१०. चूळसुगन्धत्थेरअपदानवण्णना
दसमापदाने इमम्हि भद्दके कप्पेतिआदिकं आयस्मतो सुगन्धत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो कस्सपसम्मासम्बुद्धकाले बाराणसियं विभवसम्पन्ने कुले निब्बत्तो विञ्ञुतं पत्वा सत्थु सन्तिके धम्मं सुत्वा सब्बदा नमस्समानो महादानं ददमानो मासस्स सत्तक्खत्तुं भगवतो गन्धकुटिया चतुज्जातिगन्धेन विलिम्पेसि. ‘‘मम निब्बत्तनिब्बत्तट्ठाने सरीरतो सुगन्धगन्धो निब्बत्ततू’’ति पत्थनं अकासि. भगवा तं ब्याकासि. सो यावतायुकं ठत्वा पुञ्ञानि करोन्तो ततो चुतो देवलोके निब्बत्तो कामावचरलोकं सरीरगन्धेन सुगन्धं कुरुमानो सुगन्धदेवपुत्तोति पाकटो अहोसि. सो देवलोकसम्पत्तियो अनुभवित्वा ततो चुतो इमस्मिं बुद्धुप्पादे महाभोगकुले निब्बत्ति, तस्स मातुकुच्छिगतस्सेव मातुया सरीरगन्धेन सकलगेहं सकलनगरञ्च सुगन्धेन एकगन्धं अहोसि, जातक्खणे सकलं सावत्थिनगरं सुगन्धकरण्डको विय अहोसि, तेनस्स सुगन्धोति नामं करिंसु. सो वुद्धिं अगमासि. तदा सत्था सावत्थियं पत्वा जेतवनमहाविहारं पटिग्गहेसि, तं दिस्वा पसन्नमानसो भगवतो सन्तिके पब्बजित्वा नचिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि. तस्स उप्पन्नदिवसतो पट्ठाय याव परिनिब्बाना एत्थन्तरे निपन्नट्ठानादीसु सुगन्धमेव वायि. देवापि दिब्बचुण्णदिब्बगन्धपुप्फानि ओकिरन्ति.
२७२. सोपि थेरो अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो इमम्हि भद्दके कप्पेतिआदिमाह. तं सब्बं हेट्ठा वुत्तनयत्ता उत्तानत्थत्ता च सुविञ्ञेय्यमेव, केवलं पुञ्ञनानत्तं नामनानत्तञ्च विसेसो.
चूळसुगन्धत्थेरअपदानवण्णना समत्ता.
पञ्चपञ्ञासमवग्गवण्णना समत्ता.