४. गन्धोदकियत्थेरअपदानवण्णना
पदुमुत्तरबुद्धस्सातिआदिकं आयस्मतो गन्धोदकियत्थेरस्स अपदानं. अयम्पि पुरिममुनिवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो परिनिब्बुते भगवति नगरवासिनो बोधिपूजं कुरुमाने दिस्वा विचित्तघटे चन्दनकप्पुरागरुआदिमिस्सकसुगन्धोदकेन पूरेत्वा बोधिरुक्खं अभिसिञ्चि. तस्मिं खणे देवो महाधाराहि पवस्सि. तदा सो असनिवेगेन कालं कतो. तेनेव पुञ्ञकम्मेन देवलोके निब्बत्ति, तत्थेव ठितो ‘‘अहो बुद्धो, अहो धम्मो’’तिआदिगाथायो अभासि. एवं सो देवमनुस्सेसु सम्पत्तियो अनुभवित्वा सब्बपरिळाहविप्पमुत्तो निब्बत्तनिब्बत्तट्ठाने सीतिभावमुपगतो सुखितो इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसन्नो पब्बजित्वा कम्मट्ठानं आरभित्वा विपस्सन्तो नचिरस्सेव अरहत्तं पापुणि. पुब्बे कतपुञ्ञेन गन्धोदकियत्थेरोति पाकटो अहोसि.
२५. सो एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुतरस्सातिआदिमाह. तं वुत्तत्थमेव. महाबोधिमहो अहूति महाबोधिरुक्खस्स पूजा अहोसीति अत्थो. विचित्तं घटमादायाति अनेकेहि चित्तकम्मसुवण्णकम्मेहि विचित्तं सोभमानं गन्धोदकपुण्णं घटं गहेत्वाति अत्थो. गन्धोदकमदासहन्ति गन्धोदकं अदासिं, अहं गन्धोदकेन अभिसिञ्चिन्ति अत्थो.
२६. न्हानकाले च बोधियाति बोधिया पूजाकरणसमयेति अत्थो. सेसं उत्तानत्थमेवाति.
गन्धोदकियत्थेरअपदानवण्णना समत्ता.