२. सोणकोळिविसत्थेरअपदानवण्णना

अनोमदस्सिस्स मुनिनोतिआदिकं आयस्मतो कोळिविसत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अनोमदस्सिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वयप्पत्तो पुत्तदारेहि वड्ढितो विभवसम्पन्नो भगवतो चङ्कमनत्थाय सोभनं चङ्कमं कारेत्वा सुधापरिकम्मं कारेत्वा आदासतलमिव समं विज्जोतमानं कत्वा दीपधूपपुप्फादीहि सज्जेत्वा भगवतो निय्यादेत्वा बुद्धप्पमुखं भिक्खुसङ्घं पणीतेनाहारेन पूजेसि. सो एवं यावजीवं पुञ्ञानि कत्वा ततो चवित्वा देवलोके निब्बत्तो. तत्थ पाळिया वुत्तनयेन दिब्बसम्पत्तिं अनुभवित्वा अन्तरा ओक्काककुलप्पसुतोति तं सब्बं पाळिया वुत्तानुसारेन वेदितब्बं. पच्छिमभवे पन कोलियराजवंसे जातो वयप्पत्तो कोटिअग्घनकस्स कण्णपिळन्धनस्स धारितत्ता कोटिकण्णोति, कुटिकण्णोति च पाकटो अहोसि. सो भगवति पसन्नो धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पापुणि.

२५. सो अरहा हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अनोमदस्सिस्स मुनिनोतिआदिमाह. तत्थ अनोमदस्सिस्साति अनोमं अलामकं सुन्दरं दस्सनं द्वत्तिंसमहापुरिसलक्खणपटिमण्डितत्ता ब्यामप्पभामण्डलोपसोभितत्ता आरोहपरिणाहेन समन्नागतत्ता च दस्सनीयं सरीरं यस्स भगवतो सो अनोमदस्सी, तस्स अनोमदस्सिस्स मुनिनोति अत्थो. तादिनोति इट्ठानिट्ठेसु अकम्पियसभावस्स. सुधाय लेपनं कत्वाति सुधाय अवलित्तं कत्वा दीपधूपपुप्फधजपटाकादीहि च अलङ्कतं चङ्कमं कारयिं अकासिन्ति अत्थो. सेसगाथानं अत्थो पाळिया अनुसारेन सुविञ्ञेय्योव.

३५. परिवारसम्पत्तिधनसम्पत्तिसङ्खातं यसं धारेतीति यसोधरो, सब्बे एते सत्तसत्ततिचक्कवत्तिराजानो यसोधरनामेन एकनामकाति सम्बन्धो.

५२. अङ्गीरसोति अङ्गतो सरीरतो निग्गता रस्मि यस्स सो अङ्गीरसो, छन्ददोसमोहभयागतीहि वा पापाचारवसेन वा चतुरापायं न गच्छतीति नागो, महन्तो पूजितो च सो नागो चेति महानागो. सेसं उत्तानत्थमेवाति.

कोळिविसत्थेरअपदानवण्णना समत्ता.