७. तिणसूलकत्थेरअपदानवण्णना

हिमवन्तस्साविदूरेतिआदिकं आयस्मतो तिणसूलकत्थेरस्स अपदानं. अयम्पि थेरो पुरिमजिनवरेसु कतपुञ्ञसम्भारो उप्पन्नुप्पन्नभवे कुसलानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तो घरावासं सण्ठपेत्वा तत्थ दोसं दिस्वा तं पहाय तापसपब्बज्जं पब्बजित्वा वसन्तो हिमवन्तसमीपे भूतगणे नाम पब्बते वसन्तं एकतं विवेकमनुब्रूहन्तं सिखिं सम्बुद्धं दिस्वा पसन्नमानसो तिणसूलपुप्फं गहेत्वा पादमूले पूजेसि. बुद्धोपि तस्स अनुमोदनं अकासि.

३५. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं विभवसम्पन्ने एकस्मिं कुले निब्बत्तो वुद्धिमन्वाय सासने पसन्नो पब्बजित्वा उपनिस्सयसम्पन्नत्ता नचिरस्सेव अरहत्तं पापुणित्वा पुब्बकम्मं सरित्वा सोमनस्सप्पत्तो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह. भूतगणो नाम पब्बतोति भूतगणानं देवयक्खसमूहानं आवासभूतत्ता भवनसदिसत्ता अविरूळ्हभावेन पवत्तत्ता च भूतगणो नाम पब्बतो, तस्मिं एको अदुतियो जिनो जितमारो बुद्धो वसते दिब्बब्रह्मअरियइरियापथविहारेहि विहरतीति अत्थो.

३६. एकूनसतसहस्सं, कप्पं न विनिपातिकोति तेन तिणसूलपुप्फपूजाकरणफलेन निरन्तरं एकूनसतसहस्सकप्पानं अविनिपातको चतुरापायविनिमुत्तो सग्गसम्पत्तिभवमेव उपपन्नोति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

तिणसूलकत्थेरअपदानवण्णना समत्ता.