१. सुपारिचरियत्थेरअपदानवण्णना
पदुमो नाम नामेनातिआदिकं आयस्मतो सुपारिचरियत्थेरस्स अपदानं. अयम्पि पुरिममुनिपुङ्गवेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले यक्खयोनियं निब्बत्तो हिमवति यक्खसमागमं गतो भगवतो देवयक्खगन्धब्बनागानं धम्मदेसनं सुत्वा पसन्नमानसो उभो हत्थे आभुजित्वा अप्फोटेसि नमस्सि च. सो तेन पुञ्ञेन ततो चुतो उपरि देवलोके उप्पन्नो तत्थ दिब्बसुखं अनुभवित्वा मनुस्सेसु च चक्कवतिआदिसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं गहपतिकुले निब्बत्तो अड्ढो महद्धनो महाभोगो रतनत्तये पसन्नो सत्थु धम्मदेसनं सुत्वा सद्धाजातो पब्बजित्वा नचिरस्सेव अरहत्तं पापुणि.
१. सो एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमो नाम नामेनातिआदिमाह. तत्थ पदुमोति यस्स पादनिक्खेपसमये पथविं भिन्दित्वा पदुमं उग्गन्त्वा पादतलं सम्पटिच्छति, तेन सञ्ञाणेन सो भगवा पदुमोति सङ्खं गतो, इध पदुमुत्तरो भगवा अधिप्पेतो. सो भगवा पवना वसनविहारा अभिनिक्खम्म वनमज्झं पविसित्वा धम्मं देसेतीति सम्बन्धो.
यक्खानं समयोति देवानं समागमो आसि अहोसीति अत्थो. अज्झापेक्खिंसु तावदेति तस्मिं देसनाकाले अधिअपेक्खिंसु, विसेसेन पस्सनसीला अहेसुन्ति अत्थो. सेसं पाकटमेवाति.
सुपारिचरियत्थेरअपदानवण्णना समत्ता.