१०. पुब्बकम्मपिलोतिकबुद्धअपदानवण्णना
६४. दसमापदाने अनोतत्तसरासन्नेति पब्बतकूटेहि पटिच्छन्नत्ता चन्दिमसूरियानं सन्तापेहि ओतत्तं उण्हं उदकं एत्थ नत्थीति अनोतत्तो. सरन्ति गच्छन्ति पभवन्ति सन्दन्ति एतस्मा महानदियोति सरो. सीहमुखादीहि निक्खन्ता महानदियो तिक्खत्तुं तिक्खत्तुं पदक्खिणं कत्वा निक्खन्तनिक्खन्तदिसाभागेन सरन्ति गच्छन्तीति अत्थो. अनोतत्तो च सो सरो चाति अनोतत्तसरो. तस्स आसन्नं समीपट्ठानन्ति अनोतत्तसरासन्नं, तस्मिं अनोतत्तसरासन्ने, समीपेति अत्थो. रमणीयेति देवदानवगन्धब्बकिन्नरोरगबुद्धपच्चेकबुद्धादीहि रमितब्बं अल्लीयितब्बन्ति रमणीयं, तस्मिं रमणीये. सिलातलेति एकग्घनपब्बतसिलातलेति अत्थो. नानारतनपज्जोतेति पदुमरागवेळुरियादिनानाअनेकेहि रतनेहि पज्जोते पकारेन जोतमाने. नानागन्धवनन्तरेति नानप्पकारेहि चन्दनागरुकप्पूरतमालतिलकासोकनागपुन्नागकेतकादीहि अनेकेहि सुगन्धपुप्फेहि गहनीभूतवनन्तरे सिलातलेति सम्बन्धो.
६५. गुणमहन्तताय सङ्ख्यामहन्तताय च महता भिक्खुसङ्घेन, परेतो परिवुतो लोकनायको लोकत्तयसामिसम्मासम्बुद्धो तत्थ सिलासने निसिन्नो अत्तनो पुब्बानि कम्मानि ब्याकरी विसेसेन पाकटमकासीति अत्थो. सेसमेत्थ हेट्ठा बुद्धापदाने (अप. थेर १.१.१ आदयो) वुत्तत्ता उत्तानत्थत्ता च सुविञ्ञेय्यमेव. बुद्धापदाने अन्तोगधम्पि इधापदाने कुसलाकुसलं कम्मसंसूचकत्ता वग्गसङ्गहवसेन धम्मसङ्गाहकत्थेरा सङ्गायिंसूति.
पुब्बकम्मपिलोतिकबुद्धअपदानवण्णना समत्ता.
एकूनचत्तालीसमवग्गवण्णना समत्ता.