६. राहुलत्थेरअपदानवण्णना
पदुमुत्तरस्स भगवतोतिआदिकं आयस्मतो राहुलत्थेरस्स अपदानं. अयम्पि आयस्मा पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं सिक्खाकामानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो सेनासनविसोधनविज्जोतनादिकं उळारं पुञ्ञं कत्वा पणिधानं अकासि. सो ततो चवित्वा देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे अम्हाकं बोधिसत्तं पटिच्च यसोधराय देविया कुच्छिम्हि निब्बत्तित्वा राहुलोति लद्धनामो महता खत्तियपरिवारेन वड्ढि. तस्स पब्बज्जाविधानं खन्धके (महाव. १०५) आगतमेव. सो पब्बजित्वा सत्थु सन्तिके अनेकेहि सुत्तपदेहि सुलद्धोवादो परिपक्कञाणो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. अरहा पन हुत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा अञ्ञं ब्याकरोन्तो –
‘‘उभयेनेव सम्पन्नो, राहुलभद्दोति मं विदू;
यञ्चम्हि पुत्तो बुद्धस्स, यञ्च धम्मेसु चक्खुमा.
‘‘यञ्च मे आसवा खीणा, यञ्च नत्थि पुनब्भवो;
अरहा दक्खिणेय्योम्हि, तेविज्जो अमतद्दसो.
‘‘कामन्धा जालपच्छन्ना, तण्हाछदनछादिता;
पमत्तबन्धुना बन्धा, मच्छाव कुमिना मुखे.
‘‘तं कामं अहमुज्झित्वा, छेत्वा मारस्स बन्धनं;
समूलं तण्हमब्बुय्ह, सीतिभूतोस्मि निब्बुतो’’ति. (थेरगा. २९५-२९८);
चतस्सो गाथा अभासि. तत्थ उभयेनेव सम्पन्नोति जातिसम्पदा पटिपत्तिसम्पदाति उभयसम्पत्तियापि सम्पन्नो समन्नागतो. राहुलभद्दोति मं विदूति ‘‘राहुलभद्दो’’ति मं सब्रह्मचारिनो सञ्जानन्ति. तस्स हि जातसासनं सुत्वा बोधिसत्तेन, ‘‘राहु, जातो, बन्धनं जात’’न्ति वुत्तवचनं उपादाय सुद्धोदनमहाराजा ‘‘राहुलो’’ति नामं गण्हि. तत्थ आदितो पितरा वुत्तपरियायमेव गहेत्वा आह – ‘‘राहुलभद्दोति मं विदू’’ति. भद्दोति पसंसावचनमेव. अपरभागे सत्था तं सिक्खाकामभावेन अग्गट्ठाने ठपेसि ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं सिक्खाकामानं यदिदं राहुलो’’ति (अ. नि. १.२०९).
६८. एवं सो पत्तएतदग्गट्ठानो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरस्स भगवतोतिआदिमाह. सत्तभूमिम्हि पासादेति पसादं सोमनस्सं जनेतीति पासादो. उपरूपरि ठिता सत्त भूमियो यस्मिं पासादे सोयं सत्तभूमि, तस्मिं सत्तभूमिम्हि पासादे. आदासं सन्थरिं अहन्ति आदासतलं निप्फादेत्वा लोकजेट्ठस्स भगवतो तादिनो अहं सन्थरं अदासिं, सन्थरित्वा पूजेसिन्ति अत्थो.
६९. खीणासवसहस्सेहीति अरहन्तसहस्सेहि परिकिण्णो परिवुतो. द्विपदिन्दो द्विपदानं इन्दो सामि नरासभो महामुनि गन्धकुटिं तेहि सह उपागमि पाविसीति अत्थो.
७०. विरोचेन्तो गन्धकुटिन्ति तं गन्धकुटिं सोभयमानो देवानं देवो देवदेवो नरानं आसभो नरासभो जेट्ठो सत्था भिक्खुसङ्घमज्झे निसीदित्वा इमा ब्याकरणगाथायो अभासथ कथेसीति सम्बन्धो.
७१. येनायं जोतिता सेय्याति येन उपासकेन अयं पासादसङ्खाता सेय्या जोतिता पभासिता पज्जलिता. आदासोव कंसलोहमयं आदासतलं इव सुट्ठु समं कत्वा सन्थता. तं उपासकं कित्तयिस्सामि पाकटं करिस्सामीति अत्थो. सेसं सुविञ्ञेय्यमेव.
८१. अट्ठानमेतं यं तादीति यं येन कारणेन तादी इट्ठानिट्ठेसु अकम्पियसभावत्ता तादी अगारे घरावासे रतिं अल्लीनभावं अज्झगा पापुणि, एतं कारणं अट्ठानं अकारणन्ति अत्थो.
८२. निक्खमित्वा अगारस्माति घरावासतो निक्खमित्वा तं तिणदलमिव परिच्चजित्वा सुब्बतो सुसिक्खितो पब्बजिस्सति. राहुलो नाम नामेनाति सुद्धोदनमहाराजेन पेसितं कुमारस्स जातसासनं सुत्वा पितरा सिद्धत्थेन, ‘‘राहु जातो, बन्धनं जात’’न्ति वुत्तनामत्ता राहुलो नामाति अत्थो. ‘‘यथा चन्दसूरियानं विमानपभाय किलिट्ठकरणेन राहु असुरिन्दो उपेति गच्छति, एवमेवायं मम अभिनिक्खमनपब्बज्जादीनं अन्तरायं करोन्तोरिव जातो’’ति अधिप्पायेन, ‘‘राहु जातोति आहा’’ति दट्ठब्बं. अरहा सो भविस्सतीति सो तादिसो उपनिस्सयसम्पन्नो विपस्सनायं युत्तप्पयुत्तो अरहा खीणासवो भविस्सतीति अत्थो.
८३. किकीव अण्डं रक्खेय्याति अण्डं बीजं रक्खमाना किकी सकुणी इव अप्पमत्तो सीलं रक्खेय्य, चामरी विय वालधिन्ति वालं रक्खमाना कण्डकेसु वाले लग्गन्ते भिन्दनभयेन अनाकड्ढित्वा मरमाना चामरी विय जीवितम्पि परिच्चजित्वा सीलं अभिन्दित्वा रक्खेय्य. निपको सीलसम्पन्नोति नेपक्कं वुच्चति पञ्ञा, तेन नेपक्केन समन्नागतो निपको खण्डछिद्दादिभावं अपापेत्वा रक्खणतो सीलसम्पन्नो भविस्सतीति एवं सो भगवा ब्याकरणमकासि. सो एवं पत्तअरहत्तफलो एकदिवसं विवेकट्ठाने निसिन्नो सोमनस्सवसेन एवं रक्खिं महामुनीतिआदिमाह. तं सुविञ्ञेय्यमेवाति.
राहुलत्थेरअपदानवण्णना समत्ता.