८. उरुवेलकस्सपत्थेरअपदानवण्णना

अट्ठमापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो उरुवेलकस्सपत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो वयप्पत्तो सत्थु सन्तिके धम्मं सुत्वा सत्थारं एकं भिक्खुं महापरिवारानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो महादानं दत्वा पणिधानं अकासि. भगवा चस्स अनन्तरायतं दिस्वा ‘‘अनागते गोतमबुद्धस्स सासने महापरिवारानं अग्गो भविस्सती’’ति ब्याकासि. सो तत्थ यावतायुकं पुञ्ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो इतो द्वेनवुतिकप्पमत्थके फुस्सस्स भगवतो वेमातिककनिट्ठभाता हुत्वा निब्बत्तो, अञ्ञेपिस्स द्वे कनिट्ठभातरो अहेसुं. ते तयो बुद्धप्पमुखभिक्खुसङ्घं निमन्तेत्वा परमाय पूजाय पूजेत्वा यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो उप्पत्तितो पुरेतरमेव बाराणसियं ब्राह्मणकुले तयो भातरो हुत्वा निब्बत्ता गोत्तवसेन तयोपि कस्सपाति एवं नामका अहेसुं. ते तयो वयप्पत्ता तयो वेदे उग्गण्हिंसु. तेसं जेट्ठभातिकस्स पञ्चमाणवकसतानि परिवारा, मज्झिमस्स तीणि, कनिट्ठस्स द्वे, ते अत्तनो गन्थेसु सारं ओलोकेन्ता दिट्ठधम्मिकमेव अत्थं दिस्वा पब्बज्जं रोचेसुं. तेसु जेट्ठभाता अत्तनो परिवारेन सद्धिं उरुवेलं गन्त्वा इसिपब्बज्जं पब्बजित्वा उरुवेलकस्सपो नाम जातो, मज्झिमो गङ्गानदीवङ्के पब्बजितो नदीकस्सपो नाम जातो, कनिट्ठो गयासीसे पब्बजितो गयाकस्सपो नाम जातो. एवं तेसु इसिपब्बज्जं पब्बजित्वा तत्थ तत्थ वसन्तेसु बहूनं दिवसानं अच्चयेन अम्हाकं बोधिसत्तो महाभिनिक्खमनं निक्खमित्वा पटिविद्धसब्बञ्ञुतञ्ञाणो अनुक्कमेन धम्मचक्कं पवत्तेत्वा पञ्चवग्गियत्थेरे अरहत्ते पतिट्ठापेत्वा यसकुलपुत्तप्पमुखे पञ्चपञ्ञासजने सहायके विनेत्वा सट्ठि अरहन्ते ‘‘चरथ, भिक्खवे, चारिक’’न्ति (महाव. ३२) विस्सज्जेत्वा तिंसभद्दवग्गिये विनेत्वा उरुवेलकस्सपस्स वसनट्ठानं गन्त्वा वसनत्थाय अग्यागारं पविसित्वा तत्थ गतनागदमनादीहि अड्ढुड्ढसहस्सेहि पाटिहारियेहि उरुवेलकस्सपं सपरिवारं विनेत्वा पब्बाजेसि. तस्स पब्बज्जाविधानञ्च इद्धिपाटिहारियकरणञ्च सब्बं नदीकस्सपस्स अपदानट्ठकथायं आवि भविस्सति. तस्स पब्बजितभावं सुत्वा इतरेपि द्वे भातरो सपरिसा आगन्त्वा सत्थु सन्तिके पब्बजिंसु. सब्बेव ते इद्धिमयपत्तचीवरधरा एहिभिक्खुका अहेसुं. सत्था तं समणसहस्सं आदाय गयासीसं गन्त्वा पिट्ठिपासाणे निसिन्नो आदित्तपरियायदेसनाय (महाव. ५४) ते सब्बे अरहत्ते पतिट्ठापेसि.

२५१. सो एवं अरहत्तं पत्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. अनुत्तानपदमेव वण्णयिस्साम.

२६८. सो च सब्बं तमं हन्त्वाति सो फुस्सो भगवा रागदोसमोहादिकिलेसन्धकारं विद्धंसेत्वा. विजटेत्वा महाजटन्ति तण्हामानादीहि दियड्ढसहस्सेहि किलेसगणेहि महाब्याकुलं जटं विजटेत्वा पदालेत्वा फालेत्वाति अत्थो. सदेवकं देवलोकसहितं सकलं लोकसन्निवासंतप्पयन्तो सन्तप्पयन्तो पीणेन्तो अमतं वुट्ठिं महानिब्बानवुट्ठिधारं वस्सते पग्घरापेतीति योजना.

२६९. तदा हि बाराणसियन्ति ‘‘बारस मनुस्सा’’तिआदीसु विय बारस द्वादसरासी हुत्वा पुरा, हिमवन्ततो इसयो च पच्चेकमुनिसङ्खाता इसयो च गन्धमादनतो आकासेनागन्त्वा एत्थ गच्छन्ति ओतरन्ति पविसन्तीति बाराणसी, अथ वा सम्मासम्बुद्धसङ्खातानं अनेकसतसहस्सानं धम्मचक्कपवत्तनत्थाय ओतरट्ठानं नगरं लिङ्गविपल्लासं कत्वा इत्थिलिङ्गवसेन बाराणसीति वुच्चति, तिस्सं बाराणसियं.

२७३. निक्खित्तसत्थं पच्चन्तन्ति छड्डितसत्थं पातितआवुधं पच्चन्तजनपदं निब्बिसेवनं कत्वा पुनरुपच्चतन्ति पुनरपि तं नगरं उपेच्च उपगम्म सम्पत्ताति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

उरुवेलकस्सपत्थेरअपदानवण्णना समत्ता.