७. वत्थदायकत्थेरअपदानवण्णना

पक्खिजातो तदा आसिन्तिआदिकं आयस्मतो वत्थदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले सुपण्णयोनियं निब्बत्तो गन्धमादनपब्बतं गच्छन्तं अत्थदस्सिं भगवन्तं दिस्वा पसन्नमानसो सुपण्णवण्णं विजहित्वा माणवकवण्णं निम्मिनित्वा महग्घं दिब्बवत्थं आदाय भगवन्तं पूजेसि. सोपि भगवा पटिग्गहेत्वा अनुमोदनं वत्वा पक्कामि. सो तेनेव सोमनस्सेन वीतिनामेत्वा यावतायुकं ठत्वा ततो चुतो देवलोके निब्बत्तो तत्थ अपरापरं संसरन्तो पुञ्ञानि अनुभवित्वा ततो मनुस्सेसु मनुस्ससम्पत्तिन्ति सब्बत्थ महग्घं वत्थाभरणं लद्धं, ततो उप्पन्नुप्पन्नभवे वत्थच्छायाय गतगतट्ठाने वसन्तो इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव छळभिञ्ञप्पत्तखीणासवो अहोसि, पुब्बे कतपुञ्ञनामेन वत्थदायकत्थेरोति पाकटो.

४५. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पक्खिजातो तदा आसिन्तिआदिमाह. तत्थ पक्खिजातोति पक्खन्दति उपलवति सकुणो एतेनाति पक्खं, पक्खमस्स अत्थीति पक्खी, पक्खियोनियं जातो निब्बत्तोति अत्थो. सुपण्णोति सुन्दरं पण्णं पत्तं यस्स सो सुपण्णो, वातग्गाहसुवण्णवण्णजलमानपत्तमहाभारोति अत्थो. गरुळाधिपोति नागे गण्हनत्थाय गरुं भारं पासाणं गिळन्तीति गरुळा, गरुळानं अधिपो राजाति गरुळाधिपो, विरजं बुद्धं अद्दसाहन्ति सम्बन्धो.

वत्थदायकत्थेरअपदानवण्णना समत्ता.