८. रट्ठपालत्थेरअपदानवण्णना

पदुमुत्तरस्स भगवतोतिआदिकं आयस्मतो रट्ठपालत्थेरस्स अपदानं. अयम्पायस्मा पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो उप्पत्तितो पुरेतरमेव हंसवतीनगरे गहपतिमहासालकुले निब्बत्तित्वा वयप्पत्तो पितु अच्चयेन घरावासे पतिट्ठितो रतनकोट्ठागारकम्मिकेन दस्सितं अपरिमाणं वंसानुगतं धनं दिस्वा ‘‘इमं एत्तकं धनरासिं मय्हं पितुअय्यकपय्यकादयो अत्तना सद्धिं गहेत्वा गन्तुं नासक्खिंसु, मया पन गहेत्वा गन्तुं वट्टती’’ति चिन्तेत्वा कपणद्धिकादीनं महादानं अदासि. सो अभिञ्ञालाभिं एकं तापसं उपसङ्कमित्वा तेन देवलोकाधिपच्चे नियोजितो यावजीवं पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्तित्वा दिब्बसम्पत्तिं अनुभवन्तो तत्थ यावतायुकं ठत्वा ततो चुतो मनुस्सलोके भिन्नं रट्ठं सन्धारेतुं समत्थस्स कुलस्स एकपुत्तको हुत्वा निब्बत्ति. तेन समयेन पदुमुत्तरो भगवा लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को वेनेय्यसत्ते निब्बानमहानगरसङ्खातं खेमन्तभूमिं सम्पापेसि. अथ सो कुलपुत्तो अनुक्कमेन विञ्ञुतं पत्तो एकदिवसं उपासकेहि सद्धिं विहारं गन्त्वा सत्थारं धम्मं देसेन्तं दिस्वा पसन्नचित्तो परिसपरियन्ते निसीदि.

तेन खो पन समयेन सत्था एकं भिक्खुं सद्धापब्बजितानं अग्गट्ठाने ठपेसि. सो तं दिस्वा पसन्नमानसो सतसहस्सभिक्खुपरिवुतस्स भगवतो सत्ताहं महादानं दत्वा तं ठानं पत्थेसि. सत्था अनन्तरायेन समिज्झनभावं दिस्वा ‘‘अयं अनागते गोतमस्स नाम सम्मासम्बुद्धस्स सासने सद्धापब्बजितानं अग्गो भविस्सती’’ति ब्याकासि. सो सत्थारं भिक्खुसङ्घञ्च वन्दित्वा उट्ठायासना पक्कामि. सो यावतायुकं पुञ्ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो इतो द्वेनवुते कप्पे फुस्सस्स भगवतो काले सत्थु वेमातिकेसु तीसु राजपुत्तेसु सत्थारं उपट्ठहन्तेसु तेसं पुञ्ञकिरियासु सहायकिच्चं अकासि. एवं तत्थ तत्थ भवे बहुं कुसलं उपचिनित्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे कुरुरट्ठे थुल्लकोट्ठिकनिगमे रट्ठपालसेट्ठिनो गेहे निब्बत्ति, तस्स भिन्नं रट्ठं सन्धारेतुं समत्थकुले निब्बत्तत्ता रट्ठपालोति वंसानुगतमेव नामं अहोसि. सो महता परिवारेन वड्ढन्तो अनुक्कमेन योब्बनप्पत्तो मातापितूहि पतिरूपेन दारेन संयोजितो महन्ते च यसे पतिट्ठापितो दिब्बसम्पत्तिसदिससम्पत्तिं पच्चनुभोति.

अथ भगवा कुरुरट्ठे जनपदचारिकं चरन्तो थुल्लकोट्ठिकं अनुपापुणि. तं सुत्वा रट्ठपालो कुलपुत्तो सत्थारं उपसङ्कमित्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजितुकामो सत्ताहं भत्तच्छेदं कत्वा किच्छेन कसिरेन मातापितरो अनुजानापेत्वा सत्थारं उपसङ्कमित्वा पब्बज्जं याचित्वा सत्थु आणत्तिया अञ्ञतरस्स सन्तिके पब्बजित्वा योनिसोमनसिकारेन कम्मं करोन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. अरहत्तं पन पत्वा सत्थारं अनुजानापेत्वा मातापितरो पस्सितुं थुल्लकोट्ठिकं गन्त्वा तत्थ सपदानं पिण्डाय चरन्तो पितु निवेसने आभिदोसिकं कुम्मासं लभित्वा तं अमतं विय परिभुञ्जन्तो पितरा निमन्तितो स्वातनाय अधिवासेत्वा दुतियदिवसे पितु निवेसने पिण्डपातं परिभुञ्जित्वा अलङ्कतपटियत्ते इत्थागारजने उपगन्त्वा ‘‘कीदिसा नाम ता, अय्यपुत्त, अच्छरायो, यासं त्वं हेतु ब्रह्मचरियं चरसी’’तिआदीनि (म. नि. २.३०१) वत्वा पलोभनकम्मं कातुं आरद्धे तस्साधिप्पायं विपरिवत्तेत्वा अनिच्चतादिपटिसंयुत्तं धम्मं कथेन्तो –

‘‘पस्स चित्तकतं बिम्बं, अरुकायं समुस्सितं;

आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति.

‘‘पस्स चित्तकतं रूपं, मणिना कुण्डलेन च;

अट्ठिं तचेन ओनद्धं, सह वत्थेहि सोभति.

‘‘अलत्तककता पादा, मुखं चुण्णकमक्खितं;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

‘‘अट्ठापदकता केसा, नेत्ता अञ्जनमक्खिता;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

‘‘अञ्जनीव नवा चित्ता, पूतिकायो अलङ्कतो;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

‘‘ओदहि मिगवो पासं, नासदा वागुरं मिगो;

भुत्वा निवापं गच्छाम, कन्दन्ते मिगबन्धके.

‘‘छिन्नो पासो मिगवस्स, नासदा वागुरं मिगो;

भुत्वा निवापं गच्छाम, सोचन्ते मिगलुद्दके’’ति. (म. नि. २.३०२; थेरगा. ७६९-७७५);

इमा गाथायो अभासि. इमा गाथा वत्वा वेहासं अब्भुग्गन्त्वा रञ्ञो कोरब्यस्स मिगाजिनवनुय्याने मङ्गलसिलापट्टे निसीदि. थेरस्स किर पिता सत्तसु द्वारकोट्ठकेसु अग्गळं दापेत्वा मल्ले आणापेसि ‘‘निक्खमितुं मा देथ, कासायानि अपनेत्वा सेतकानि निवासापेथा’’ति. तस्मा थेरो आकासेन अगमासि. अथ राजा कोरब्यो थेरस्स तत्थ निसिन्नभावं सुत्वा तं उपसङ्कमित्वा सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा ‘‘इध, भो रट्ठपाल, पब्बजन्तो ब्याधिपारिजुञ्ञं वा जराभोगञातिपारिजुञ्ञं वा पत्तो पब्बजति, त्वं पन किञ्चिपि पारिजुञ्ञं अनुपगतो एव कस्मा पब्बजसी’’ति पुच्छि. अथस्स थेरो ‘‘उपनिय्यति लोको अद्धुवो, अताणो लोको अनभिस्सरो, असरणो लोको सब्बं पहाय गमनीयं, ऊनो लोको अतित्तो तण्हादासो’’ति (म. नि. २.३०५) इमेसं चतुन्नं धम्मुद्देसानं अत्तना विदितभावं कथेत्वा तस्सा देसनाय अनुगीतिं कथेन्तो –

‘‘पस्सामि लोके सधने मनुस्से, लद्धान वित्तं न ददन्ति मोहा;

लुद्धा धनं सन्निचयं करोन्ति, भिय्योव कामे अभिपत्थयन्ति.

‘‘राजा पसय्हप्पथविं विजेत्वा, ससागरन्तं महिमावसन्तो;

ओरं समुद्दस्स अतित्तरूपो, पारं समुद्दस्सपि पत्थयेथ.

‘‘राजा च अञ्ञे च बहू मनुस्सा, अवीततण्हा मरणं उपेन्ति;

ऊनाव हुत्वान जहन्ति देहं, कामेहि लोकम्हि न हत्थि तित्ति.

‘‘कन्दन्ति नं ञाती पकिरिय केसे, ‘अहो वता नो अमरा’ति चाहु;

वत्थेन नं पारुतं नीहरित्वा, चितं समोधाय ततो डहन्ति.

‘‘सो डय्हति सूलेहि तुज्जमानो, एकेन वत्थेन पहाय भोगे;

न मीयमानस्स भवन्ति ताणा, ञाती च मित्ता अथ वा सहाया.

‘‘दायादका तस्स धनं हरन्ति, सत्तो पन गच्छति येन कम्मं;

न मीयमानं धनमन्वेति किञ्चि, पुत्ता च दारा च धनञ्च रट्ठं.

‘‘न दीघमायुं लभते धनेन, न चापि वित्तेन जरं विहन्ति;

अप्पं हिदं जीवितमाहु धीरा, असस्सतं विप्परिणामधम्मं.

‘‘अड्ढा दलिद्दा च फुसन्ति फस्सं, बालो च धीरो च तथेव फुट्ठो;

बालो हि बाल्या वधितोव सेति, धीरो च नो वेधति फस्सफुट्ठो.

‘‘तस्मा हि पञ्ञाव धनेन सेय्या, याय वोसानमिधाधिगच्छति;

अब्योसितत्ता हि भवाभवेसु, पापानि कम्मानि करोति मोहा.

‘‘उपेति गब्भञ्च परञ्च लोकं, संसारमापज्जपरम्पराय;

तस्सप्पपञ्ञो अभिसद्दहन्तो, उपेति गब्भञ्च परञ्च लोकं.

‘‘चोरो यथा सन्धिमुखे गहीतो, सकम्मुना हञ्ञति पापधम्मो;

एवं पजा पेच्च परम्हि लोके, सकम्मुना हञ्ञति पापधम्मो.

‘‘कामा हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्तं;

आदीनवं कामगुणेसु दिस्वा, तस्मा अहं पब्बजितोम्हि राज.

‘‘दुमप्फलानीव पतन्ति माणवा, दहरा च वुड्ढा च सरीरभेदा;

एतम्पि दिस्वान पब्बजितोम्हि राज, अपण्णकं सामञ्ञमेव सेय्यो.

‘‘सद्धायाहं पब्बजितो, उपेतो जिनसासने;

अवञ्झा मय्हं पब्बज्जा, अनणो भुञ्जामि भोजनं.

‘‘कामे आदित्ततो दिस्वा, जातरूपानि सत्थतो;

गब्भावोक्कन्तितो दुक्खं, निरयेसु महब्भयं.

‘‘एतमादीनवं ञत्वा, संवेगं अलभिं तदा;

सोहं विद्धो तदा सन्तो, सम्पत्तो आसवक्खयं.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, भवनेत्ति समूहता.

‘‘यस्सत्थाय पब्बजितो, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो’’ति. (थेरगा. ७७६-७९३) –

इमा गाथा अवोच. एवं थेरो रञ्ञो कोरब्यस्स धम्मं देसेत्वा सत्थु सन्तिकमेव गतो. सत्था च अपरभागे अरियगणमज्झे निसिन्नो थेरं सद्धापब्बजितानं अग्गट्ठाने ठपेसि.

९७-८. एवं सो थेरो पत्तएतदग्गट्ठानो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरस्स भगवतोतिआदिमाह. वरनागो मया दिन्नोति तस्स भगवतो रूपकाये पसीदित्वा वरो उत्तमो सेट्ठो ईसादन्तो रथीसासदिसदन्तो उरूळ्हवा भारवहो राजारहो वा. सेतच्छत्तोपसोभितोति हत्थिक्खन्धे उस्सापितसेतच्छत्तेन उपसेवितो सोभमानो. पुनपि किं विसिट्ठो वरनागो? सकप्पनो हत्थालङ्कारसहितो. सङ्घारामं बुद्धप्पमुखस्स भिक्खुसङ्घस्स वसनत्थाय आरामं विहारं अकारयिं कारेसिं.

९९. चतुपञ्ञाससहस्सानीति तस्मिं कारापिते विहारब्भन्तरे चतुपञ्ञाससहस्सानि पासादानि च अहं अकारयिं कारेसिन्ति अत्थो. महोघदानं करित्वानाति सब्बपरिक्खारसहितं महोघसदिसं महादानं सज्जेत्वा महेसिनो मुनिनो निय्यादेसिन्ति अत्थो.

१००. अनुमोदि महावीरोति चतुरासङ्ख्येय्यसतसहस्सेसु कप्पेसु अब्बोच्छिन्नउस्साहसङ्खातेन वीरियेन महावीरो सयम्भू सयमेव भूतो जातो लद्धसब्बञ्ञुतञ्ञाणो अग्गो सेट्ठो पुग्गलो अनुमोदि विहारानुमोदनं अकासि. सब्बे जने हासयन्तोति सकलानन्तापरिमाणे देवमनुस्से हासयन्तो सन्तुट्ठे कुरुमानो अमतनिब्बानपटिसंयुत्तं चतुसच्चधम्मदेसनं देसेसि पकासेसि विवरि विभजि उत्तानी अकासीति अत्थो.

१०१. तं मे वियाकासीति तं मय्हं कतपुञ्ञं बलं विसेसेन पाकटं अकासि. जलजुत्तमनामकोति जले जातं जलजं पदुमं, पदुमुत्तरनामकोति अत्थो. ‘‘जलनुत्तमनायको’’तिपि पाठो. तत्थ अत्तनो पभाय जलन्तीति जलना, चन्दिमसूरियदेवब्रह्मानो, तेसं जलनानं उत्तमोति जलनुत्तमो. सब्बसत्तानं नायको उत्तमोति नायको, सम्भारवन्ते सत्ते निब्बानं नेति पापेतीति वा नायको, जलनुत्तमो च सो नायको चाति जलनुत्तमनायको. भिक्खुसङ्घे निसीदित्वाति भिक्खुसङ्घस्स मज्झे निसिन्नो इमा गाथा अभासथ पाकटं कत्वा कथेसीति अत्थो. सेसं उत्तानत्थमेवाति.

रट्ठपालत्थेरअपदानवण्णना समत्ता.