३. चूळपन्थकत्थेरवत्थु

उट्ठानेनप्पमादेनाति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो चूळपन्थकत्थेरं आरब्भ कथेसि.

राजगहे किर धनसेट्ठिकुलस्स धीता वयप्पत्तकाले मातापितूहि सत्तभूमिकस्स पासादस्स उपरिमतले अतिविय रक्खियमाना योब्बनमदमत्तताय पुरिसलोला हुत्वा अत्तनो दासेनेव सद्धिं सन्थवं कत्वा, ‘‘अञ्ञेपि मे इदं कम्मं जानेय्यु’’न्ति भीता एवमाह – ‘‘अम्हेहि इमस्मिं ठाने न सक्का वसितुं. सचे मे मातापितरो इमं दोसं जानिस्सन्ति, खण्डाखण्डिकं मं करिस्सन्ति. विदेसं गन्त्वा वसिस्सामा’’ति. ते हत्थसारं गहेत्वा अग्गद्वारेन निक्खमित्वा, ‘‘यत्थ वा तत्थ वा अञ्ञेहि अजाननट्ठानं गन्त्वा वसिस्सामा’’ति उभोपि अगमंसु. तेसं एकस्मिं ठाने वसन्तानं संवासमन्वाय तस्सा कुच्छिस्मिं गब्भो पतिट्ठासि. सा गब्भपरिपाकं आगम्म तेन सद्धिं मन्तेसि, ‘‘गब्भो मे परिपाकं गतो, ञातिबन्धुविरहिते ठाने गब्भवुट्ठानं नाम उभिन्नम्पि अम्हाकं दुक्खावहं, कुलगेहमेव गच्छामा’’ति. सो ‘‘सचाहं तत्थ गमिस्सामि, जीवितं मे नत्थी’’ति भयेन ‘‘अज्ज गच्छाम, स्वे गच्छामा’’ति दिवसे अतिक्कामेसि. सा चिन्तेसि – ‘‘अयं बालो अत्तनो दोसमहन्तताय गन्तुं न उस्सहति, मातापितरो नाम एकन्तहिताव, अयं गच्छतु वा, मा वा, अहं गमिस्सामी’’ति. सा तस्मिं गेहा निक्खन्ते गेहपरिक्खारं पटिसामेत्वा अत्तनो कुलघरं गतभावं अनन्तरगेहवासीनं आरोचेत्वा मग्गं पटिपज्जि.

सोपि घरं आगन्त्वा तं अदिस्वा पटिविस्सके पुच्छित्वा, ‘‘सा कुलघरं गता’’ति सुत्वा वेगेन अनुबन्धित्वा अन्तरामग्गे सम्पापुणि. तस्सापि तत्थेव गब्भवुट्ठानं अहोसि. सो ‘‘किं इदं, भद्दे’’ति पुच्छि. ‘‘सामि, मे एको पुत्तो जातो’’ति. ‘‘इदानि किं करिस्सामा’’ति? ‘‘यस्सत्थाय मयं कुलघरं गच्छेय्याम, तं कम्मं अन्तरामग्गेव निप्फन्नं, तत्थ गन्त्वा किं करिस्साम, निवत्तिस्सामा’’ति द्वेपि एकचित्ता हुत्वा निवत्तिंसु. तस्स च दारकस्स पन्थे जातत्ता पन्थकोति नामं करिंसु. तस्सा नचिरस्सेव अपरोपि गब्भो पतिट्ठहि. सब्बं पुरिमनयेनेव वित्थारेतब्बं. तस्सपि दारकस्स पन्थे जातत्ता पठमजातस्स महापन्थकोति नामं कत्वा इतरस्स चूळपन्थकोति नामं करिंसु. ते द्वेपि दारके गहेत्वा अत्तनो वसनट्ठानमेव गता. तेसं तत्थ वसन्तानं महापन्थकदारको अञ्ञे दारके ‘‘चूळपिता महापिताति, अय्यको अय्यिका’’ति च वदन्ते सुत्वा मातरं पुच्छि – ‘‘अम्म, अञ्ञे दारका ‘अय्यको अय्यिका’तिपि, ‘महापिता चूळपिता’तिपि वदन्ति, कच्चि अम्हाकञ्ञेव ञातका नत्थी’’ति? ‘‘आम, तात, अम्हाकं एत्थ ञातका नत्थि. राजगहनगरे पन वो धनसेट्ठि नाम अय्यको, तत्थ अम्हाकं बहू ञातका’’ति. ‘‘कस्मा तत्थ न गच्छथ, अम्मा’’ति? सा अत्तनो अगमनकारणं पुत्तस्स अकथेत्वा पुत्तेसु पुनप्पुनं कथेन्तेसु सामिकं आह – ‘‘इमे दारका मं अतिविय किलमेन्ति, किं नो मातापितरो दिस्वा मंसं खादिस्सन्ति, एहि, दारकानं अय्यककुलं दस्सेस्सामा’’ति? ‘‘अहं सम्मुखा भवितुं न सक्खिस्सामि, ते पन नयिस्सामी’’ति. ‘‘साधु येन केनचि उपायेन दारकानं अय्यककुलमेव दट्ठुं वट्टती’’ति. द्वेपि जना दारके आदाय अनुपुब्बेन राजगहं पत्वा नगरद्वारे एकिस्सा सालाय पविसित्वा दारकमाता द्वे दारके गहेत्वा अत्तनो आगतभावं मातापितूनं आरोचापेसि. ते तं सासनं सुत्वा, ‘‘संसारे विचरन्तानं न पुत्तो न धीता भूतपुब्बा नाम नत्थि, ते अम्हाकं महापराधिका, न सक्का तेहि अम्हाकं चक्खुपथे ठातुं, एत्तकं नाम धनं गहेत्वा द्वेपि जना फासुकट्ठानं गन्त्वा जीवन्तु, दारके पन इध पेसेन्तू’’ति धनं दत्वा दूतं पाहेसुं.

तेहि पेसितं धनं गहेत्वा दारके आगतदूतानञ्ञेव हत्थे दत्वा पहिणिंसु. दारका अय्यककुले वड्ढन्ति. तेसु चूळपन्थको अतिदहरो, महापन्थको पन अय्यकेन सद्धिं दसबलस्स धम्मकथं सोतुं गच्छति. तस्स निच्चं सत्थु सन्तिकं गच्छन्तस्स पब्बज्जाय चित्तं नमि. सो अय्यकं आह – ‘‘सचे मं अनुजानेय्याथ, अहं पब्बजेय्य’’न्ति. ‘‘किं वदेसि, तात, सकलस्स लोकस्सपि मे पब्बज्जातो तव पब्बज्जा भद्दिका. सचे सक्कोसि पब्बजाही’’ति. तं सत्थु सन्तिकं नेत्वा, ‘‘किं, गहपति, दारको ते लद्धो’’ति वुत्ते, ‘‘आम, भन्ते, अयं मे नत्ता तुम्हाकं सन्तिके पब्बजितुकामो’’ति आह. सत्था अञ्ञतरं पिण्डपातचारिकं भिक्खुं ‘‘इमं दारकं पब्बाजेही’’ति आणापेसि. थेरो तस्स तचपञ्चककम्मट्ठानं आचिक्खित्वा पब्बाजेसि. सो बहुं बुद्धवचनं उग्गण्हित्वा परिपुण्णवस्सो उपसम्पदं लभित्वा योनिसोमनसिकारेन कम्मट्ठानं करोन्तो अरहत्तं पापुणि. सो झानसुखेन फलसुखेन वीतिनामेन्तो चिन्तेसि – ‘‘सक्का नु खो इदं सुखं चूळपन्थकस्स दातु’’न्ति! ततो अय्यकसेट्ठिस्स सन्तिकं गन्त्वा एवमाह – ‘‘महासेट्ठि, सचे अनुजानेय्याथ, अहं चूळपन्थकं पब्बाजेय्य’’न्ति. ‘‘पब्बाजेथ, भन्ते’’ति. सेट्ठि किर सासने च सुप्पसन्नो, ‘‘कतरधीताय वो एते पुत्ता’’ति पुच्छियमानो च ‘‘पलातधीताया’’ति वत्तुं लज्जति, तस्मा सुखेनेव तेसं पब्बज्जं अनुजानि. थेरो चूळपन्थकं पब्बाजेत्वा सीलेसु पतिट्ठापेसि. सो पब्बजित्वाव दन्धो अहोसि.

‘‘पद्मं यथा कोकनदं सुगन्धं,

पातो सिया फुल्लमवीतगन्धं;

अङ्गीरसं पस्स विरोचमानं,

तपन्तमादिच्चमिवन्तलिक्खे’’ति. (सं. नि. १.१२३; अ. नि. ५.१९५) –

इमं एकं गाथं चतूहि मासेहि उग्गण्हितुं नासक्खि. सो किर कस्सपसम्मासम्बुद्धकाले पब्बजित्वा पञ्ञवा हुत्वा अञ्ञतरस्स दन्धभिक्खुनो उद्देसग्गहणकाले परिहासकेळिं अकासि. सो भिक्खु तेन परिहासेन लज्जितो नेव उद्देसं गण्हि, न सज्झायमकासि. तेन कम्मेन अयं पब्बजित्वाव दन्धो जातो, गहितगहितं पदं उपरूपरिपदं गण्हन्तस्स नस्सति. तस्स इममेव गाथं उग्गहेतुं वायमन्तस्स चत्तारो मासा अतिक्कन्ता. अथ नं महापन्थको, ‘‘चूळपन्थक, त्वं इमस्मिं सासने अभब्बो, चतूहि मासेहि एकं गाथम्पि गण्हितुं न सक्कोसि, पब्बजितकिच्चं पन कथं मत्थकं पापेस्ससि, निक्खम इतो’’ति विहारा निक्कड्ढि. चूळपन्थको बुद्धसासने सिनेहेन गिहिभावं न पत्थेति.

तस्मिञ्च काले महापन्थको भत्तुद्देसको अहोसि. जीवको कोमारभच्चो बहुं मालागन्धविलेपनं आदाय अत्तनो अम्बवनं गन्त्वा सत्थारं पूजेत्वा धम्मं सुत्वा उट्ठायासना दसबलं वन्दित्वा महापन्थकं उपसङ्कमित्वा, ‘‘कित्तका, भन्ते, सत्थु सन्तिके भिक्खू’’ति पुच्छि. ‘‘पञ्चमत्तानि भिक्खुसतानी’’ति. ‘‘स्वे, भन्ते, बुद्धप्पमुखानि पञ्च भिक्खुसतानि आदाय अम्हाकं निवेसने भिक्खं गण्हथा’’ति. ‘‘उपासक, चूळपन्थको नाम भिक्खु दन्धो अविरुळ्हिधम्मो, तं ठपेत्वा सेसानं निमन्तनं सम्पटिच्छामी’’ति थेरो आह. तं सुत्वा चूळपन्थको चिन्तेसि – ‘‘थेरो एत्तकानं भिक्खूनं निमन्तनं सम्पटिच्छन्तो मं बाहिरं कत्वा सम्पटिच्छति, निस्संसयं मय्हं भातिकस्स मयि चित्तं भिन्नं भविस्सति, किं दानि मय्हं इमिना सासनेन, गिही हुत्वा दानादीनि पुञ्ञानि करोन्तो जीविस्सामी’’ति? सो पुनदिवसे पातोव विब्भमितुं पायासि.

सत्था पच्चूसकालेयेव लोकं वोलोकेन्तो इमं कारणं दिस्वा पठमतरं गन्त्वा चूळपन्थकस्स गमनमग्गे द्वारकोट्ठके चङ्कमन्तो अट्ठासि. चूळपन्थको गच्छन्तो सत्थारं दिस्वा उपसङ्कमित्वा वन्दित्वा अट्ठासि. अथ नं सत्था ‘‘कुहिं पन त्वं, चूळपन्थक, इमाय वेलाय गच्छसी’’ति आह. ‘‘भाता मं, भन्ते, निक्कड्ढति, तेनाहं विब्भमितुं गच्छामी’’ति. ‘‘चूळपन्थक, तव पब्बज्जा नाम मम सन्तका, भातरा निक्कड्ढितो कस्मा मम सन्तिकं नागञ्छि, एहि, किं ते गिहिभावेन, मम सन्तिके भविस्ससी’’ति चक्कङ्किततलेन पाणिना तं सिरसि परामसित्वा आदाय गन्त्वा गन्धकुटिप्पमुखे निसीदापेत्वा, ‘‘चूळपन्थक, पुरत्थाभिमुखो हुत्वा इमं पिलोतिकं ‘रजोहरणं रजोहरण’न्ति परिमज्जन्तो इधेव होही’’ति इद्धिया अभिसङ्खतं परिसुद्धं पिलोतिकं दत्वा काले आरोचिते भिक्खुसङ्घपरिवुतो जीवकस्स गेहं गन्त्वा पञ्ञत्तासने निसीदि. चूळपन्थकोपि सूरियं ओलोकेन्तो तं पिलोतिकं ‘‘रजोहरणं रजोहरण’’न्ति परिमज्जन्तो निसीदि. तस्स तं पिलोतिकखण्डं परिमज्जन्तस्स किलिट्ठं अहोसि. ततो चिन्तेसि – ‘‘इदं पिलोतिकखण्डं अतिविय परिसुद्धं, इमं पन अत्तभावं निस्साय पुरिमपकतिं विजहित्वा एवं किलिट्ठं जातं, अनिच्चा वत सङ्खारा’’ति खयवयं पट्ठपेन्तो विपस्सनं वड्ढेसि. सत्था ‘‘चूळपन्थकस्स चित्तं विपस्सनं आरुळ्ह’’न्ति ञत्वा, ‘‘चूळपन्थक, त्वं पिलोतिकखण्डमेव संकिलिट्ठं ‘रजं रज’न्ति मा सञ्ञं करि, अब्भन्तरे पन ते रागरजादयो अत्थि, ते हराही’’ति वत्वा ओभासं विस्सज्जेत्वा पुरतो निसिन्नो विय पञ्ञायमानरूपो हुत्वा इमा गाथा अभासि –

‘‘रागो रजो न च पन रेणु वुच्चति,

रागस्सेतं अधिवचनं रजोति;

एतं रज्जं विप्पजहित्व भिक्खवो,

विहरन्ति ते विगतरजस्स सासने.

‘‘दोसो रजो न च पन रेणु वुच्चति,

दोसस्सेतं अधिवचनं रजोति;

एतं रजं विप्पजहित्व भिक्खवो,

विहरन्ति ते विगतरजस्स सासने.

‘‘मोहो रजो न च पन रेणु वुच्चति,

मोहस्सेतं अधिवचनं रजोति;

एतं रजं विप्पजहित्व भिक्खवो,

विहरन्ति ते विगतरजस्स सासने’’ति. (महानि. २०९);

गाथापरियोसाने चूळपन्थको सह पटिसम्भिदाहि अरहत्तं पापुणि. सह पटिसम्भिदाहियेवस्स तीणि पिटकानि आगमिंसु.

सो किर पुब्बे राजा हुत्वा नगरं पदक्खिणं करोन्तो नलाटतो सेदे मुच्चन्ते परिसुद्धेन साटकेन नलाटन्तं पुञ्छि, साटको किलिट्ठो अहोसि. सो ‘‘इमं सरीरं निस्साय एवरूपो परिसुद्धो साटको पकतिं जहित्वा किलिट्ठो जातो, अनिच्चा वत सङ्खारा’’ति अनिच्चसञ्ञं पटिलभि. ते कारणेनस्स रजोहरणमेव पच्चयो जातो.

जीवकोपि खो कोमारभच्चो दसबलस्स दक्खिणोदकं उपनामेसि. सत्था ‘‘ननु, जीवक, विहारे भिक्खू अत्थी’’ति हत्थेन पत्तं पिदहि. महापन्थको ‘‘ननु, भन्ते, विहारे भिक्खू नत्थी’’ति आह. सत्था ‘‘अत्थि, जीवका’’ति आह. जीवको ‘‘तेन हि भणे गच्छ, विहारे भिक्खूनं अत्थिभावं वा नत्थिभावं वा त्वञ्ञेव जानाही’’ति पुरिसं पेसेसि. तस्मिं खणे चूळपन्थको ‘‘मय्हं भातिको ‘विहारे भिक्खू नत्थी’ति भणति, विहारे भिक्खूनं अत्थिभावमस्स पकासेस्सामी’’ति सकलं अम्बवनं भिक्खूनञ्ञेव पूरेसि. एकच्चे भिक्खू चीवरकम्मं करोन्ति, एकच्चे रजनकम्मं करोन्ति, एकच्चे सज्झायं करोन्ति. एवं अञ्ञमञ्ञअसदिसं भिक्खुसहस्सं मापेसि. सो पुरिसो विहारे बहू भिक्खू दिस्वा निवत्तित्वा, ‘‘अय्य, सकलं अम्बवनं भिक्खूहि परिपुण्ण’’न्ति जीवकस्स आरोचेसि. थेरोपि खो तत्थेव –

‘‘सहस्सक्खत्तुमत्तानं, निम्मिनित्वान पन्थको;

निसीदम्बवने रम्मे, याव कालप्पवेदना’’ति.

अथ सत्था तं पुरिसं आह – ‘‘विहारं गन्त्वा ‘सत्था चूळपन्थकं नाम पक्कोसती’ति वदेही’’ति. तेन गन्त्वा तथा वुत्ते, ‘‘अहं चूळपन्थको, अहं चूळपन्थको’’ति मुखसहस्सं उट्ठहि. सो पुरिसो पुन गन्त्वा, ‘‘सब्बेपि किर, भन्ते, चूळपन्थकायेव नामा’’ति आह. ‘‘तेन हि गन्त्वा यो ‘अहं चूळपन्थको’ति पठमं वदति, तं हत्थे गण्ह, अवसेसा अन्तरधायिस्सन्ती’’ति. सो तथा अकासि. तावदेव सहस्समत्ता भिक्खू अन्तरधायिंसु. थेरोपि तेन पुरिसेन सद्धिं अगमासि. सत्था भत्तकिच्चपरियोसाने जीवकं आमन्तेसि – ‘‘जीवक, चूळपन्थकस्स पत्तं गण्हाहि, अयं ते अनुमोदनं करिस्सती’’ति. जीवको तथा अकासि. थेरो सीहनादं नदन्तो तरुणसीहो विय तीहि पिटकेहि सङ्खोभेत्वा अनुमोदनमकासि. सत्था उट्ठायासना भिक्खुसङ्घपरिवुतो विहारं गन्त्वा भिक्खूहि वत्ते दस्सिते गन्धकुटिप्पमुखे ठत्वा भिक्खुसङ्घस्स सुगतोवादं दत्वा कम्मट्ठानं कथेत्वा भिक्खुसङ्घं उय्योजेत्वा सुरभिगन्धवासितं गन्धकुटिं पविसित्वा दक्खिणेन पस्सेन सीहसेय्यं उपगतो. अथ सायन्हसमये भिक्खू इतो चितो च समोसरित्वा रत्तकम्बलसाणिया परिक्खित्ता विय निसीदित्वा सत्थु गुणकथं आरभिंसु, ‘‘आवुसो, महापन्थको चूळपन्थकस्स अज्झासयं अजानन्तो चतूहि मासेहि एकं गाथं उग्गण्हापेतुं न सक्कोति, ‘दन्धो अय’न्ति विहारा निक्कड्ढि, सम्मासम्बुद्धो पन अत्तनो अनुत्तरधम्मराजताय एकस्मिंयेवस्स अन्तरभत्ते सह पटिसम्भिदाहि अरहत्तं अदासि, तीणि पिटकानि सह पटिसम्भिदाहियेव आगतानि, अहो बुद्धानं बलं नाम महन्त’’न्ति.

अथ भगवा धम्मसभायं इमं कथापवत्तिं ञत्वा, ‘‘अज्ज मया गन्तुं वट्टती’’ति बुद्धसेय्याय उट्ठाय सुरत्तदुपट्टं निवासेत्वा विज्जुलतं विय कायबन्धनं बन्धित्वा रत्तकम्बलसदिसं सुगतमहाचीवरं पारुपित्वा सुरभिगन्धकुटितो निक्खम्म मत्तवरवारणसीहविजम्भितविलासेन अनन्ताय बुद्धलीळाय धम्मसभं गन्त्वा अलङ्कतमण्डलमाळमज्झे सुपञ्ञत्तवरबुद्धासनं अभिरुय्ह छब्बण्णबुद्धरंसियो विस्सज्जेन्तो अण्णवकुच्छिं खोभयमानो युगन्धरमत्थके बालसूरियो विय आसनमज्झे निसीदि. सम्मासम्बुद्धे पन आगतमत्ते भिक्खुसङ्घो कथं पच्छिन्दित्वा तुण्ही अहोसि. सत्था मुदुकेन मेत्तचित्तेन परिसं ओलोकेत्वा, ‘‘अयं परिसा अतिविय सोभति, एकस्सपि हत्थकुक्कुच्चं वा पादकुक्कुच्चं वा उक्कासितसद्दो वा खिपितसद्दो वा नत्थि, सब्बेपि इमे बुद्धगारवेन सगारवा, बुद्धतेजेन तज्जिता. मयि आयुकप्पम्पि अकथेत्वा निसिन्ने पठमं कथं समुट्ठापेत्वा न कथेस्सन्ति. कथासमुट्ठापनवत्तं नाम मयाव जानितब्बं, अहमेव पठमं कथेस्सामी’’ति मधुरेन ब्रह्मस्सरेन भिक्खू आमन्तेत्वा, ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना, का च पन वो अन्तराकथा विप्पकता’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते, ‘‘न, भिक्खवे, चूळपन्थको इदानेव दन्धो, पुब्बेपि दन्धोयेव. न केवलञ्चस्साहं इदानेव अवस्सयो जातो, पुब्बेपि अवस्सयो अहोसिमेव. पुब्बे पनाहं इमं लोकियकुटुम्बस्स सामिकं अकासिं, इदानि लोकुत्तरकुटुम्बस्सा’’ति वत्वा तमत्थं वित्थारतो सोतुकामेहि भिक्खूहि आयाचितो अतीतं आहरि –

‘‘अतीते, भिक्खवे, बाराणसिनगरवासी एको माणवो तक्कसिलं गन्त्वा सिप्पुग्गहणत्थाय दिसापामोक्खस्स आचरियस्स धम्मन्तेवासिको हुत्वा पञ्चन्नं माणवकसतानं अन्तरे अतिविय आचरियस्स उपकारको अहोसि, पादपरिकम्मादीनि सब्बकिच्चानि करोति. दन्धताय पन किञ्चि उग्गण्हितुं न सक्को’’ति. आचरियो ‘‘अयं मम बहूपकारो, सिक्खापेस्सामि न’’न्ति वायमन्तोपि किञ्चि सिक्खापेतुं न सक्कोति. सो चिरं वसित्वा एकगाथम्पि उग्गण्हितुं असक्कोन्तो उक्कण्ठित्वा ‘‘गमिस्सामी’’ति आचरियं आपुच्छि. आचरियो चिन्तेसि – ‘‘अयं मय्हं उपकारको, पण्डितभावमस्स पच्चासीसामि, न नं कातुं सक्कोमि, अवस्सं मया इमस्स पच्चुपकारो कातब्बो, एकमस्स मन्तं बन्धित्वा दस्सामी’’ति सो तं अरञ्ञं नेत्वा ‘‘घट्टेसि घट्टेसि, किं कारणा घट्टेसि? अहम्पि तं जानामि जानामी’’ति इमं मन्तं बन्धित्वा उग्गण्हापेन्तो अनेकसतक्खत्तुं परिवत्तापेत्वा, ‘‘पञ्ञायति ते’’ति पुच्छित्वा, ‘‘आम, पञ्ञायती’’ति वुत्ते ‘‘दन्धेन नाम वायामं कत्वा पगुणं कतं सिप्पं न पलायती’’ति चिन्तेत्वा मग्गपरिब्बयं दत्वा, ‘‘गच्छ, इमं मन्तं निस्साय जीविस्ससि, अपलायनत्थाय पनस्स निच्चं सज्झायं करेय्यासी’’ति वत्वा तं उय्योजेसि. अथस्स माता बाराणसियं सम्पत्तकाले ‘‘पुत्तो मे सिप्पं सिक्खित्वा आगतो’’ति महासक्कारसम्मानं अकासि.

तदा बाराणसिराजा ‘‘अत्थि नु खो मे कायकम्मादीसु कोचि दोसो’’ति पच्चवेक्खन्तो अत्तनो अरुच्चनकं किञ्चि कम्मं अदिस्वा ‘‘अत्तनो वज्जं नाम अत्तनो न पञ्ञायति, परेसं पञ्ञायति, नागरानं परिग्गण्हिस्सामी’’ति चिन्तेत्वा सायं अञ्ञातकवेसेन निक्खमित्वा, ‘‘सायमासं भुञ्जित्वा निसिन्नमनुस्सानं कथासल्लापो नाम नानप्पकारको होति, ‘सचाहं अधम्मेन रज्जं कारेमि, पापेन अधम्मिकेन रञ्ञा दण्डबलिआदीहि हतम्हा’ति वक्खन्ति. ‘सचे धम्मेन रज्जं कारेमि, दीघायुको होतु नो राजा’तिआदीनि वत्वा मम गुणं कथेस्सन्ती’’ति तेसं तेसं गेहानं भित्तिअनुसारेनेव विचरति.

तस्मिं खणे उमङ्गचोरा द्विन्नं गेहानं अन्तरे उमङ्गं भिन्दन्ति एकउमङ्गेनेव द्वे गेहानि पविसनत्थाय. राजा ते दिस्वा गेहच्छायाय अट्ठासि. तेसं उमङ्गं भिन्दित्वा गेहं पविसित्वा भण्डकं ओलोकितकाले माणवो पबुज्झित्वा तं मन्तं सज्झायन्तो ‘‘घट्टेसि घट्टेसि, किं कारणा घट्टेसि? अहम्पि तं जानामि जानामी’’ति आह. ते तं सुत्वा, ‘‘इमिना किरम्हा ञाता, इदानि नो नासेस्सती’’ति निवत्थवत्थानिपि छड्डेत्वा भीता सम्मुखसम्मुखट्ठानेनेव पलायिंसु. राजा ते पलायन्ते दिस्वा इतरस्स च मन्तसज्झायनसद्दं सुत्वा गेहञ्ञेव ववत्थपेत्वा नागरानं परिग्गण्हित्वा निवेसनं पाविसि. सो विभाताय पन रत्तिया पातोवेकं पुरिसं पक्कोसित्वा आह – ‘‘गच्छ भणे, असुकवीथियं नाम यस्मिं गेहे उमङ्गो भिन्नो, तत्थ तक्कसिलतो सिप्पं उग्गण्हित्वा आगतमाणवो अत्थि, तं आनेही’’ति. सो गन्त्वा ‘‘राजा तं पक्कोसती’’ति वत्वा माणवं आनेसि. अथ नं राजा आह – ‘‘त्वं, तात, तक्कसिलतो सिप्पं उग्गण्हित्वा आगतमाणवो’’ति? ‘‘आम, देवा’’ति. ‘‘अम्हाकम्पि तं सिप्पं देही’’ति. ‘‘साधु, देव, समानासने निसीदित्वा गण्हाही’’ति. राजापि तथा कत्वा मन्तं गहेत्वा ‘‘अयं ते आचरियभागो’’ति सहस्सं अदासि.

तदा सेनापति रञ्ञो कप्पकं आह – ‘‘कदा रञ्ञो मस्सुं करिस्ससी’’ति? ‘‘स्वे वा परसुवे वा’’ति. सो तस्स सहस्सं दत्वा ‘‘किच्चं मे अत्थी’’ति वत्वा, ‘‘किं, सामी’’ति वुत्ते ‘‘रञ्ञो मस्सुकम्मं करोन्तो विय हुत्वा खुरं अतिविय पहंसित्वा गलनाळिं छिन्द, त्वं सेनापति भविस्ससि, अहं राजा’’ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा रञ्ञो मस्सुकम्मकरणदिवसे गन्धोदकेन मस्सुं तेमेत्वा खुरं पहंसित्वा नलाटन्ते गहेत्वा, ‘‘खुरो थोकं कुण्ठधारो, एकप्पहारेनेव गलनाळिं छिन्दितुं वट्टती’’ति पुन एकमन्तं ठत्वा खुरं पहंसि. तस्मिं खणे राजा अत्तनो मन्तं सरित्वा सज्झायं करोन्तो ‘‘घट्टेसि घट्टेसि, किं कारणा घट्टेसि? अहम्पि तं जानामि जानामी’’ति आह. न्हापितस्स नलाटतो सेदा मुच्चिंसु. सो ‘‘जानाति मम कारणं राजा’’ति भीतो खुरं भूमियं खिपित्वा पादमूले उरेन निपज्जि. राजानो नाम छेका होन्ति, तेन तं एवमाह – ‘‘अरे, दुट्ठ, न्हापित, ‘न मं राजा जानाती’ति सञ्ञं करोसी’’ति. ‘‘अभयं मे देहि, देवा’’ति. ‘‘होतु, मा भायि, कथेही’’ति. सेनापति मे, देव, सहस्सं दत्वा, ‘‘रञ्ञो मस्सुं करोन्तो विय गलनाळिं छिन्द, अहं राजा हुत्वा तं सेनापतिं करिस्सामी’’ति आहाति. राजा तं सुत्वा ‘‘आचरियं मे निस्साय जीवितं लद्ध’’न्ति चिन्तेत्वा सेनापतिं पक्कोसापेत्वा, ‘‘अम्भो, सेनापति, किं नाम तया मम सन्तिका न लद्धं, इदानि तं दट्ठुं न सक्कोमि, मम रट्ठा निक्खमाही’’ति तं रट्ठा पब्बाजेत्वा आचरियं पक्कोसापेत्वा, ‘‘आचरिय, तं निस्साय मया जीवितं लद्ध’’न्ति वत्वा महन्तं सक्कारं करित्वा तस्स सेनापतिट्ठानं अदासि. ‘‘सो तदा चूळपन्थको अहोसि, सत्था दिसापामोक्खो आचरियो’’ति.

सत्था इमं अतीतं आहरित्वा, ‘‘एवं, भिक्खवे, पुब्बेपि चूळपन्थको दन्धोयेव अहोसि, तदापिस्साहं अवस्सयो हुत्वा तं लोकियकुटुम्बे पतिट्ठापेसि’’न्ति वत्वा पुन एकदिवसं ‘‘अहो सत्था चूळपन्थकस्स अवस्सयो जातो’’ति कथाय समुट्ठिताय चूळसेट्ठिजातके अतीतवत्थुं कथेत्वा –

‘‘अप्पकेनापि मेधावी, पाभतेन विचक्खणो;

समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धम’’न्ति. (जा. १.१.४) –

गाथं वत्वा, ‘‘न, भिक्खवे, इदानेवाहं इमस्स अवस्सयो जातो, पुब्बेपि अवस्सयो अहोसिमेव. पुब्बे पनाहं इमं लोकियकुटुम्बस्स सामिकं अकासिं, इदानि लोकुत्तरकुटुम्बस्स. तदा हि चूळन्तेवासिको चूळपन्थको अहोसि, चूळसेट्ठि पन पण्डितो ब्यत्तो नक्खत्तकोविदो अहमेवा’’ति जातकं समोधानेसि.

पुनेकदिवसं धम्मसभायं कथं समुट्ठापेसुं, ‘‘आवुसो, चूळपन्थको चतूहि मासेहि चतुप्पदं गाथं गहेतुं असक्कोन्तोपि वीरियं अनोस्सज्जित्वाव अरहत्ते पतिट्ठितो, इदानि लोकुत्तरधम्मकुटुम्बस्स सामिको जातो’’ति. सत्था आगन्त्वा, ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, मम सासने आरद्धवीरियो भिक्खु लोकुत्तरधम्मस्स सामिको होतियेवा’’ति वत्वा इमं गाथमाह –

२५. ‘‘उट्ठानेनप्पमादेन, संयमेन दमेन च;

दीपं कयिराथ मेधावी, यं ओघो नाभिकीरती’’ति.

तत्थ दीपं कयिराथाति वीरियसङ्खातेन उट्ठानेन, सतिया अविप्पवासाकारसङ्खातेन अप्पमादेन, चतुपारिसुद्धिसीलसङ्खातेन संयमेन, इन्द्रियदमेन चाति इमेहि कारणभूतेहि चतूहि धम्मेहि धम्मोजपञ्ञाय समन्नागतो मेधावी इमस्मिं अतिविय दुल्लभपतिट्ठताय अतिगम्भीरे संसारसागरे अत्तनो पतिट्ठानभूतं अरहत्तफलं दीपं कयिराथ करेय्य, कातुं सक्कुणेय्याति अत्थो. कीदिसं? यं ओघो नाभिकीरतीति यं चतुब्बिधोपि किलेसोघो अभिकिरितुं विद्धंसेतुं न सक्कोति. न हि सक्का अरहत्तं ओघेन अभिकिरितुन्ति.

गाथापरियोसाने बहू सोतापन्नादयो अहेसुं. एवं देसना सम्पत्तपरिसाय सात्थिका जाताति.

चूळपन्थकत्थेरवत्थु ततियं.