६. सप्पिदायकत्थेरअपदानवण्णना

फुस्सो नामाथ भगवातिआदिकं आयस्मतो सप्पिदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो फुस्सस्स भगवतो काले कुलगेहे निब्बत्तो अहोसि. तदा भगवा भिक्खुसङ्घपरिवुतो वीथियं चरमानो तस्स उपासकस्स गेहद्वारं सम्पापुणि. अथ सो उपासको भगवन्तं दिस्वा पसन्नमानसो वन्दित्वा पत्तपूरं सप्पितेलं अदासि, भगवा अनुमोदनं कत्वा पक्कामि. सो तेनेव सोमनस्सेन यावतायुकं ठत्वा ततो चुतो तेन पुञ्ञेन देवलोके उप्पन्नो तत्थ दिब्बसुखं अनुभवित्वा मनुस्सेसु च निब्बत्तो उप्पन्नुप्पन्नभवे सप्पितेलमधुफाणितादिमधुराहारसमङ्गी सुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं एकस्मिं कुले निब्बत्तो वुद्धिप्पत्तो सद्धो बुद्धिसम्पन्नो सत्थु धम्मदेसनं सुत्वा पसन्नमानसो पब्बजित्वा वत्तसम्पन्नो नचिरस्सेव अरहा अहोसि.

२८. सो अत्तनो पुब्बकम्मं सरित्वा जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो फुस्सो नामाथ भगवातिआदिमाह. तत्थ फुस्सोति फुस्सनक्खत्तयोगेन जातत्ता मातापितूहि कतनामधेय्येन फुस्सो. अथ वा निब्बानं फुसि पस्सि सच्छि अकासीति फुस्सो. अथ वा समतिंसपारमितासत्ततिंसबोधिपक्खियधम्मे सकले च तेपिटके परियत्तिधम्मे फुसि पस्सि अञ्ञासीति फुस्सो. भग्गवा भग्यवा युत्तोतिआदिपुञ्ञकोट्ठाससमङ्गिताय भगवा. आहुतीनं पटिग्गहोति आहुतिनो वुच्चन्ति पूजासक्कारा, तेसं आहुतीनं पटिग्गहेतुं अरहतीति आहुतीनं पटिग्गहो. महाजनं निब्बापेन्तो वीरो फुस्सो नाम भगवा वीथियं अथ तदा गच्छतेति सम्बन्धो. सेसं पाकटमेवाति.

सप्पिदायकत्थेरअपदानवण्णना समत्ता.