१. बन्धुजीवकत्थेरअपदानवण्णना

चन्दंव विमलं सुद्धन्तिआदिकं आयस्मतो बन्धुजीवकत्थेरस्स अपदानं. अयम्पायस्मा पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरावासं सण्ठपेत्वा वसन्तो सिखिस्स भगवतो रूपकायसम्पत्तिं दिस्वा पसन्नमानसो बन्धुजीवकपुप्फानि गहेत्वा भगवतो पादमूले पूजेसि. भगवा तस्स चित्तप्पसादवड्ढनत्थाय अनुमोदनमकासि. सो यावतायुतं ठत्वा तेनेव पुञ्ञेन देवलोके निब्बत्तो छ कामावचरसम्पत्तियो अनुभवित्वा मनुस्सेसु च चक्कवत्तिआदिसम्पत्तियो अनुभवित्वा इमस्स अम्हाकं सम्मासम्बुद्धस्स उप्पन्नकाले गहपतिकुले निब्बत्तो रूपग्गयसग्गप्पत्तो सत्थु धम्मदेसनं सुत्वा सद्धाजातो गेहं पहाय पब्बजितो अरहत्तं पापुणि.

१. सो पुब्बेनिवासञाणेन पुब्बे कतकुसलकम्मं अनुस्सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो चन्दंव विमलं सुद्धन्तिआदिमाह. तत्थ चन्दंव विमलं सुद्धन्ति अब्भा, महिका, धुमो, रजो, राहूति इमेहि उपक्किलेसमलेहि विमुत्तं चन्दं इव दियड्ढसहस्सुपक्किलेसमलानं पहीनत्ता विमलं निक्किलेसत्ता सुद्धं पसन्नं सिखिं सम्बुद्धन्ति सम्बन्धो. किलेसकद्दमानं अभावेन अनाविलं. नन्दीभवसङ्खाताय बलवस्नेहाय परिसमन्ततो खीणत्ता नन्दीभवपरिक्खीणं. तिण्णं लोकेति लोकत्तयतो तिण्णं उत्तिण्णं अतिक्कन्तं. विसत्तिकन्ति विसत्तिकं वुच्चति तण्हा, नित्तण्हन्ति अत्थो.

२. निब्बापयन्तं जनतन्ति धम्मवस्सं वस्सन्तो जनतं जनसमूहं किलेसपरिळाहाभावेन निब्बापयन्तं वूपसमेन्तं. सयं संसारतो तिण्णं, सब्बसत्ते संसारतो तारयन्तं अतिक्कमेन्तं चतुन्नं सच्चानं मुननतो जाननतो मुनिं सिखिं सम्बुद्धन्ति सम्बन्धो. वनस्मिं झायमानन्ति आरम्मणूपनिज्झानलक्खणूपनिज्झानेहि झायन्तं चिन्तेन्तं चित्तेन भावेन्तं वनमज्झेति अत्थो. एकग्गं एकग्गचित्तं सुसमाहितं सुट्ठु आरम्मणे आहितं ठपितचित्तं सिखिं मुनिं दिस्वाति सम्बन्धो.

३. बन्धुजीवकपुप्फानीति बन्धूनं ञातीनं जीवकं जीवितनिस्सयं हदयमंसलोहितं बन्धुजीवकं हदयमंसलोहितसमानवण्णं पुप्फं बन्धुजीवकपुप्फं गहेत्वा सिखिनो लोकबन्धुनो पूजेसिन्ति अत्थो. सेसं उत्तानत्थमेवाति.

बन्धुजीवकत्थेरअपदानवण्णना समत्ता.