५. महाकस्सपत्थेरवत्थु
पमादं अप्पमादेनाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो महाकस्सपत्थेरं आरब्भ कथेसि.
एकस्मिञ्हि दिवसे थेरो पिप्फलिगुहायं विहरन्तो राजगहे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो आलोकं वड्ढेत्वा पमत्ते च अप्पमत्ते च उदकपथवीपब्बतादीसु चवनके उपपज्जनके च सत्ते दिब्बेन चक्खुना ओलोकेन्तो निसीदि. सत्था जेतवने निसिन्नकोव ‘‘केन नु खो विहारेन अज्ज मम पुत्तो कस्सपो विहरती’’ति दिब्बेन चक्खुना उपधारेन्तो ‘‘सत्तानं चुतूपपातं ओलोकेन्तो विहरती’’ति ञत्वा ‘‘सत्तानं चुतूपपातो नाम बुद्धञाणेनपि अपरिच्छिन्नो, मातुकुच्छियं पटिसन्धिं गहेत्वा मातापितरो अजानापेत्वा चवनसत्तानं परिच्छेदो कातुं न सक्का, ते जानितुं तव अविसयो, कस्सप, अप्पमत्तको तव विसयो, सब्बसो पन चवन्ते च उपपज्जन्ते च जानितुं पस्सितुं बुद्धानमेव विसयो’’ति वत्वा ओभासं फरित्वा सम्मुखे निसिन्नो विय हुत्वा इमं गाथमाह –
२८. ‘‘पमादं अप्पमादेन, यदा नुदति पण्डितो;
पञ्ञापासादमारुय्ह, असोको सोकिनिं पजं;
पब्बतट्ठोव भूमट्ठे, धीरो बाले अवेक्खती’’ति.
तत्थ नुदतीति यथा नाम पोक्खरणिं पविसन्तं नवोदकं पुराणोदकं खोभेत्वा तस्सोकासं अदत्वा तं अत्तनो मत्थकमत्थकेन पलायन्तं नुदति नीहरति, एवमेव पण्डितो अप्पमादलक्खणं ब्रूहेन्तो पमादस्सोकासं अदत्वा यदा अप्पमादवेगेन तं नुदति नीहरति, अथ सो पनुन्नपमादो अच्चुग्गतत्थेन परिसुद्धं दिब्बचक्खुसङ्खातं पञ्ञापासादं तस्स अनुच्छविकं पटिपदं पूरेन्तो ताय पटिपदाय निस्सेणिया पासादं विय आरुय्ह पहीनसोकसल्लताय असोको, अप्पहीनसोकसल्लताय सोकिनिं पजं सत्तनिकायं चवमानञ्चेव उपपज्जमानञ्च दिब्बचक्खुना अवेक्खति पस्सति. यथा किं? पब्बतट्ठोव भूमट्ठेति पब्बतमुद्धनि ठितो भूमियं ठिते, उपरिपासादे वा पन ठितो पासादपरिवेणे ठिते अकिच्छेन अवेक्खति, तथा सोपि धीरो पण्डितो महाखीणासवो असमुच्छिन्नवट्टबीजे बाले चवन्ते च उपपज्जन्ते च अकिच्छेन अवेक्खतीति.
गाथापरियोसाने बहू सोतापत्तिफलादीनि सच्छिकरिंसूति.
महाकस्सपत्थेरवत्थु पञ्चमं.