम्हाकं गेहं पविट्ठानं अय्यानं वत्तं ञत्वा निसीदितुं वट्टती’’ति. ‘‘किं कातुं वट्टति, आवुसो’’ति? ‘‘अत्तनो अत्तनो पत्तासनमूलेसु ठत्वा सब्बेपि एकप्पहारेनेव निसीदितुं वट्टती’’ति. इदं किरस्स अधिप्पायो – ‘‘एकस्मिं आवाटे पतिते ‘मा, आवुसो, अवसेसा आसने निसीदन्तू’ति वत्तुं मा लभतू’’ति. ते ‘‘साधू’’ति वत्वा ‘‘इमेहि कथितकथं अम्हेहि कातुं वट्टती’’ति चिन्तयिंसु. अथ सब्बे अत्तनो अत्तनो पत्तासनमूले पटिपाटिया अट्ठंसु. अथ ने, ‘‘भन्ते, खिप्पं एकप्पहारेनेव निसीदथा’’ति वत्वा तेसं निसिन्नभावं ञत्वा आसनानं उपरि पच्चत्थरणानि नीहरिंसु. निगण्ठा एकप्पहारेनेव निसिन्ना, रज्जूनं उपरि ठपिता आसनपादा भट्ठा, निगण्ठा अवंसिरा आवाटे पतिंसु. सिरिगुत्तो तेसु पतितेसु द्वारं पिदहित्वा ते उत्तिण्णुत्तिण्णे ‘‘अतीतानागतपच्चुप्पन्नं कस्मा न जानाथा’’ति दण्डेहि पाथेत्वा ‘‘एत्तकं एतेसं वट्टिस्सती’’ति द्वारं विवरापेसि. ते निक्खमित्वा पलायितुं आरभिंसु. गमनमग्गे पन तेसं सुधापरिकम्मकतं भूमिं पिच्छिलं कारापेसि. ते तत्थ असण्ठहित्वा पतिते पतिते पुन पोथापेत्वा ‘‘अलं एत्तकं तुम्हाक’’न्ति उय्योजेसि. ते ‘‘नासितम्हा तया, नासितम्हा तया’’ति कन्दन्ता उपट्ठाकस्स गेहद्वारं अगमंसु.
गरहदिन्नो तं विप्पकारं दिस्वा कुद्धो ‘‘नासितम्हि सिरिगुत्तेन, हत्थं पसारेत्वा वन्दन्तानं सदेवके लोके यथारुचिया दातुं समत्थे नाम पुञ्ञक्खेत्तभूते मम, अय्ये, पोथापेत्वा ब्यसनं पापेसी’’ति राजकुलं गन्त्वा तस्स कहापणसहस्सं दण्डं कारेसि. अथस्स राजा सासनं पेसेसि. सो गन्त्वा राजानं वन्दित्वा, ‘‘देव, उपपरिक्खित्वा दण्डं गण्हथ, मा अनुपपरिक्खित्वा’’ति आह. ‘‘उपपरिक्खित्वा गण्हिस्सामी’’ति. ‘‘साधु, देवा’’ति. ‘‘तेन हि गण्हाही’’ति. देव, मय्हं सहायको निगण्ठसावको मं उपसङ्कमित्वा ठितनिसिन्नट्ठानादीसु अभिण्हं एवं वदेसि – ‘‘सम्म, किं ते समणेन गोतमेन, तं उपसङ्कमित्वा किं लभिस्ससी’’ति इदं आदिं कत्वा सिरिगुत्तो सब्बं तं पवत्तिं आरोचेत्वा ‘‘देव, सचे इमस्मिं कारणे दण्डं गहेतुं युत्तं, गण्हथा’’ति. राजा गरहदिन्नं ओलोकेत्वा ‘‘सच्चं किर ते एवं वुत्त’’न्ति आह. ‘‘सच्चं, देवा’’ति. त्वं एत्तकम्पि अजानन्ते सत्थारोति गहेत्वा विचरन्तो ‘‘सब्बं जानन्ती’’ति किं कारणा तथागतसावकस्स कथेसि. ‘‘तया आरोपितदण्डो तुय्हमेव होतू’’ति एवं स्वेव दण्डं पापितो, तस्सेव कुलूपका पोथेत्वा नीहटा.
सो तं कुज्झित्वा ततो पट्ठाय अड्ढमासमत्तम्पि सिरिगुत्तेन सद्धिं अकथेत्वा चिन्तेसि – ‘‘एवं विचरितुं मय्हं अयुत्तं, एतस्स कुलूपकानम्पि मया ब्यसनं कातुं वट्टती’’ति सिरिगुत्तं उपसङ्कमित्वा आह – ‘‘सहाय सिरिगुत्ता’’ति. ‘‘किं, सम्मा’’ति? ‘‘ञातिसुहज्जानं नाम कलहोपि होति विवादोपि, किं त्वं किञ्चि न कथेसि, कस्मा एवं करोसी’’ति? ‘‘सम्म, तव मया सद्धिं अकथनतो न कथेमी’’ति. ‘‘यं, सम्म, कतं, कतमेव तं न मयं मेत्तिं भिन्दिस्सामा’’ति. ततो पट्ठाय उभोपि एकट्ठाने तिट्ठन्ति निसीदन्ति. अथेकदिवसं सिरिगुत्तो गरहदिन्नं आह – ‘‘किं ते निगण्ठेहि, ते उपसङ्कमित्वा किं लभिस्ससि, मम सत्थारं उपसङ्कमितुं वा अय्यानं दानं दातुं वा किं ते न वट्टती’’ति? सोपि एतमेव पच्चासीसति, तेनस्स कण्डुवनट्ठाने नखेन विलेखितं विय अहोसि. सो, ‘‘सिरिगुत्त, तव सत्था किं जानाती’’ति पुच्छि. ‘‘अम्भो, मा एवं वद, सत्थु मे अजानितब्बं नाम नत्थि, अतीतादिभेदं सब्बं जानाति, सोळसहाकारेहि सत्तानं चित्तं परिच्छिन्दती’’ति. ‘‘अहं एवं न जानामि, कस्मा मय्हं एत्तकं कालं न कथेसि, तेन हि त्वं गच्छ, तव सत्थारं स्वातनाय निमन्तेहि, भोजेस्सामि, पञ्चहि भिक्खुसतेहि सद्धिं मम भिक्खं गण्हितुं वदेही’’ति.
सिरिगुत्तो सत्थारं उपसङ्कमित्वा वन्दित्वा एवमाह – ‘‘भन्ते, मम सहायको गरहदिन्नो तुम्हे निमन्तापेति, पञ्चहि किर भिक्खुसतेहि सद्धिं स्वे तस्स भिक्खं गण्हथ, पुरिमदिवसे खो पन तस्स कुलूपकानं मया इदं नाम कतं, मया कतस्स पटिकरणम्पि न जानामि, तुम्हाकं सुद्धचित्तेन भिक्खं दातुकामतम्पि न जानामि, आवज्जेत्वा युत्तं चे, अधिवासेथ. नो चे, मा अधिवासयित्था’’ति. सत्था ‘‘किं नु खो सो अम्हाकं कातु कामो’’ति आवज्जेत्वा अद्दस ‘‘द्विन्नं गेहानं अन्तरे महन्तं आवाटं खणापेत्वा असीतिसकटमत्तानि खदिरदारूनि आहरापेत्वा पूरापेत्वा अग्गिं दत्वा अम्हे अङ्गारआवाटे पातेत्वा निग्गण्हितुकामो’’ति. पुन आवज्जेसि – ‘‘किं नु खो तत्थ गतपच्चया अत्थो अत्थि, नत्थी’’ति. ततो इदं अद्दस – ‘‘अहं अङ्गारआवाटे पादं पसारेस्सामि, तं पटिच्छादेत्वा ठपितकिलञ्जं अन्तरधायिस्सति, अङ्गारकासुं भिन्दित्वा चक्कमत्तं महापदुमं उट्ठहिस्सति, अथाहं पदुमकण्णिका अक्कमन्तो आसने निसीदिस्सामि, पञ्चसता भिक्खूपि तथेव गन्त्वा निसीदिस्सन्ति, महाजनो सन्निपतिस्सति, अहं तस्मिं समागमे द्वीहि गाथाहि अनुमोदनं करिस्सामि, अनुमोदनपरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो भविस्सति, सिरिगुत्तो च गरहदिन्नो च सोतापन्ना भविस्सन्ति, अत्तनो च धनरासिं सासने विकिरिस्सन्ति, इमं कुलपुत्तं निस्साय मया गन्तुं वट्टती’’ति भिक्खं अधिवासेसि.
सिरिगुत्तो गन्त्वा सत्थु अधिवासनं गरहदिन्नस्स आरोचेत्वा ‘‘लोकजेट्ठस्स सक्कारं करोही’’ति आह. गरहदिन्नो ‘‘इदानिस्स कत्तब्बयुत्तकं जानिस्सामी’’ति द्विन्नं गेहानं अन्तरे महन्तं आवाटं खणापेत्वा असीतिसकटमत्तानि खदिरदारूनि आहरापेत्वा पूरापेत्वा अग्गिं दत्वा खदिरङ्गाररासीनं योजापेत्वा सब्बरत्तिं धमापेत्वा खदिरङ्गाररासिं कारापेत्वा आवाटमत्थके रुक्खपदरानि ठपापेत्वा किलञ्जेन पटिच्छादेत्वा गोमयेन लिम्पापेत्वा एकेन पस्सेन दुब्बलदण्डके अत्थरित्वा गमनमग्गं कारेसि, ‘‘एवं अक्कन्तअक्कन्तकाले दण्डकेसु भग्गेसु परिवट्टेत्वा अङ्गारकासुयं पतिस्सन्ती’’ति मञ्ञमानो गेहपच्छाभागे सिरिगुत्तेन ठपितनियामेनेव चाटियो ठपापेसि, आसनानिपि तथेव पञ्ञापेसि. सिरिगुत्तो पातोव तस्स गेहं गन्त्वा ‘‘कतो ते, सम्म, सक्कारो’’ति आह. ‘‘आम, सम्मा’’ति. ‘‘कहं पन सो’’ति? ‘‘एहि, पस्सामा’’ति सब्बं सिरिगुत्तेन दस्सितनयेनेव दस्सेसि. सिरिगुत्तो ‘‘साधु, सम्मा’’ति आह. महाजनो सन्निपति. मिच्छादिट्ठिकेन हि निमन्तिते महन्तो सन्निपातो अहोसि. मिच्छादिट्ठिकापि ‘‘समणस्स गोतमस्स विप्पकारं पस्सिस्सामा’’ति सन्निपतन्ति, सम्मादिट्ठिकापि ‘‘अज्ज सत्था महाधम्मदेसनं देसेस्सति, बुद्धविसयं बुद्धलीलं उपधारेस्सामा’’ति सन्निपतन्ति.
पुनदिवसे सत्था पञ्चहि भिक्खुसतेहि सद्धिं गरहदिन्नस्स गेहद्वारं अगमासि. सो गेहा निक्खमित्वा पञ्चपतिट्ठितेन वन्दित्वा पुरतो अञ्जलिं पग्गय्ह ठितो चिन्तेसि – ‘‘भन्ते, ‘तुम्हे किर अतीतादिभेदं सब्बं जानाथ, सत्तानं सोळसहाकारेहि चित्तं परिच्छिन्दथा’ति एवं तुम्हाकं उपट्ठाकेन मय्हं कथितं. सचे जानाथ, मय्हं गेहं मा पविसित्थ. पविट्ठानञ्हि वो नेव यागु अत्थि, न भत्तादीनि, सब्बे खो पन तुम्हे अङ्गारकासुयं पातेत्वा निग्गण्हिस्सामी’’ति. एवं चिन्तेत्वा सत्थु पत्तं गहेत्वा ‘‘इतो एथ भगवा’’ति वत्वा, ‘‘भन्ते, अम्हाकं गेहं आगतानं वत्तं ञत्वा आगन्तुं वट्टती’’ति आह. ‘‘किं कातुं वट्टति, आवुसो’’ति? ‘‘एकेकस्स पविसित्वा पुरतो गन्त्वा निसिन्नकाले पच्छा अञ्ञेन आगन्तुं वट्टती’’ति. एवं किरस्स अहोसि – ‘‘पुरतो गच्छन्तं अङ्गारकासुयं पतितं दिस्वा अवसेसा न आगच्छिस्सन्ति, एकेकमेव पातेत्वा निग्गण्हिस्सामी’’ति. सत्था ‘‘साधू’’ति वत्वा एककोव पायासि. गरहदिन्नो अङ्गारकासुं पत्वा अपसक्कित्वा ठितो ‘‘पुरतो याथ, भन्ते’’ति आह. अथ सत्था अङ्गारकासुमत्थके पादं पसारेसि, किलञ्जं अन्तरधायि, अङ्गारकासुं भिन्दित्वा चक्कमत्तानि पदुमानि उट्ठहिंसु. सत्था पदुमकण्णिका अक्कमन्तो गन्त्वा पञ्ञत्ते बुद्धासने निसीदि, भिक्खूपि तथेव गन्त्वा निसीदिंसु. गरहदिन्नस्स कायतो डाहो उट्ठहि.
सो वेगेन गन्त्वा सिरिगुत्तं उपसङ्कमित्वा, ‘‘सामि, मे ताणं होही’’ति आह. ‘‘किं एत’’न्ति? ‘‘पञ्चन्नं भिक्खुसतानं गेहे यागु वा भत्तादीनि वा नत्थि, किं नु खो करोमी’’ति? ‘‘किं पन तया कत’’न्ति आह. अहं द्विन्नं गेहानं अन्तरे महन्तं आवाटं अङ्गारस्स पूरं कारेसिं – ‘‘तत्थ पातेत्वा निग्गण्हिस्सामी’’ति. ‘‘अथ नं भिन्दित्वा महापदुमानि उट्ठहिंसु. सब्बे पदुमकण्णिका अक्कमित्वा गन्त्वा पञ्ञत्तासनेसु निसिन्ना, इदानि किं करोमि, सामी’’ति? ननु त्वं इदानेव मय्हं ‘‘‘एत्तिका चाटियो, एत्तिका यागु, एत्तकानि सत्तादीनी’ति दस्सेसी’’ति. ‘‘मुसा तं, सामि, तुच्छाव चाटियो’’ति. होतु, ‘‘गच्छ, तासु चाटीसु यागुआदीनि ओलोकेही’’ति. तं खणञ्ञेव तेन यासु चाटीसु ‘‘यागू’’ति वुत्तं, ता यागुया पूरयिंसु, यासु ‘‘भत्तादीनी’’ति वुत्तं, ता भत्तादीनं परिपुण्णाव अहेसुं. तं सम्पत्तिं दिस्वाव गरहदिन्नस्स सरीरं पीतिपामोज्जेन परिपूरितं, चित्तं पसन्नं. सो सक्कच्चं बुद्धप्पमुखं भिक्खुसङ्घं परिविसित्वा कतभत्तकिच्चस्स सत्थुनो अनुमोदनं कारेतुकामो पत्तं गण्हि. सत्था अनुमोदनं करोन्तो ‘‘इमे सत्ता पञ्ञाचक्खुनो अभावेनेव मम सावकानं बुद्धसासनस्स गुणं न जानन्ति. पञ्ञाचक्खुविरहिता हि अन्धा नाम, पञ्ञवन्तो सचक्खुका नामा’’ति वत्वा इमा गाथा अभासि –
५८. ‘‘यथा सङ्कारधानस्मिं, उज्झितस्मिं महापथे;
पदुमं तत्थ जायेथ, सुचिगन्धं मनोरमं.
५९. ‘‘एवं सङ्कारभूतेसु, अन्धभूते पुथुज्जने;
अतिरोचति पञ्ञाय, सम्मासम्बुद्धसावको’’ति.
तत्थ सङ्कारधानस्मिन्ति सङ्कारठानस्मिं, कचवररासिम्हीति अत्थो. उज्झितस्मिं महापथेति महामग्गे छड्डितस्मिं. सुचिगन्धन्ति सुरभिगन्धं. मनो एत्थ रमतीति मनोरमं. सङ्कारभूतेसूति सङ्कारमिव भूतेसु. पुथुज्जनेति पुथूनं किलेसानं जननतो एवंलद्धनामे लोकियमहाजने. इदं वुत्तं होति – यथा नाम महापथे छड्डिते सङ्काररासिम्हि असुचिजेगुच्छियपटिकूलेपि सुचिगन्धं पदुमं जायेथ, तं राजराजमहामत्तादीनं मनोरमं पियं मनापं उपरिमत्थके पतिट्ठानारहमेव भवेय्य, एवमेव सङ्कारभूतेसुपि पुथुज्जनेसु जातो निप्पञ्ञस्स महाजनस्स अचक्खुकस्स अन्तरे निब्बत्तोपि अत्तनो पञ्ञाबलेन कामेसु आदीनवं, नेक्खम्मे च आनिसंसं दिस्वा निक्खमित्वा पब्बजितो पब्बज्जामत्तेनपि, कतो उत्तरिं सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनानि आराधेत्वापि अतिरोचति. सम्मासम्बुद्धसावको हि खीणासवो भिक्खु अन्धभूते पुथुज्जने अतिक्कमित्वा रोचति विरोचति सोभतीति.
देसनावसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि. गरहदिन्नो च सिरिगुत्तो च सोतापत्तिफलं पापुणिंसु. ते सब्बं अत्तनो धनं बुद्धसासने विप्पकिरिंसु. सत्था उट्ठायासना विहारमगमासि. भिक्खू सायन्हसमये धम्मसभायं कथं समुट्ठापेसुं – ‘‘अहो अच्छरिया बुद्धगुणा नाम, तथारूपं नाम खदिरङ्गाररासिं भिन्दित्वा पदुमानि उट्ठहिंसू’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते – ‘‘अनच्छरियं, भिक्खवे, यं मम एतरहि बुद्धभूतस्स अङ्गाररासिम्हा पदुमानि उट्ठितानि, अपरिपक्के ञाणे वत्तमानस्स बोधिसत्तभूतस्सपि मे उट्ठहिंसू’’ति वत्वा, ‘‘कदा, भन्ते, आचिक्खथ नो’’ति याचितो अतीतं आहरित्वा –
‘‘कामं पतामि निरयं, उद्धंपादो अवंसिरो;
नानरियं करिस्सामि, हन्द पिण्डं पटिग्गहा’’ति. (जा. १.१.४०) –
इदं खदिरङ्गारजातकं वित्थारेत्वा कथेसीति.
गरहदिन्नवत्थु द्वादसमं.
पुप्फवग्गवण्णना निट्ठिता.
चतुत्थो वग्गो.